दर्पः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पः, पुं, (दृप्यते इति । दृप् + भावे घञ् ।) उच्छृङ्खलत्वम् । इति नीलकण्ठः । कस्तूरी । इति मेदिनी । पे, ७ ॥ उष्मा । इति त्रिकाण्ड- शेषः ॥ अहङ्कृतिः । तत्पर्य्यायः । गर्व्वः २ अह- ङ्कारः ३ अवलिप्तता ४ अभिमानः ५ ममता ६ मानः ७ चित्तोन्नतिः ८ स्मयः ९ । इति हेम- चन्द्रः । २ । २३१ ॥ * ॥ “अहङ्कारश्च सर्व्वेषां पापबीजममङ्गलम् । ब्रह्माण्डेषु च सर्व्वेषां गर्व्वपर्य्यन्तमुन्नतिः ॥ येषां येषां भवेद्दर्पो ब्रह्माण्डेषु परात्परे । विज्ञाय सर्व्वं सर्व्वात्मा तेषां शास्ताहमेव च ॥ क्षुद्राणां महताञ्चैव येषां गर्व्वो भवेत् प्रिये ! । एवंविधमहं तेषां चूर्णीभूतं करोमि च ॥ चकार दर्पभङ्गञ्च महाविष्णोः पुरा विभुः । ब्रह्मणश्च तथा विष्णोः शेषस्य च शिवस्य च ॥ धर्म्मस्य च यमस्यापि शाम्बस्य चन्द्रसूर्य्ययोः । गरुडस्य च वह्नेश्च गुरोर्दूर्व्वाससस्तथा ॥ दौवारिकस्य भक्तस्य जयस्य विजयस्य च । सुराणामसुराणाञ्च भवतः कामशक्रयोः ॥ लक्ष्मणस्यार्ज्जुनस्यापि बाणस्य च भृगोस्तथा । सुमेरोश्च समुद्राणां वायोश्च वरुणस्य च ॥ सरस्वत्याश्च दुर्गायाः पद्मायाश्च भुवस्तथा । सावित्र्याश्चैव गङ्गाया मनसायास्तथैव च ॥ प्राणाधिष्ठातृदेव्याश्च प्रियायाः प्राणतोऽपि च । प्राणाधिकाया राधाया अन्येषामपि का कथा । हत्वा दर्पञ्च सर्व्वेषां प्रसादञ्च चकार सः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पः [darpḥ] दर्पण [darpaṇa] दर्पित [darpita], दर्पण दर्पित &c. See under दृप्.

"https://sa.wiktionary.org/w/index.php?title=दर्पः&oldid=285147" इत्यस्माद् प्रतिप्राप्तम्