दशावतार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशावतारः, पुं, (दश अवतारा यस्य ।) विष्णुः । इति त्रिकाण्डशेषः ॥ तस्य दशावतारा यथा, -- मत्स्यः १ कूर्म्मः २ वराहः ३ नृसिंहः ४ वामनः ५ जामदग्न्यः ६ रामः ७ कृष्णः ८ बुद्धः ९ कल्की १० । इति वराहपुराणम् ॥ अपि च । “धर्म्मान्नारायणस्यांशः संभूतश्चाक्षुषेऽन्तरे । यज्ञञ्च वर्त्तयामासुर्देवा वैवस्वतेऽन्तरे ॥ प्रादुर्भावे ततस्तस्य ब्रह्मा ह्यासीत् पुरोहितः । युगाख्यायाञ्च तुर्य्यान्तु आपन्नेषु सुरेषु वै ॥ संभूतः स समुद्रान्ते हिरण्यकशिपोर्वधे । द्वितीये नरसिंहाख्ये रुद्रो ह्यासीत् पुरोहितः ॥ बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति । तृतीये वामनस्यार्थे घर्म्मेण तु पुरोधसा ॥ एतास्तिस्रः स्मृतास्तस्य दिव्याः संभूतयो द्विजाः । मानुष्याः सप्त येऽन्ये तु शापजास्तान्निबोधत ॥ त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह । नष्टे धर्म्मे चतुर्थांशे मार्कण्डेयपुरःसरः ॥ पञ्चमः पञ्चदश्यान्तु त्रेतायां सम्बभूव ह । मान्धाता चक्रवर्त्ती तु तस्यौतथ्यः पुरःसरः ॥ एकोनविंश्यां त्रेतायां सर्व्वक्षत्त्रान्तकृद्विभुः । जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥ चतुर्व्विंशे युगे रामो वशिष्ठेन पुरोधसा । सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥ अष्टमे द्बापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्तथा जज्ञे जातूकर्णपुरःसरः ॥ कर्त्तुं धर्म्मव्यवस्थानमसुराणां प्रणाशनम् । बुद्धो नवमके जज्ञे तपसा पुष्करेक्षणः ॥ देवक्यां वसुदेवेन द्बैपायनपुरःसरः । तस्मिन्नेव युगे क्षीणे सन्ध्याशिष्टे भविष्यति ॥ कल्की विष्णुयशा नाम पाराशर्य्यपुरःसरः । दशमो भाव्यसंभूतो याज्ञवल्क्यपुरसरः ॥” इति मत्स्यपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशावतार¦ पु॰ दश अवतारा अस्य। विष्णौ दश अवताराश्चअवतारशब्दे दृश्या अन्येऽपि दशावताराः मत्स्यपु॰ उक्तायथा
“धर्मान्नारायणस्यांशः संमूतश्चाक्षुषेऽन्तरे। यज्ञञ्चवर्त्तयामासुर्देवा वैवस्वतेऽन्तरे। प्रादुर्भावे ततस्तस्य ब्रह्माह्यासीत् पुरोहितः। युगाख्यायाञ्चतुर्थ्यान्तु आपन्नेषुसुरेषु वै। संभूतः स समुद्रान्ते हिरण्यकशिपोर्बधे। द्वितीये नरसिंहाख्ये रुद्रो ह्यासीत् पुरोहितः। वलि-संस्थेषु लोकेषु त्रेतायां सप्तमं प्रति। तृतीये वामनस्यार्थेधर्मेण तु पुरोधसा। एतास्तिस्रः स्मृतास्तस्य दिव्याःसंभूतयो द्विजाः। मानुष्याः सप्त येऽन्ये तु शापजा-स्तान्निबोधत। त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह। नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरःसरः। पञ्चमःपञ्चदश्यान्तु त्रेतायां सम्बभूव ह। मान्धाता चक्रवर्त्तीतु तस्यौतथ्यपुरःसरः। एकोनविंश्यां त्रेतायांसर्वक्षत्रान्तकृद्विभुः। जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः। चतुर्विंशे युगे रामो वशिष्ठेन पुरोधसा। सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः। अष्टमे द्वापरेविष्णुरष्टाविंशे पराशरात्। वेदव्यासस्तथा जज्ञेजातूकर्णपुरःसरः। कर्त्तुं धर्मव्यवस्थानमसुराणांप्रणाशनम्। तिष्ये नवमके जज्ञे तपसा पुष्करेक्षणः। [Page3507-b+ 38] देवक्यां वसुदेवेन द्वैपायनपुरःसरः। तस्मिन्नेव युगेक्षीणे सन्ध्याशिष्टे भविष्यति। कल्की विष्णुयशानाम पाराशर्य्यपुरःसरः। दशमो भाव्यसंभूतो याज्ञ-वल्क्यपुरःसरः। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशावतार¦ m. (-रः) A name of VISHNU. E. दश ten, and अवतार descent; the deity of whom there are ten descents from heaven, for the purpose of protecting or punishing mankind: see अवतार |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशावतार/ दशा m. (= श-रूप) विष्णुL.

दशावतार/ दशा n. N. of an observance (performed on the 10th day of the light half of भाद्रपदVratapr. x ) BhavP. ii , 60

"https://sa.wiktionary.org/w/index.php?title=दशावतार&oldid=287676" इत्यस्माद् प्रतिप्राप्तम्