दम्भः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भः, पुं, (दभ्यते इति । दम्भ दम्भे + घञ् ।) कपटः । (यथा, पञ्चतन्त्रे । १ । २२२ । “मुगुप्तस्यापि दम्भस्य ब्रह्माप्यन्तं न गच्छति ॥” अयन्तु अधर्म्मात् मृषागर्भे संजोतः । यथा, भागवते । ४ । ८ । २ । “मृषाऽधर्म्मस्य भार्य्यासीद्दम्भं मायाञ्च शत्रुहन् ! । असूत मिथुनं तत्तु निरृतिर्जगृहेऽप्रजाः ॥”) कल्कम् । शाटोपाहङ्कतिः । इति शब्दरत्ना- वली ॥ (यथा, गीतायाम् । १६ । १७ । “आत्मसम्भाविता स्तब्धा धनमानमदान्विताः । यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्ब्बकम् ॥” धर्म्मानुत्साहः । यथा, मनुः । ४ । १६३ । “नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम् । द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्ण्यञ्च वर्जयेत् ॥” महादेवः । यथा, महाभारते । १३ । १७ । ७८ । “दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भः [dambhḥ], [दम्भ्-घञ्]

Deceit, fraud, trickery; Ms.4.163.

Religious hypocrisy; Bg.16.4.

Arrogance. pride, ostentation.

Sin, wickedness.

The thunderbolt of Indra.

An epithet of Śiva. -Comp. -चर्या deceit, hypocrisy.

"https://sa.wiktionary.org/w/index.php?title=दम्भः&oldid=284545" इत्यस्माद् प्रतिप्राप्तम्