दारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारी, स्त्री, (दारयति पदतलमिति । दॄ + णिच् + “सर्व्वधातुभ्य इन् ।” उणां ४ । ११८ । इति इन् । कृदिकरादिति पक्षे ङीष् ।) क्षुद्ररोग- विशेषः । विवाई इति लोके । तल्लक्षणम् यथा, -- “परिक्रमणशीलस्य वायुरत्यर्थरूक्षणैः । पादयोः कुरुते दारीं सरुजां तलसंश्रिताम् ॥” तच्चिकित्सा यथा, -- “पाददार्य्यां शिरां प्राज्ञो मोक्षयेत्तलशोधिनीम् । स्नेहस्वेदोपपन्नौ च पादौ वा लेपयेन्मुहुः ॥ मधूच्छिष्टवसामज्जाघृतैः क्षारविमिश्रितैः ॥ क्षारो यवक्षारः । सर्ज्जाह्वसिन्धूद्भवयोश्चूर्णं मधुघृतप्लुतैः । निर्म्मथ्य कटुतैलाक्तं हितं पादप्रमार्ज्जने ॥ मधुसिक्थकगैरिकघृतगुडमहिषाक्ष-साल- निर्यासैः । गैरिकसहितैर्ल्लेपः पादस्फुटनापहः सिद्धः ॥ मधुसिक्थक मोम । प्रथमं गैरिकं शिलाजतु । द्वितीयं गैरिकं गेरु इति लोके । सालनिर्यास रालः । उन्मत्तकस्य बीजेन माणकक्षारवारिणा । विपक्वं कटुतैलन्तु हन्याद्दारीं न संशयः ॥ इति घत्तूरतैलम् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारी¦ स्त्री दारयति दॄ--णिच्--इन्-ङीप्। क्षुद्ररोगभेदे। तल्लक्षणं सुश्रुते उक्तं यथा
“परिक्रमणशीलस्य वायु-रत्यर्थरूक्षयोः। पादयोः कुरुते दारीं सरुजां तलसंश्रिताम्”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारी [dārī], 1 A cleft.

A kind of disease.

A chap.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारी f. id. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=दारी&oldid=290098" इत्यस्माद् प्रतिप्राप्तम्