सामग्री पर जाएँ

दाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाहः, पुं, (दह + भावे घञ् ।) दहनम् । भस्मी करणम् । (यथा, मार्कण्डेये । ३० । २३ । “तदभावे च नृपतिः कारयेत् स्वकुटुम्बिना । क्रमेण चिताग्नौ प्रक्षिपेत् । ततः कुठारेण क्रव्या- दाय नमस्तुभ्यमिति मन्त्रं सकृत् पठित्वा चितास्थज्वलद्दारूपरि सप्तप्रहारा देयाः तमग्नि- मपश्यद्भिर्व्वामावर्त्तेन स्नातुं नदी गन्तव्या । नग्नं शवं न दहेत् शवसम्बन्धिवस्त्रादि श्मशान- वासिचाण्डालादिभ्यो दद्यात् । सूतिकां रज- स्वलाञ्च वस्त्रान्तरावृतां सतिलपञ्चगव्यं जल- पूर्णकुम्भं आपोहिष्टीयवामदेव्यादिभिरभिमन्त्र्य स्नापयित्वा दहेदिति विशेषः । गर्भवत्यास्तु गर्भं निःसार्य्य स्थानान्तरे निःक्षिप्य तस्या दाहः कार्य्यः । ततो जलसमीपं गत्वा पुत्त्रादयः प्रयोगदानाभिज्ञं श्यालकादिकं प्रार्थयेयुः । उदकं करिष्याम इति तेन च कुरुध्वं मा चैवं पुन- रित्यशतवर्षे प्रेते कुरुध्वमेवेतरस्मिन् इत्युत्तरे दत्ते वृद्धपुरःसरमवतरणं जले । ततः परिहित- वस्त्रं प्रक्षाल्य तदेव परिधाय प्राचीनावीतिनो दक्षिणासुखाः ओ~ अपनः शोशुचदथमित्यनेन मन्त्रेण वामहस्तानामिकया अप आलोड्य एकवस्त्राः सकृन्निमज्योन्मज्याचम्य दक्षिणा- मुखास्तर्पयेयुः । ततः ओ~ अमुकगोत्रं प्रेतममुक- देवशर्म्माणं तर्पयामीति सामगानां प्रयोगः यजुर्व्वेदिनान्तु अमुकगोत्र प्रेतामुकदेवशर्म्मन्ने- तत्ते तिलोदकं तृप्यस्वेति एकाञ्जलिदानमाव- श्यकं अञ्जलित्रयदाने फलातिशयः । ततः पुनः स्नात्वा जलादुत्थानं बालपुरःसरं कार्य्यम् । ततः साद्बले उपविश्य, मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । यः करोति स संमूढो जलयुद्बुदसन्निभे ॥ पञ्चधा सम्भृतः कायो यदि पञ्चत्वमागतः । कर्म्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ गन्त्री वसुमती नाशमुदधिर्दैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रिया कार्य्या विघानतः ॥ इति चिन्तयित्वा गृहद्बारं समागत्य निम्ब- पत्राणि दन्तैः खण्डयित्वा शमी पापं शमय- त्विति शमीं स्पृष्ट्वा अश्मेव स्थिरो भूयासं इत्य- श्मानं पदा स्पृष्ट्वा अग्निर्नः शर्म्म यच्छतु इति अग्निं स्पृष्ट्वा वृषभच्छागयोर्म्मध्ये स्थित्वा ह्योगि- तिमन्त्रेण द्वावपि स्पृष्ट्वा गोमयमुदकं गौरसर्ष- पांश्च स्पृष्ट्वा बालपुरःसरा गृहं विशेयुः । दिवा चेद्दाहस्तदा रात्रौ ग्रामप्रवेशः रात्रौ चेत्तदा दिवसे । अशक्तौ ब्राह्मणानुमतिं गृहीत्वा काल- प्रतीक्षणं विना प्रवेष्टव्यम् ।” इति शुद्धितत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाह¦ पु॰ दह--भावे घञ्।

१ भस्मीकरणे
“दाहशक्तिरिवकृष्णवर्त्मनि” रघुः
“दाहादूर्द्ध्वमशौचं स्यात् यस्यवैतानिकोविधिः” शु॰ त॰ स्मृतिः।
“पांशुवर्षे निशां दाहे” मनुः। शवदाहप्रकारः छन्दोगपरिशिष्टे उक्तो यथा(
“दुर्बलं स्नापयित्वा तं शुद्धचेलाभिसंवृतम्। दक्षिणा-शिरसं भूमौ बर्हिष्मत्यां निवेशयेत्। वृतेनाभ्यक्तमा-प्लाव्यं सुवस्त्रमुपवीतिनम्। चन्दनोक्षितसवाङ्ग सु-मनोभिर्विभूषयेत्। हिरण्यशकलान्यस्य क्षित्वा छिद्रेषुसप्तसु। मुख्येव्यथ पिधायैन निर्हरेयुः सुतादयः। [Page3565-a+ 38] आमपात्रेऽन्नमादाय प्रेतमग्निपुरःसरम्। एकोऽनु-गच्छेत्तस्यार्द्धमर्द्धं षथ्युत्सृजेद्भवि। अर्द्धमादहनंप्राप्त आसीनोदक्षिणामुखः। सव्यं जान्वाच्य शनकैःसतिलं पिण्डदानवत्”।
“अथ पुत्त्रादिराहृत्य कु-र्य्याद्दारुचयं महत्। भूप्रदेशे शुचौ देशे पश्चाच्चित्यादिलक्षणम्। तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं सूखे। आज्यपूर्णां स्रुचं दद्याद्दक्षिणाग्रं नसि स्रुवम्”। घृ-ताक्तस्याल्पावने विशेपमाह वराहपुराणम्
“दक्षिणा-शिरसं कृत्वा सचेलन्तु शवं तथा। तीर्थस्वावाहनंकृत्वा स्नपनं तत्र कारयेत्। गयादीनि च तीर्थानिये च पुण्याः शिलोच्चयाः। कुरुक्षेत्रञ्च गङ्गाञ्च यमुनाञ्चसरिद्वराम्। कौशिकीं चन्द्रभागाञ्च सर्वपापप्रणा-शिनीम्। भद्रावकाशां सरयूं गण्डकीं पनसां तथा। वैणवञ्च वराहञ्च तीर्थं पिण्डारकं तथा। पृठिव्यांयानि तीर्थानि सरितः सागरांस्तथा। ध्यात्वा तु मनसासर्वे कृतस्नानं गतायुषम्। देवाश्चाग्निमुखाः सर्वेगृहीत्वा तु हुताशनम्। गृहीत्वा पाणिना चैवमन्त्रमेतमुदीरयेत्”। ओम्
“कृत्वा तु दुष्कृतं कर्म्मजानता वाप्यजानता। मृत्युकालवशं प्राप्य नरं पञ्च-त्वमागतम्। धर्माधर्मसमायुक्तं लोभमोहसमावृतम्। दहेयं सर्वगात्राणि दिव्यान् लोकान् स गच्छतु। एव-मुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम्। ज्वलमानंतथा वह्निं शिरःस्थाने प्रदापयेत्। चातुर्वर्ण्येषु संस्थान-मेवं भवति पुत्त्रिके!”। साग्निकदाहप्रकारस्तु नारायणभट्टकृतान्त्येष्टिपद्धतौ दृश्यः।

२ कुपितपित्तेजदेहसन्तापभेदे यथाह पित्तकोपकारणमुक्त्वाविदाहिलक्षणे भावप्र
“विदाहि द्रव्यमुद्गारमम्लंकुर्य्यात्तथा तृषाम्। हृदि दाहञ्च जनयेत् पाकङ्गच्छतियच्चिरात्”।
“असिद्धिमत्सु चैतेषु दाहः परम इष्यते”।
“अतिदग्धे दाहपाकरागस्नावाङ्गमर्द्दक्लमपिपासामूर्च्छाःस्युर्मरणं वा। पाकान्ते च गलताल्वोष्ठशोषदाह-सन्तापान् जनयति” इति च सुश्रु॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाह¦ m. (-हः)
1. Burning, combustion.
2. Morbid heat.
3. Actual or po- tential cautery. E. दह् to burn, घञ् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाह [dāha] दाहक [dāhaka] दाहन [dāhana] दाह्य [dāhya], दाहक दाहन दाह्य &c. See under दह्.

दाहः [dāhḥ], [दह्-भावे-घञ्]

Burning, conflagration; दाह- शक्तिमिव कृष्णवर्त्मनि R.11.42; छेदो दंशस्य दाहो वा M.4.4; Ki.5.14.

Glowing redness (as of the sky).

The sensation of burning, internal heat.

Feverish or morbid heat.

A place of cremation; Vās.19.26.

Cauterizing; M.4.4. -Comp. -अगुरुः n., -काष्ठम् a kind of agallochum. -आत्मक a. destructive, having power to burn, combustible; शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः Ś.2.7. -ज्वरः inflammatory fever.-सरः, -सरस् n., -स्थलम् a place where dead bodies are burnt, cemetery. -हर, -हरण a. allaying heat. (-रम्, णम्) the Uśīra plant.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाह m. (fr. दह्)burning , combustion , conflagration , heat Ka1tyS3r. Mn. Ya1jn5. MBh. R. etc.

दाह m. place of cremation Vas. xix , 26

दाह m. glowing , redness (of the sky See. दिग्-) Mn. MBh. VarBr2S. etc.

दाह m. cauterizing , cautery (of a wound) Sus3r. Ma1lav. iv , 4

दाह m. internal heat , fever Sus3r.

दाह m. pl. N. of a people( v.l. for वैदेह) Va1yuP. 1

"https://sa.wiktionary.org/w/index.php?title=दाह&oldid=500221" इत्यस्माद् प्रतिप्राप्तम्