दानव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानवः, पुं, (दनोरपत्यम् । दनु + “तस्यापत्यम् ।” ४ । १ । १२ । इति अण् ।) असुरः । इत्य- मरः । १ । १ । १२ ॥ (यथा, ऋग्वेदे । २ । ११ । १० । “नि मायिनो दानवस्य माया अपादयत् पपिवान्त्सुतस्य ॥”) स दक्षकन्यादनुगर्भे कश्यपाज्जात एकषष्टि- संख्यकस्तेष्वष्टादश प्रधानास्तेषां नामानि यथा, द्बिमूर्द्धा १ शम्बरः २ अरिष्टः ३ हयग्रीवः ४ विभावसुः ५ अयोमुखः ६ शङ्कुशिराः ७ स्वर्भानुः ८ कपिलः ९ अरुणः १० पुलोमा ११ वृषपर्व्वा १२ एकचक्रः १३ तापनः १४ धूम्र- केशः १५ विरूपाक्षः १६ विप्रचित्तिः १७ दुर्ज्जयः १८ । इति श्रीभागवतम् ॥ (महा- भारते चत्वारिंशत्दनोः पुत्त्रा उक्ताः । यथा, तत्रैव । १ । ६५ । २१ -- २२ । “चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र भारत ! । तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥ शम्बरो नमुचिश्चैव पुलोमा चेतिविश्रुतः । असिलोमा च केशी च दुर्ज्जयश्चैव दानवः ॥” इत्यारभ्य तत्रैवाध्याये विस्तरशो द्रष्टव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानव पुं।

असुरः

समानार्थक:असुर,दैत्य,दैतेय,दनुज,इन्द्रारि,दानव,शुक्रशिष्य,दितिसुत,पूर्वदेव,सुरद्विष्

1।1।12।1।6

असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः। शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः॥

 : वृत्रासुरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानव¦ पु॰ दनोरपत्यम् अण्। कश्यपपत्न्याः दक्षकन्याभेदस्यदनोरपत्ये।

१ दानवाश्च भा॰ आ॰

६५ अ॰ उक्ता यथा
“चत्वा-रिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत!। तेषां प्रथमतोराजा विप्रचित्तिर्महायशाः। शंवरो नमुचिश्चैव पुलोमाचेति विश्रुतः। असिलोमा च केशी च दुर्जयश्चैव दानवः। अयःशिरा अश्वशिरा अश्वशङ्गुश्च वीर्यवान्। तथागगनमूर्द्धा च वेगवान् केतुमांश्च सः। स्वर्भानुरश्वोऽश्व-पतिर्वृषपर्वाजकस्तथा। अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्चमहाबलः। एकपादेकवक्त्रश्च विरुपाक्षमहोदरौ। निचन्द्रश्च निशुम्भश्च कुपटः कपटस्तथा। शरभः शल-भश्चैत सूर्य्यचन्द्रमसौ तथा। एते ख्याता दनोर्वंशे दा-नवाः परिकीर्त्तिताः”
“दानवांश्च विवुधा विजिग्यिरे” माघः। दानवस्येदम् अण्।

२ दानवसम्बन्धिनि त्रि॰स्त्रियां ङीप्।
“मायाश्चास्मै ददौ सर्वाः दानवीः काम-मोहिता” हरिवं॰

१६

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानव¦ m. (-वः) A demon, a Titan or giant. E. दनु the mother of these beings, and अण् affix of descent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानवः [dānavḥ], [दनोरपत्यं अण्] A demon, Rākṣasa; त्रिदिव- मुद्धृतदानवकण्टकम् Ś.7.3.

Comp. अरिः a god.

an epithet of Viṣṇu. -गुरुः an epithet of Śukra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानव m. (fr. 2. दाउ)a class of demons often identified with the दैत्यs or असुरs and held to be implacable enemies of the gods or देवs RV. AV. S3Br. Mn. MBh. etc. (described as children of दनुand कश्यप, sometimes reckoned as 40 in number MBh. i , 252 ; sometimes as 100 etc. )

दानव mf( ई)n. belonging to the -D दनुMBh. R. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĀNAVA : Dānavas are the sons born to Kaśyapa Prajā- pati by his wife Danu and their descendants. (See under Danu).


_______________________________
*1st word in left half of page 200 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दानव&oldid=500200" इत्यस्माद् प्रतिप्राप्तम्