दामोदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामोदरः, पुं, (“दमादिसाधनेनोदारा उत्कृष्टा मतिर्या तया गम्यते इति दामोदरः । ‘दाम्ना- दामोदरं विदुः ।’ इति भगवद्बचनात् । यशो- दया दाम्नोदरे बद्ध इति वा दामोदरः । ‘दामानि लोकनामानि तानि यस्योदरान्तरे । तेन दामोदरो देवः श्रीधरस्तु रमाश्रितः ॥’ इति वा ।” इति विष्णुसहस्रनामभाष्ये शङ्करः ॥ ५३ ॥ तथा, महाभारते । ५ । ७० । ८ । “देवानां स्वप्रकाशत्वात् दमाद्दामोदरो विभुः ॥”) विष्णुः । इत्यमरः । १ । १ । १८ ॥ (दाम रज्जु- रुदरे यस्य । श्रीकृष्णः । यथा, महाभारते । १ । १९० । १९ । “दामोदरो भ्रातरमुग्रवीर्य्यं हलायुधं वाक्यमिदं बभाषे ॥” यशोदयासौ उदरदेशे दाम्ना बद्ध आसीत् अतो- ऽस्य तथा नाम । यथा, हरिवंशे । ६३ । १४, २६ । “दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुदूखले । यदिशक्तोऽसि गच्छेति तमुक्त्रा कर्म्म साकरोत् ॥” “स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् । गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥”) भूतार्हद्विशेषः । इति हेमचन्द्रः । २ । १३० ॥ (शालग्राममूर्त्तिविशेषः । तल्लक्षणं यथा, पद्म- पुराणे । “स्थूलो दामोदरो ज्ञेयः सूक्ष्मचक्रो भवेत्तु सः । चक्रे तु मध्यदेशेऽस्य पूजितः सुखदः सदा ॥” अस्य अन्यद्विवरणन्तु शालग्रामशब्दे द्रष्ट- व्यम् ॥ * ॥ काश्मीरस्य नृपविशेषः । यथा, राज- तरङ्गिण्याम् । १ । ६४ । “गतिं प्रवीरसुलभां तस्मिन् सुक्षत्त्रिये गते । श्रीमान् दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामोदर पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।18।2।1

विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः। दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामोदर¦ पु॰ दाम वन्धनसाधनं उदरे यस्य। यशोदा-नन्दने कृष्णे तत्कथा
“ततो यशोदा संक्रुद्धा कृष्णकमललोचनम्। आनाय्य शकटीमूले भर्त्सयन्ती पुनः-पुनः। दाम्ना चैवोदरे बद्ध्वा प्रत्यबध्नादुदूखले। यदिशक्नोषि गच्छेति तमुक्त्वा कर्म साऽकरोत्” इत्युपक्रमे
“स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात्। घोषेदामोदर इति गोपिभिः परिगीयते” हरिव॰

६४ अ॰
“विदारो रोहितोमार्गो हेतुर्दामोदरः सहः” विष्णु॰ स॰। शाङ्करभाष्ये तु अस्यान्यापि व्युत्पत्तिर्दर्शिता यथा[Page3544-a+ 38]
“दमादिसाधनेनोदरा उत्कृष्टा गतिर्या तया गम्यत इतिदामोदरः।
“दमाद्दाभोदरं विदुरिति” महाभारते य-शोदया दाम्नोदरे बद्ध इति वा
“दामानि लोकनामानि-तानि यस्योदरान्तरे। तेन दामोदरस्त्वेषः श्रीधरस्त्विट्स-माश्रितः” इति व्यासवचनात् वा दामोदरः।
“दमो ब-हिरिन्द्रियनिग्रहः तज्जन्यो दामः तस्येदमित्यण् ऋ-गताविति धातोर्भावे
“ऋदोरप्” पा॰ अपि गुणे रपरत्वेच अरः अवगतिः गत्यर्थानां ज्ञानार्थकत्वात्तस्य विशेषण-मुदिति उत्कृष्ट इत्यर्थः तथा च दामो दमसाधकः उत्उत्कृष्टः अरः अवगतिः साक्षात्काररूपास्येति दामोदरः। उत्कृष्टा च गतिः धूमादिगतिमपेक्ष्यार्चिरादिः दमादिसा-धना अस्य सगुणस्येति दामोदरनामनिरुक्तिः।
“तर्वोर्म-ध्यगतं बद्ध दाम्ना गाढं तथोदरम्। ततश्च दामोदरतां सययौ दामबन्धनादिति” ब्रह्मपुराणम् इति आनन्दगिरिः।

२ अतीते अर्हद्भेदे हेमच॰। वर्द्धमानपुरसन्निकृष्टे

३ नदभेदेच।

४ शालग्राममूर्त्तिभेदे तल्लक्षणं पद्मपुराणे यथा
“स्थूलो दामोदरो ज्ञेयः सूक्ष्मचक्रो भवेत्तु सः। चक्रेतु मध्यदेशेऽस्य पूजितः सुखदः सदा”। ब्रह्माण्डपुराणे
“दामोदरस्तथा स्थूलो मध्यचक्रः प्रतिष्ठितः” प्रतिष्ठितइत्यत्र प्रकीर्तित इति क्वचित् पाठः।
“दूर्वाभंद्वारसङ्कीर्णं पीतरेखायुतं शुभम्”।
“पीतरेखा तथैवचेति” ब्रह्मपुराणे पाठः। ब्रह्मपुराणे
“उपर्य्यधश्च चक्रेद्वे नातिदीर्घं मुखे बिलम्। मध्ये च रेखा लम्बैकास च दामोदरः स्मृतः”। अन्यत्र
“स्थूलो दामोदरोज्ञेयः सूक्ष्मरन्ध्रो भवेत्तु यः। चक्रे तन्मध्यदेशस्थेपजितः शुभदः सदा”। ब्रह्मवै॰ प्रकृतिखण्डे
“द्विचक्रंस्फुटमत्यन्तं ज्ञेयं दामोदराभिधम्”। मत्स्यसूक्ते
“विश्वक्सेनमतिस्थूलं लघु दामोदरं स्मृतम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामोदर¦ m. (-रः)
1. A name of KRISHNA.
2. A Jina of the past age. E. दाम a rope, and उदर a belly; YASODHA his foster mother having in vain passed the folds of a rope round his body, whilst a child, to keep him in confinement. दाम बन्धनसाधनं उदरे यस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामोदर/ दामो m. " having a rope round waist " , N. of कृष्णMBh. Hariv.

दामोदर/ दामो m. of 12th month VarBr2S.

दामोदर/ दामो m. of 9th अर्हत्of past उत्-सर्पिणीL.

दामोदर/ दामो m. of 2 kings of कश्मीरRa1jat. etc.

दामोदर/ दामो m. of a river (held sacred by the Santals) MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--कृष्ण; फलकम्:F1: Br. III. ३६. ३९;फलकम्:/F with the weapon पाश; फलकम्:F2: Ib. IV. ३४. ८३.फलकम्:/F around his belly यशोदा bound a rope and fastened him to a mortar. फलकम्:F3: Vi. V. 6. २०; १३. ३४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĀMODARA : Śrī Kṛṣṇa. When Śrī Kṛṣṇa was a small boy, Yaśodā tied him to a mortar-stone. The boy ran about, dragging the heavy stone with him and the rope snapped. Part of the rope still remained round his abdomen. From that he got the name Dāmodara. “Dama” means rope and “Udara” means abdomen. (See Kṛṣṇa).


_______________________________
*3rd word in right half of page 199 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दामोदर&oldid=430724" इत्यस्माद् प्रतिप्राप्तम्