दात्यूह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्यूहः, पुं स्त्री, (दाप् लवने + क्तिन् । दातिं मारणं ऊहते इति । दाति + ऊह + अण् । यद्वा, दो अवखण्डने क्तिन् । दितिं वहतीति । वह + क + ऊट् । दित्यूहः । ततः स्वार्थे अण् । ततः “देविका शिंशपादित्यवाहदीर्घसत्रश्रेयसामात् ॥” ७ । ३ । १ । इति आत्वम् ।) पक्षिविशेषः । डाउक इति भाषा । तत्पर्य्यायः । कालकण्ठकः २ । इत्यमरः । २ । ५ । २१ ॥ अत्यूहः ३ दात्यौहः ४ कालकण्ठः ५ मासङ्गः ६ शितिकण्ठः ७ कचा- टुरः ८ । इति शब्दरत्नावली ॥ काकमद्गुः ९ । इति त्रिकाण्डशेषः ॥ (यथा, मनुः । ५ । १२ । “सारसं रज्जुबालञ्च दात्यूहं शुकसारिके ॥” (अस्य गुणा यथा, -- “दात्यूहो मरुतश्च नाशनकरो वृष्योऽतिशुक्रप्रदः श्रेष्ठः सर्व्वगुणः श्रमीपशमनः तुष्टिप्रदो वातहा ॥” इति हारीते प्रथमेस्थाने एकादशेऽध्याये ॥) “प्रावृट्काले सुखी भूत्वा को वा कुत्र न गच्छति । इति वदति दात्यूहः को वा को वा क्व वा क्व वा ॥” इत्युद्भटः ॥) जलकाकः । इति राजनिर्घण्टः ॥ चातकः । इति मेदिनी । हे, १७ ॥ मेघः । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्यूह पुं।

कालकण्ठकः

समानार्थक:दात्यूह,कालकण्ठक

2।5।21।1।3

द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः। आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्यूह¦ पुंस्त्री॰ दाप्--लवने क्तिन् दातिमूहते ऊह--अण्दो--खण्डने क्तिन् दितिं वहति वह--क ऊठ् दित्यूहःततः स्वार्थे अण् देविकाशिंशपेत्यादिना आत्त्व

१ कालकण्ठके पक्षिभेदे अमरः।

२ जलकाके राजनि॰

३ चातके मेदि॰

४ मेघे पु॰ शब्दर॰। जातित्वे सर्वत्र स्त्रियांङीष।
“सारसं रज्जुबालं च दात्यूहं शुकसारिके” मनुः
“क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान्” याज्ञ॰। [Page3515-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्यूह¦ m. (-हः)
1. A gallinule.
2. The Chataka, a sort of cuckoo.
2. A cloud. E. दाति destroying, ऊह to plan or arrange, affix अण्; also दात्यौह।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्यूहः [dātyūhḥ], 1 The gallinule; दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितम् Māl.9.7.

The Chātaka bird; Bhāg. 3.15.18.

A cloud.

A water-crow. (Written also दात्यौह).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्यूह m. a gallinule Mn. MBh. R. etc.

दात्यूह m. Cuculus Melanoleucus L.

दात्यूह m. a cloud L.

"https://sa.wiktionary.org/w/index.php?title=दात्यूह&oldid=500195" इत्यस्माद् प्रतिप्राप्तम्