दशहरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशहरा, स्त्री, (दश अदत्तोपादानहिंसादिदश- विधानि दशजन्मकृतानि वा पापानि हरतीति । हृ + “हरतेरनुद्यमनेऽच् ।” ३ । २ । ९ । इत्यच् । एभिर्म्मन्त्रैः प्रतिष्ठान्तु हृदयेऽपि समाचरेत् ॥ अस्मै प्राणाः प्रतिष्ठन्तु अस्मै प्राणाः क्षरन्तु च । अस्मै देवत्वसङ्ख्यायै स्वाहेति यजुरुच्चरन् ॥ अङ्गमन्त्रैरङ्गिमन्त्रैर्व्वैदिकैरित्यनेन च । प्राणप्रतिष्ठां सर्व्वत्र प्रतिमासु समाचरेत् ॥ प्रतिमापूजने कुर्य्यादात्मन्यपि च मन्त्रवित् । प्राणप्रतिष्ठां प्रथमं पूजाभागविशुद्धये ॥ अस्मित् प्राणप्रतिष्ठान्तु प्रतिमापूजनादृते । न क्वचित्तु बुधः कुर्य्यात् कृत्वा मृत्युमवाप्नुयात् ॥ विष्णोरिष्टिमिमां कृत्वा दशम्यां पार्थिवोत्तमः । तस्यामेव तु पूर्णायां प्रतिमां स्थापयेत्ततः ॥ एवं दशहरायान्तु कृत्वेष्टिं पार्थिवो हरेः । सर्व्वान् कामानवाप्नोति निर्व्विघ्नोऽपि स जायते ॥” इति कालिकापुराणे ८९ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशहरा¦ स्त्री दश पापानि हरति हृ--ट। गङ्गाजन्मदिनेज्यैष्ठशुक्लदशम्याम्। (
“ज्यैष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्तेशैलान्निरगमदियं जाह्नवी मर्त्यलोकम्। पापान्यस्यांहरति च तिथौ सा दशेत्याहुरार्य्याः पुण्यं दद्यादपिशतगुणं वाजिमेधायुतस्येति” शङ्खः। अपि च
“अदत्ता-नामुपादानं हिंसा चैव विधानतः। परदारोपसेवा चकायिकं त्रिविधं स्मृतम्। पारुष्यमनृतं चैव पैशुन्य-ञ्चापि सर्वशः। असम्बद्धप्रलापश्च वाङ्मयं स्यात् चतु-र्विधम्। परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्। वित-थाभिनिवेशश्च मानसं त्रिविधं स्मृतम्। एतानि दश-पापानि हर त्वं मम जाह्नवि!। दशपापहरा यस्मात्तस्माद्दशहरा स्मृता।
“ज्येष्ठे मासि सिते पक्षे दशम्यांबुधहस्तयोः। गरानन्दे व्यतीपाते कन्याचन्द्रे वृषेरवौ। दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते” इतिस्कन्दपुराणे काशीखण्डे। अत्र कुजबुधयोः कल्पभेदेनव्यवस्था ज्ञेया।

३ सेतुबन्धरामेश्वरयोः प्रतिष्ठादिनेयथोक्तं स्कान्दे सेतुमाहात्म्ये
“ज्यैष्ठे मासि सितेपक्षे दशम्यां बुधहस्तयोः। गरानन्दे व्यतीपाते कन्या-चन्द्रे वृषे रवौ। दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम्। रामो वै स्थापयामास शिवलिङ्गमनुत्तमम्। अता-[Page3484-a+ 38] ऽस्यां तु विशेषेण पूजा कार्य्या हितार्थिभिः”। अत्रस्नानाङ्कसङ्कल्प उक्तः गारुडे

२१

५ अ॰ यथा।
“अद्यहस्ते तु नक्षत्रे दशम्यां ज्यैष्ठके सिते। दशपापहरा-याञ्च अदत्तादानकल्मषम्। विरुद्धाचरणं हिंसा पर-दारोपसेवनम्। पारुष्याहृतपैशुन्यमसम्बद्धं प्रभाषणम्। परद्रव्याभिध्यानञ्च मनसानिष्टचिन्तनम्। एतद्दशाघघा-ताय गङ्गास्नानंनं करोम्यहमिति”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशहरा/ दश--हरा f. " taking away the 10 sins " , the गङ्गा

दशहरा/ दश--हरा f. a festival in honour of the गङ्गा(on the 10th day of ज्यैष्ठ, Vratapr. x ; now held in honour of दुर्गाin month अश्विन्) PSarv.

"https://sa.wiktionary.org/w/index.php?title=दशहरा&oldid=287434" इत्यस्माद् प्रतिप्राप्तम्