दर्शन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शनम्, क्ली, (दृश्यतेऽनेनेति । दृश् + करणे ल्युट् ।) नयनम् । स्वप्नः । बुद्धिः । धर्म्मः । उपलब्धिः । दर्पणः । (दृश्यते यथार्थतत्त्वमनेनेति ।) शास्त्रम् । इति मेदिनी । ने, ७३ ॥ शास्त्रन्तु षड्विधम् । वैशेषिकन्यायमीमांसासाङ्ख्यपात- ञ्जलवेदान्तरूपम् । एतानि तत्त्वज्ञानार्थं वेदान् विचार्य्य कणादगोतमजैमिनिकपिलपतञ्जलि- वेदव्यासाख्यैर्मुनिषट्कैः कृतानि ॥ इज्या । इत्य- जयः ॥ वर्णः । दति त्रिकाण्डशेषः ॥ चाक्षुष- ज्ञानम् । देखा इति भाषा । तत्पर्य्यायः । निर्व्वर्णनम् २ निध्यानम् ३ आलोकनम् ४ ईक्ष- णम् ५ । इत्यमरः । ३ । २ । ३१ ॥ निभा- लनम् ६ । इति जटाधरः ॥ * ॥ (यथा, भाग- वते । १ । ६ । ३४ । पौषे मासि शुक्लरात्रौ यत्र तत्र स्थले नरः । पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम् ॥ सप्तजन्म भवेत्तस्य पुत्त्रः पौत्त्रो धनेश्वरः ॥ उपोष्यैकादशीं स्नात्वा प्रभाते द्बादशीदिने । दृष्ट्वा काश्यामन्नपूर्णां करोति जन्मखण्डनम् ॥ दत्त्वा विष्णुपदे पिण्डं विष्णुं यश्च प्रपूजयेत् । पितॄणां स्वात्मनश्चैव करोति जन्मखण्डनम् ॥ प्रयागे मुण्डनं कृत्वा यश्च पितॄन् प्रतर्पयेत् । उपोष्य नैमिषारण्ये करोति जन्मखण्डनम् ॥ उपोष्य पुष्करे स्नात्वा किंवा वदरिकाश्रमे । संपूज्य दृष्ट्वा मामेव करोति जन्मखण्डनम् ॥ सिद्धां कृत्वा च वदरीं भुङ्क्ते वदरिकाश्रमे । दृष्ट्वा मत्प्रतिमां नन्द ! करोति जन्मखण्डनम् ॥ दोलायमानं गोविन्दं दृष्ट्वा वृन्दावने च माम् । दृष्ट्वा संपूज्य नत्वा च करोति जन्मखण्डनम् ॥ भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम् । संपूज्य नत्वा भक्तश्च करोति जन्मखण्डनम् ॥ रथस्थञ्च जगन्नाथं यो द्रक्ष्यति कलौ नरः । संपूज्ज भक्त्या नत्वा च करोति जन्मखण्डनम् ॥ उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत् । संपूज्य नत्वा मामेव करोति जन्मखण्डनम् ॥ कार्त्तिकीपूर्णिमायाञ्च दृष्ट्वा मत्प्रतिमां शुभाम् । उपोष्य पूजां कृत्वा च करोति जन्मखण्डनम् ॥ चन्द्रभागासमीपे च माघ्याञ्च मां नयेत् शनैः । राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम् ॥ रामेश्वरं सेतुवन्धे आषाढीपूर्णिमादिने ॥ उपोष्य दृष्ट्वा संपूज्य करोति जन्मनः क्षयम् ॥ दीननाथं दिनकरं लोलार्के चोत्तरायणे । उपोष्य दृष्ट्वा संपूज्य करोति जन्मनः क्षयम् ॥ कृषिकोष्ठे सुवसने कलविङ्के सुगह्वरे । विस्यन्दके राजकोष्ठे नन्दके पुष्पभद्रके ॥ पार्व्वतीप्रतिमां दृष्ट्वा कार्त्तिकेयं गणेश्वरम् । नन्दिनं शङ्करं दृष्ट्वा करोति जन्मनः क्षयम् ॥ त्रिकूटे मणिभद्रे च पश्चिमोदधिसन्निधौ । समुपोष्य दधि प्राश्य मां दृष्ट्वा मुक्तिमाप्नुयात् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शन नपुं।

वीक्षणम्

समानार्थक:निर्वर्णन,निध्यान,दर्शन,आलोकन,ईक्षण,दृष्टि

3।2।31।1।3

निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्. प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शन¦ न॰ दृश--भावकरणादौ ल्युट्।

१ नेत्रे

२ स्वप्ने

३ बुद्धौ

४ धर्मे

५ दर्पणे

६ शास्त्रे मेदिनि॰

७ इज्यायाम् अजयपा॰

८ वर्णे त्रिकाण्ड॰

९ निभालने जटाध॰। दृश्यते यथार्थतयाज्ञायते पदार्थोनेन करणे ल्युट्। अध्यात्मावेदके

१० शास्त्र-भेदे तानि च नास्तिकवौद्धजैनवैष्णवास्तिकादिमत-भेदेन नानाविधानि। तानि च सर्वदर्शनसंग्रहे तत्तन्मत-प्रदर्शनावसरे दर्शितानि। तत्रास्तिकदर्शनानि षट् तत्रगौतमेन न्यायदर्शनं, कणादेन वैशेषिकं, कपिलेन साङ्ख्यं,पतञ्जलिना योगदर्शनं, जैमिनिना पूर्वमीमांसाव्यासेन वेदा-न्तदर्शनम् प्रणीतम्। तच्च वेदान्तदर्शनं व्यासप्रणीतमेकमपिबहुभिर्विद्वद्भिः द्वैताद्वैतविशिष्टाद्वैतशुद्धाद्वैतप्रभेदेननानाविधं यथा बुद्धस्यैकस्योपदेशकत्वेऽपि विनेयानां बुद्धि-वैचित्र्यात् स्वस्वबुद्ध्यनुमारिपदार्थकल्पनया योगाचारमाध्यमिकादिभेदा उपज ताः। एवं वेदान्तस्यापि
“षड्दर्श-नानि मेऽङ्गानि पादौ कुक्षिः करौ शिरः। तेषु भेदन्तुयः कुर्यान्मदङ्गच्छेदको हि सः। एतान्येव कुलस्यापि षडङ्गानि भवन्ति हि। तस्मान्मदात्मकं कौलमहं कौलात्मकःपिये!” तन्त्रशास्त्रम्। पदार्थभेददर्शने फलभेदो यथा(
“नन्द उवाच।
“येषाञ्च दर्शने! पुण्यं पापञ्च यस्य दर्शने। तत्सर्वं वद सर्वेश! श्रेतुं कौतूहलं हि मे। श्री भगवान्उवाच। सुब्राह्मणानां तीर्थानां वैष्णवानाञ्च दर्शने। देवताप्रतिमादर्शात् तीर्थस्वायी भवेन्नरः। सूर्य्यस्यदर्शने भक्त्या सतीनां दर्शने तथा। सन्न्यासिनां यतीनाञ्च तथैव ब्रह्मचारिणाम्। भक्त्या गवाञ्च वह्नीनांगुरूणाञ्च विशेषतः। गजेन्द्राणाञ्च सिंहानां श्वेता-श्वानां तथैव च। शूकानाञ्च पिकानाञ्च खञ्जनानांतथैत्र च। हंसानाञ्च मयूराणां चासानां शङ्खपक्षिणाम्। वत्सप्रयुक्तधेनूनामश्वत्थानां तथैव च। पतिपुत्रवती-माञ्च नराणां तीर्थयायिनाम्। प्रदीपानां सुवर्णानां[Page3474-b+ 38] मणीनाञ्च विशेषतः। मुक्तानां हीरकाणाञ्च माणि-क्यानां महाशय!। तुलसीशुक्लपुष्पाणां दर्शनं पाप-नाशनम्। फलानि शुक्लधान्यानि घृतं दधि मधूनि च। पूर्णकुम्भञ्च लाजांश्च राजेन्द्रं दर्पणं जलम्। मा-लाञ्च शुक्लपुष्पाणां दृष्ट्वा पुण्यं लभेन्नरः। गोरो-चनाञ्च कर्पूरं रजतञ्च सरोवरम्। पुष्पोद्यानं पुष्पि-तञ्च दृष्ट्वा पुण्यं लभेन्नरः। देवाश्रितं देवधटं सुगन्धि-पवनं तथा। शङ्खञ्च दुन्दुभिं दृष्ट्वा सद्यः पुण्यं लभेन्नरः। शुक्लपक्षस्य चन्द्रस्य पीयूषं चन्दनं तथा। कस्तूरींकुङ्कुमं दृष्ट्वा नन्द। पुण्यं लभेन्नरः। पताकामक्षयवटतरुं देवोत्थितं शुभम्। देवालयं देवखातं दृष्ट्वा पुण्यंलभेन्नरः। शुक्तिं प्रबालं रजतं स्फाटिकं कुशम्लकभ्। गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यं लभेन्नरः। पुराणपुस्तकं शुद्धं सवीजं विष्णुयन्त्रकम्। स्निग्धदूर्वाक्षतंरत्नं दृष्ट्वा पुण्यं लभेन्नरः। तपस्विनं सिद्धमन्त्रंसमुद्रं कृष्णमारकम्। यज्ञं महोत्सवं दृष्ट्वा सुपुण्यंलभते नरः। गोभूत्रं गेमयं दुग्धं गोधूलिं गोष्ठगोस्पदम्। पक्वशस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेन्नरः। रुचिरां पद्मिनीं श्यामां न्यग्रोवपरिमण्डलाम्। सु-वेशिकां सुवसनां दिव्यभूषणभूषिताम्। वेश्यां क्षेमङ्करींगन्धं सदूर्वाक्षततण्डुलम्। सिद्धान्नं परमान्नञ्चदृष्ट्वा पुण्यं लभेद्ध्रुवम्। कार्त्तिक्यां पूर्णिमायाञ्च ण-धिकाप्रतिमां शुभाम्। संपूज्य दृष्ट्वा नत्वा च करोतिजन्मखण्डनम्। हिङ्गुलायां तथाष्टम्यामिषे मासि सितेशुभे। श्रीदुर्गाप्र तमां दृष्ट्वा करोति जन्मखण्डनम्। शिवरात्रौ च काश्याञ्च विश्वनाथस्य दर्शनम्। कृत्वो-पवासं पूजाञ्च करोति जन्मखण्डनम्। जन्माष्टमी-दिने भक्तो दृष्ट्वा मां विन्ध्यमाधयम्। प्रणम्य पूजां कृत्वाच करोति जन्मखण्डनम् उपोव्य व्रजभूमौ। चभाण्डीरे मालतीवने। संपूज्य राधां मां चैव करोतिजन्मखण्डनम्। पौषे मासि शुक्लरात्रौ यत्र तत्र स्थलेनरः। पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम्। सप्तजन्म भवेत्तस्य पुत्रः पौत्रो धनेश्वरः। उपोष्यैकादशींस्रात्वा प्रभाते द्वादशीदिने। द्वष्ट्वा काश्यामन्नपूर्णा-करोति जन्मखण्डनम्। दत्त्वा विष्णुपदे पिण्डं विष्णुंयश्च विलोकयेत्। पितॄणां स्वात्मनश्चैव करोति जन्म-खण्डनम्। प्रयागे मुण्डनं कृत्वा यश्च पितॄन् प्रतर्वयेत्। उपोव्य नैमिपारण्ये करोति जन्मखण्डनम्। ष्टपोषप्र[Page3475-a+ 38] पुष्करे स्नात्वा किं वा वदरिकाश्रमे। संपूज्य दृष्ट्वामामेव करोति जन्मखण्डनम्। सिद्धां कृत्वा च वदरींभुङ्क्ते वदरिकाश्रमे। दृष्ट्वा मत्प्रतिषां नन्द! करोतिजन्मखण्डनम्। दोलायमानं गोविन्दं दृष्ट्वा वृन्दावनेच माम्। दृष्ट्वा सपूज्य नत्वा च करोति जन्मखण्डनम्। भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम्। संपूज्यनत्वा भक्तश्च करोति जन्मखण्डनम्। रथस्थञ्च जग-न्नाथं यो द्रक्ष्यति कलौ नरः। संपूज्य भक्त्या नत्वाच करोति जन्मखण्डनम्। उत्तरायणसंक्रान्त्यां प्रयागेस्नानमाचरेत्। संपूज्य दृष्ट्वा मामेव करोति जन्म-खण्डनम्। कार्त्तिक्यां पूर्णिमायाञ्च दृष्ट्वा मत्प्रतिमांशुभाम्। उपोष्य पूजां कृत्वा च करोति जन्मखण्ड-नम्। चन्द्रभागासमीपे च माध्याञ्च मां नमेत् शनैः। राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम्। रामे-श्वरं सेतुबन्धे आषाढपूर्णिमादिने। उपोष्य दृष्ट्वासंपूज्य करोति जन्मनः क्षयम्। दीननाथं दिनकरंलोलार्के चोत्तरायणे। उपोष्य दृष्ट्वा मंपूज्य करोतिजन्मनः क्षयम्। ऋषिकोष्ठे सुवसने कलविङ्के सु-गह्वरे। विस्यन्दके राजकोष्ठे नन्दके पुष्पभद्रके। पार्वतीप्रतिमां दृष्ट्वा कार्त्तिकेयं गणेश्वरम्। नन्दिनंशङ्करं दृष्ट्वा करोति जन्मनः क्षयम्। त्रिकूटे मणि-भद्रे च पश्चिमोदधिसन्निधौ। समुपोष्य दधि प्राश्यमां दृष्ट्वा मुक्तिमाप्नुयात्” ब्रह्म॰ वे॰ जन्म॰ ख॰। शकुन-भेददर्शने फलभेदः शकुनशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शन¦ n. (-नं)
1. Sight, seeing, looking.
2. The eye.
3. A Mirror.
4. Show- ing.
5. Aspect, appearance.
6. Directing, instructing.
7. A dream, a vision.
8. Virtue, moral merit.
9. Knowledge, especially religi- ous.
10. Understanding, intellect.
11. A Sastra, one of six religi- ous or philosophical systems, the Patanjala, Sankhya, Vaiseshika, Nyaya, Mimansa, and Vedanta.
12. Sacrifice.
13. Colour.
14. Vi- siting any sacred shrine, worshipping in the presence of any image. E. दृश् to see, affix भावकरणादौ ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शन [darśana], a. [दृश्-ल्युट्]

Seeing, looking at (at the end of comp.); देव˚, धर्म˚, &c.

Showing, exhibiting.

Demonstrating, teaching; भागवतधर्मदर्शना नव महाभागवताः Bhāg.5.4.12.

नम् Looking at, seeing, observing; अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः R.3.41.

Knowing, understanding, perceiving, foreseeing; प्रमदा- मनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् R.8.72.

Sight, vision; चिन्ताजडं दर्शनम् Ś.4.6.

The eye.

Inspection, examination; बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् Y.1.329.

Showing, displaying, exhibition.

Becoming visible; रावणिः पितरं युद्धे दर्शनस्थो$ब्रवीदिदम् Rām.7.29.32.

Visiting, paying a visit, a visit; देवदर्शनम् Y.1.84.

(Hence) Going into the presence of, audience; मारीचस्ते दर्शनं वितरति Ś.7; राजदर्शनं मे कारय &c.

Colour, aspect, appearance, semblance, अनेकाद्भुतदर्शनम् Bg.11.1; R.3.57.

Appearance, producing (in court); यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः Ms.8.158,16.

A vision, dream, dream.

Discernment, understanding, intellect; सम्यग्दर्शन- संपन्नः कर्मभिर्न निबध्यते Ms.6.74.

Judgment, apprehension.

Religious knowledge.

A doctrine or theory prescribed in a system.

A system of philosophy; as in सर्वदर्शनसंग्रह.

A mirror.

Virtue, moral merit.

Opinion; अथानुजं भृशमनुशास्य दर्शनम् Rām.2.21.64.

Intention.

Demonstration.

A sacrifice.

Mention, assertion; दर्शनादर्शन- योश्च दर्शनं प्रमाणम् ŚB. on MS.1.7.36.

Experiencing; भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् Bhāg.8.25. -Comp. -ईप्सु a. anxious to see. -उज्ज्वला the great white jasmine. -गृहम् an audience chamber. -पथः the range of sight or vision, horizon; मम दर्शनपथमवतीर्णः Ś.3. 'crossed my sight'; क्रमेण तस्मिन्नवतीर्णदृक्पथे N. -प्रतिभूः, -प्रातिभाव्यम् a bail or surety for appearance; Y.2.54; Ms.8.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शन mf( ई)n. showing. Pa1n2. 5-2 , 6

दर्शन mf( ई)n. ifc. seeing , looking at(See. तुल्य-, देव-, सम-.) Ragh. xi , 93

दर्शन mf( ई)n. " knowing " , See. धर्म-

दर्शन mf( ई)n. exhibiting , teaching MBh. i , 583 BhP. v , 4 , 11

दर्शन n. seeing , observing , looking , noticing , observation , perception RV. i , 116 , 23 S3Br. xiv S3a1n3khGr2. v , 5 MBh. etc.

दर्शन n. ocular perception Sus3r. iv , 27

दर्शन n. the eye-sight , vi , 17

दर्शन n. inspection , examination Ya1jn5. 1 , 328 Hariv. 5460

दर्शन n. visiting Ya1jn5. i , 84 Katha1s. iii , 8

दर्शन n. audience , meeting (with gen. Ca1n2. ; instr. with or without सहVet. ; in comp. Ragh. xii , 60 ) S3ak. v , 5/6 ; vii , 25/26 Ra1jat. vi , 43

दर्शन n. experiencing BhP. i , 8 , 25

दर्शन n. foreseeing Ragh. viii , 71

दर्शन n. contemplating Mn. viii , 9 and 23

दर्शन n. apprehension , judgement S3ak. iii , 6/7 discernment , understanding , intellect Mn. vi , 74 Ya1jn5. i , 8 Bhag. etc.

दर्शन n. opinion Ma1lav. v , 13/14 Ka1m. ii , 6

दर्शन n. intention(See. पाप-) R. i , 58 , 18

दर्शन n. view , doctrine , philosophical system (6 in number , viz. [ पूर्व-] मीमांसाby Jaim. उत्तर-मीमांसा> by Ba1dar. ; न्यायby गोतमVais3eshika by कणा-दसांख्यby Kap. ; Yoga by Pat. ) MBh. xii , 11045 f. BhP. etc.

दर्शन n. the eye Sus3r. v , 8 S3ak. iv , 6 Prab. iii , 10

दर्शन n. the becoming visible or known , presence A1s3vGr2. iii , 7 Mn. ii , 101

दर्शन n. iv Ya1jn5. i , 131 ; ii , 170 MBh. etc.

दर्शन n. appearance (before the judge) Mn. viii , 158 Ya1jn5. ii , 53 Ka1m.

दर्शन n. the being mentioned (in any authoritative text) Ka1tyS3r. i , xxvi La1t2y. vi , ix Ba1dar. i , s , 25 MBh. xiv , 2700

दर्शन n. a vision , dream Hariv. 1285 Hit. iii , 0/1

दर्शन n. ifc. appearance , aspect , semblance Mn. ii , 47 MBh. ( Nal. ii , 3 ; xii , 18 and 44 ) R. Ragh. iii , 57

दर्शन n. colour L.

दर्शन n. showing(See. दन्त-) Bhartr2. ii , 26 Dhu1rtas. i , 35/11 a mirror L.

दर्शन n. a sacrifice L.

दर्शन n. = धर्मL.

"https://sa.wiktionary.org/w/index.php?title=दर्शन&oldid=500164" इत्यस्माद् प्रतिप्राप्तम्