दारा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाराः, पुं, (दारयन्ति भ्रातृबन्धूनिति । दॄ + “दार- जारौ कर्त्तरि णिलुक् च ।” ३ । ३ । २० । इत्यस्य वार्त्तिकोक्त्या घञ् णिलुक् च ।) भार्य्या । बहुवचनान्तोऽयम् । इत्यमरः । २ । ६ । ६ ॥ (यथा, महाभारते । १ । १५९ । २७ । “आपदर्थे धनं रक्षेत् दारान् रक्षेत् धनैरपि । आत्मानं सततं रक्षेत् दारैरपि धनैरपि ॥”)

दारा, स्त्री, (दारयति ज्ञातिबन्धूनिति । दॄ + णिच् + अच् + टाप् ।) दाराः । इत्यमर- टीकावां भरतः ॥ (यथा, भागवते । ७ । १४ । ११ । “अप्येकामात्मनो दारां नृणां स्वत्वगहो यतः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारा¦ f. (-रा) A wife: see दार |

"https://sa.wiktionary.org/w/index.php?title=दारा&oldid=290034" इत्यस्माद् प्रतिप्राप्तम्