दलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दलम्, क्ली, (दलतीति । दल + अच् ।) उत्सेधः । खण्डम् । (यथा, मनुः । ८ । २९९ । “भार्य्या पुत्त्रश्च दासश्च शिष्यो भ्राता च सोदरः । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥”) शस्त्रीच्छदः । अपद्रव्यम् । पत्रम् । इति मेदिनी । ले, २६ ॥ (यथा, आर्य्यासप्तशत्याम् । ६९२ । “हृत्वा तटिनि ! तरङ्गैर्भ्रमितश्चक्रेषु नाशये निहितः । फलदलवल्कलरहितस्त्वयान्तरीक्षे तरुस्त्यक्तः ॥”) घनम् । इति शब्दरत्नावली ॥ तमालपत्रम् । इति राजनिर्घण्टः ॥ अर्द्धम् । इति लीलावती ॥ (पुं, इक्ष्वाकुकुलोत्पन्नपरिक्षिन्नामराज्ञः पुत्त्रः । स च मण्डूकराजकन्यासम्भूतः । यथा, महा- भारते । ३ । १९२ । ४४ । “अथ कस्यचित् कालस्य तस्यां कुमारास्त्रय- स्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति ॥” वृक्षविशेषः । तत्पर्य्याया यथा, -- “वातपोतः पलाशः स्याद्वानप्रस्थश्च किंशुकः । राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥” इति वैद्यकरत्नमालायाम् ॥)

"https://sa.wiktionary.org/w/index.php?title=दलम्&oldid=139768" इत्यस्माद् प्रतिप्राप्तम्