दासः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दासः, पुं, (दसतीति । दसि + “दंसेष्टटनौ न आत् ।” उणां ५ । १० । इति टः नकारस्य चारारः ।) शूद्रः । (यथा, ऋग्वेदे । २ । १२ । ४ । “यो दासं वर्णमधरं गुहाकः ॥” अधुना कायस्थानां उपाधिभेदः । स तु अष्टसिद्ध- मौलिकानामन्यतमः । यथा, कुलदीपिकायाम् । “गौडेऽष्टौ कीर्त्तिमन्तश्चिरवसतिकृता मौलिका ये हि सिद्धा- स्ते दत्ता सेनदासाः करगुहसहिताः पालिताः सिंहदेवाः ॥”) ज्ञातात्मा । धीवरः । इति मेदिनी । से, ४ ॥ दानपात्रम् । इति विश्वः ॥ शूद्राणां नामान्त- प्रयोज्यपद्धतिविशेषः । यथा, -- “शर्म्मान्तं ब्राह्मणस्यस्यात् वर्म्मान्तं क्षत्त्रियस्यच । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥” इत्युद्बाहतत्त्वम् ॥ * ॥ दास्यते दीयते भूतिमूल्यादिकं यस्मै सः । चा- कर इति भाषा । तत्पर्य्यायः । भृत्यः २ दासेरः ३ दासेयः ४ गोप्यकः ५ चेटकः ६ नियोज्यः ७ किङ्करः ८ प्रैष्यः ९ भुजिष्यः १० परिचारकः ११ । इत्यमरः । २ । १० । १७ ॥ प्रेष्यः १२ प्रेषः १२ प्रैषः १४ । इति भरतः ॥ परिकर्म्मा १५ परिचरः १६ सहायः १७ उपस्थाता १८ सेवकः १९ अभिसरः २० अनुगः २१ । स पञ्चदशविधः । यथा नारदः । “गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । अन्नाकालभृतस्तद्वदाहितः स्वामिना च यः ॥ मोक्षितो महतश्चर्णात् युद्धे प्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाकृतः । विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥” अस्यार्थः । गृहजातो दास्यामुत्पन्नः । दाया- दुपागतः क्रमागतः । अन्नाकालभृतः दुर्भिक्ष- पोषितः । स्वामिना आहितो बन्धकीकृतः । मोक्षितः ऋणमोचनेनाङ्गीकृतदास्यः । तवाह- मित्युपगतः कस्याप्यदासः सन् स्वयं दासत्वेन दत्तरूपः । प्रव्रज्यावसितः सन्न्यासभ्रष्टः । कृतः केनचिन्निमित्तेन एतावत्कालपर्य्यन्तं तवाहं दास इति कृतसमयः । भक्तदासः सुभिक्षेऽपि भक्तार्थमङ्गीकृतदास्यः । वडवाकृतः वडवा दासी तल्लोभादङ्गीकृतदास्यः । इति श्रीकृष्णतर्का- लङ्कारकृतक्रमसंग्रहः ॥ तस्य कर्म्म यथा, -- “कर्म्मापि द्बिविधं ज्ञेयमशुभं शुभमेव च । अशुभं दासकर्म्मोक्तं शुभं कर्म्मकृतां स्मृतम् ॥ गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् । गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥ अशुभं कर्म्म विज्ञेयं शुभमन्यदतः परम् ॥” इति मिताक्षरायां नारदः ॥ “विप्रस्य किङ्करा भूपो वैश्यो भूपस्य भूमिप ! । सर्व्वेषां किङ्कराः शूद्रा ब्राह्मणस्य विशेषतः ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दासः [dāsḥ], 1 Slave, servant in general; गृहकर्मदासाः Bh. 1.1; गृह˚, कर्म˚ &c.

A fisherman; निषादो मार्गवं सूते दासं नौकर्मजीविनम् Ms.1.34.

A Śūdra, a man of the fourth caste.

A knowing man, one who knows the universal spirit.

N. of Vṛitrāsura.

A demon.

A savage, barbarian (opp. आर्य).

A worthy recipient (दानपात्र).

A word added to the name of Śūdra; cf. गुप्त. -Comp. -अनुदासः 'a slave of a slave', the humblest of the servants; (sometimes used by the speaker as a mark of humility). -जनः a servant or slave; कमपराधलवं मयि पश्यसि त्यजसि मानिनि दासजनं यतः V. 4.29; (दासस्यकुलम् is used as a compound in the sense of 'the mob or the common people'). -भावः servitude.

"https://sa.wiktionary.org/w/index.php?title=दासः&oldid=291256" इत्यस्माद् प्रतिप्राप्तम्