सामग्री पर जाएँ

दाहक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाहकः, पुं, (दहतीति । दह + ण्वुल् ।) चित्रकः । रक्तचित्रकः । इति राजनिर्घण्टः ॥ दाह- कर्त्तरि, त्रि ॥ (यथा, याज्ञवल्क्ये । २ । २८५ । “क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । राजपत्नाभिगामी च दग्धव्यास्तु कटाग्निना ॥” उष्णगुणः । यथा, राजनिर्घण्टे । “काञ्जिकं दधितैलन्तु वलीपलितनाशनम् । दाहकं गात्रशैथिल्यं बल्यं सन्तर्पणं परम् ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाहक¦ त्रि॰ दहति दह--ण्वुल।

१ दाहकर्त्तरि
“क्षेत्रवेश्मवनग्रामविवीतखलदाहकः” याज्ञ॰ स्त्रियां ङीपि अतइत्वम्। दाहिका
“शक्तिर्यथाग्नौ खलु दाहिका स्थिता” ब्रह्म॰ वै॰ पु॰।

२ वह्नौ पु॰

३ चित्रके वृक्षे च

४ रक्तचित्रकवृक्षेपु॰ राजनि॰। वह्नौ च दाहिका शक्तिरतिरिक्तेति मीमां-सकाः। तन्मतं च अनुमानचिन्तामणौ अतिरिक्तशक्तिवाद-[Page3565-b+ 38] निरासे उत्थाप्य दूषितं प्रसङ्गादत्र दिङ्मात्रं दर्श्यते यथा(
“स्यादेतत् ईश्वरवत् कार्य्येणैव शक्तिरप्यनुमीयते तथाहि यादृशादेव करानलसंयोगाद्दाहो जायते तादृशा-देव सति प्रतिबन्धके न जायते अतो यदभावात् कार्या-भावस्तद्वह्न्यादावम्युपेय तेन विना तदभावात् यत्तद्भा-वानुपपत्तेर्व्यतिरेकमुखेन शक्तिसिद्धिः। न चादृष्टवैगुण्यंदृष्टसाङ्गुण्ये तदभावात् तस्य तदर्थत्वात् अन्यथा दृढदण्ड-द्वन्द्वमपि चक्रं न भ्राम्येत। अथादृष्टविलम्बादपि विलम्बोयथा बन्ध्यास्त्रीप्रयोगे, परमाणुकर्मणि, अध्ययनतुल्यत्वेएकत्र फलतारतम्यमिति चेन्न अदृष्टविलम्बे हि न तन्ना-शानुत्पादौ मण्यपसारणानुपदं दाहाभावप्रसङ्गात्। किञ्च नियमतो मणिसद्भावे कार्याभावस्तदभावे कार्य्य-मिति दृष्टत्वात् मण्याद्यभाव एव कारणम् अन्यथा क-दाचित् मण्याद्यभावेऽपि तदभावान्न कार्यं स्यात् बन्ध्यासंप्रयोगे तु दृष्टव्यभिचाराददृष्टविलम्बादेव विलम्बः। अदृष्टञ्च क्वचित् साक्षाज्जनकम् अन्यथा परम्परया हेतुरपि न स्यात्। न च समप्रज्ञयोः समञ्च निरपवादमभ्य-स्यतोरेकप्रगल्भते नापर इति दृश्यते। न च सर्वोत्पत्ति-मतामदृष्टं निमित्तं कारणम् अगम्यागमनसाध्ये सुखेतदभावात् तद्विनाऽधर्मात् सुखं स्यात् न धर्मात्। एतेनसुगम्यागमनादुत्पाद्यं सुखमप्युक्तं तथा चागम्यागमन-कारणत्वेन न स धर्मः श्येनापूर्ववन्निषिद्धफलकत्वेनान-र्थत्वात्। दाहप्रतिकूलादृष्टादेव तदभाव इति चेन्नतस्योत्तेजकाभावसहितमण्यजन्यत्व तत्र दाहार्थिनोऽ-प्रवृत्तिप्रसङ्गात् तज्जन्यत्वे ततस्तदुत्पादकादेव दाहाभावइति नियमस्यादृष्टेन प्रथमोपस्थितीपजीव्यत्वाच्च। पति-बन्धकाभावहेतुत्वस्य तेनाभ्युपगमात् अदृष्टात् शौचाचम-नादेश्च साधारणस्यात्राप्यन्वयः स्यात्। अशुचेरेव तदुत्-पत्तौ, शौच सति तदभावापत्तेः प्रतिपक्षसन्निधापकस्यतत्त्वे, अदृष्टे सति मण्यप्रयोगेऽपि दाहानापत्तिः अग्रि-मकाल एव सन्निधिदर्शनेन तदसिद्ध्यभावात्। अस्तुतर्ह्युत्तेजकाभावसहकृतप्रतिबन्धकाभावस्यान्वयव्यतिरेका-भ्यां हेतुत्वम् एवं च केवलोत्तेजकसद्भावे उभयसत्त्ये उ-भयाभावे च विशिष्टाभावोऽनुमितोहेतुः प्रतिबन्धकत्वञ्चकारणीभूताभावप्रतियोगित्वं तच्च मण्याद्यभावत्वेन, नतु पतिबन्धकाभावत्वेनेति नान्योन्याश्रयः। एवं प्रति-बन्धकत्वाभिमतमण्यादीनामभावकूट् एव कारणं तेनसणिसद्भावे मण्याद्यभावेऽपि न कार्यम्। अनतिरि-[Page3566-a+ 38] क्ताभाववादिमते च व्यवहारार्थं तत्स्थानाभिषिक्तस्य हे-तुत्वम्। न चाभावी न कारणं, भाववद्ग्राहकतौल्यात्। दृष्टञ्च कुड्यसंयोगाभावस्य गतौ, अनुपलम्भस्याभाववि-ज्ञाने, विहिताकरणस्य प्रत्यवाये, निर्दोषत्वस्य वेदप्रा-माण्ये जनकत्वमिति प्राञ्चः। मैवं विशिष्टं हि ना-र्थान्तरं येन तदभावोऽनुगतः स्यात् किन्तु विशेषणविशे-ष्यसम्बन्धा इति तेषां प्रत्येकाभावस्य हेतुत्वे क्वचित् विशे-षणस्याभावः क्वचित् मण्यभावः क्वचिदुभयं कारणमितिव्यभिचारान्नैकमपि हेतुः स्यात्। स्यादेतत् प्रतियोगिभे-दादिव प्रतियोगितावच्छेदकविशेषणभेदेऽप्यभावो भिद्यतेअन्यथा पृथिव्यां प्रत्येकरूपाभावेऽवगतेऽपि वायौ रूप-संशयो न स्यात्। एवञ्च यथा केवलदण्डसद्भावे, द-ण्डपुरुषसद्भावे, द्वयाभावे च विशेषणविशेष्योभयाभाव-प्रयुक्तः केवलपुरुषाभावोऽबाधितानुगतव्यवहारबलात्प्रतीतिसिद्धः तथा विशेष्यस्य प्रतिबन्धकस्याभावे विशेषण-स्योत्तेजकाभावस्याभावे द्वयाभावे च केवलप्रतिबन्धका-भावो विशेष्यविशेषणोभयाभावव्यापकोऽनुगत एव दाह-कारणमस्तु। अथ विशेषणाद्यभावादेव केवलपुरुषा-भावव्यवहार एकशक्तिमत्त्वादिति चेन्न अनुगतव्यव-हारस्यानुगतज्ञानसाध्यत्वात् शक्तेश्चातीन्द्रियत्वात्। अथोत्तेजकप्रयोगकाले मणेः कोऽभावः? न तावत्प्राग्ध्वंसाभावतु तयोः प्रतियोगिसमानकालत्वात् न चश्यामोऽयमासीदित्यत्र यथा श्यामध्वंसप्रयुक्तश्यामघ-टत्वेन पक्वघटस्य ध्वंसएव, तथोत्तेजकाभावध्वंसप्रयुक्तउत्तेजकाभावत्वेन मणिध्वंस एवेति वाच्यं ध्वंसस्या-नन्तत्वे उत्तेजकापनयेऽपि दाहप्रसङ्गाभावात्। नाप्यत्य-न्ताभावः, तस्य कादाचित्कत्वाभावादिति चेत् यथादण्डोपनयापनयदशायां केवलपुरुषाभाव उत्पादवि-नाशवान् अबाधितकेवलपुरुषाभावतदभावव्यवहारयो-रुपपादयितुमन्यथाऽशक्यत्वात् तथोत्तेजकोपनयापनय-शृङ्खलायां प्रतिबन्धकाभावोऽपि तथैव स्वीकरणीयः तु-ल्य न्यायत्वात्। यदि च संसर्गाभावत्रयवैधर्म्यात्तत्रनान्तर्भवति तदा तुरीय एव संसर्गाभावोऽस्तु न हिकॢप्तविशेषबाधे सामान्यबाधो, विशेषान्तरमादायापि तस्यसम्भवात् अन्यथा कॢप्तानादिसंसर्गाभाववैधर्म्येण ध्वं-सीऽपि न सिद्ध्येत् व्यवहारानुपपत्तिश्च तुल्यैब सीऽय-मस्माकं सगोत्रकलहो न तु शक्तिवादः। अस्तु वाध्वंसएवासौ संसर्गाभावविभागे जन्याभावत्वेन ध्वंसस्य[Page3566-b+ 38] विभजनात् न चैवं विनाशवत्त्वेन प्रागभाव एव सःपरिभाषाया अपर्यनुयोज्यत्वात्। यद्वाऽत्यन्ताभाव प-वासौ तस्य नित्यत्वेऽपि कादाचित्कप्रतीतिकार्य्यानु-दयौ प्रत्यासत्तिकादाचित्कत्वात् प्रत्यासत्तिश्च विशेषणाभावो विशेष्याभाव उभयाभावश्च तथैव विशिष्टात्यन्ता-भावसत्त्वादिति तन्न यदि प्रतीतविशेषणावच्छेदेनविद्यमानस्यैव विशेषस्य ध्वंसः स्यात् तदा क्षणरूपाती-तविशेषणावच्छिन्नत्वेनं प्रतिक्षणं घटस्य विनाशः स्यात्इति क्षणभङ्गापत्तिः विद्यमानस्य विनष्टत्वे चाप्रतीतेःशिखा विनष्टा पुरुषो न विनष्ट इति विपरीताबाधितप्रत्ययाच्च न विशेषणाभावेऽपि विशेष्यध्वंसः श्यामोऽ-यमासीत् पुरुष इत्यादौ सविशेषणे इति न्यायेन विशे-ष्यवति श्यामकैवल्यध्वंस एव प्रतीयते ध्वंसस्य ध्व-सानुपपत्तेः न विद्यमानस्य ध्वंसः। एतेनोत्तेजकस-द्भावे सत्युत्तेजकाभावविशिष्टमणेरुत्पन्नध्वंसस्य उत्तेज-कापनयसमये ध्वंसो जातोऽध्वस्तश्च सः कारणमिति नविफल उत्तेजकापनय इत्यपास्तं, विद्यमानध्वंसस्य ध्वसाभावात्। न च ध्वंसान्यः संसर्गाभावो विशिष्टाभावइति वाच्यम् उत्पन्नाभावस्य विशिष्टप्रत्ययहेतुतयाततोऽपि विद्यमानस्य विनष्टत्वप्रत्ययापत्तेः। नापि वि-शिष्टाभावोऽत्यन्ताभावः। तथा हि स एव क्वचित्विशेष-णाभावसहितः क्वचिद्विशेष्याभावसहितो दाहकारण-मिति अननुगमस्तदवस्थ एव विशेषणविशेष्याभावयोःप्रत्यासत्तिव्यवच्छेदकानुगतधर्माभावात्। अथ विशिष्ट-विरोधित्व विशेषणविशेष्याभावयोरनुगतं तदवच्छेद-कमस्ति तयोश्च सत्त्व एव विशिष्टात्यन्तामावसत्त्वादितिचेत्तर्हि विशिष्टविरोधित्वेनानुगतेन तयोरेव विशिष्टा-भावत्येन दाहव्यवहारादौ जनकत्वमस्तु कृतं तदुप-जीविनातिरिक्तविशिष्टाभावेन। अथोत्तेजककाले विद्य-मानात्यन्ताभावानुवृत्तावप्युत्तेजकापनये उत्तेजकाभाव-व्यक्तिर्या जाता तदवच्छिन्नमणेरभावो न तत्रेति तदान कार्योदयः तत्तदुत्तेजकाभावविशिष्टमणेरभावकूटस्यजनकत्वादिति चेन्न तत्तदुत्तेजकाभावानामननुगतत्वे-नानुगतविशिष्टाभावव्यवहारानुपपत्तेः उत्तेजकाभावत्वे-नानुगमेऽतिप्रसङ्गः। अथ विशेष्यविशेषणाभावयोर्वि-शिष्टविरोधित्वमनुगतं कारणतावच्छेदकं यत्र तदन्य-तराभावस्तत्र न विशिष्टं यत्र विशिष्टं तत्र न तयोर-भाव इति सहानवस्थाननियमस्य विरोधस्यानुभवसिद्ध-[Page3567-a+ 38] त्वादिति चेन्न सहानवस्थाननियमो न परस्परविरह-रूपतया विशेषणविशेष्याभावस्य प्रत्येकं विशिष्टाभाव-तया तत्प्रत्येकाभावाभावस्य विशिष्टत्वापत्तेः तथा चविशेष्यविशेषणयोः प्रत्येकं विशिष्टत्वापत्तेः तदभावस्यतत्त्वात् न चोभयाभाव उभयविशिष्ट एवं ह्यभावद्वयंविशिष्टाभावो न तु प्रत्येकभावरूप इति प्रत्येकाभावा-द्विशिष्टव्यवहारो न स्यात्। नापि परस्परविरहव्या-यत्वं तदाक्षेपकत्वं वा विशेषणविशेष्याभावस्य विशिष्टा-भावत्वेन तदव्याप्यत्वात् तदनाक्षेपकत्वाच्च अमेदे तयी-रभावात्। एतेनान्यदपि विशिष्टव्यवहारविरोधित्वा-दिनानुगतत्वमपास्तं केनाप्यनुगतेन विशेषणविशेष्या-भावस्य विशिष्टाभावत्वे प्रत्येकाभावस्य विशिष्टाभावत्वेनतदव्याप्यत्वात् तदनाक्षेपकत्वाच्च अभेदे तयोरभावात्। विशेषणविशेष्यान्यतरमात्रस्य विशिष्टत्वापत्तेः तदभावा-भावस्य तत्त्वादित्युक्तत्वात् तस्माद्विशेयणविशेष्याभावोविशेषणावच्छिन्नविशेष्याभावो न विशिष्टाभाव इति। (
“अत्रोच्यते विशेषणविशेष्ययोः सम्बन्धाद्विशिष्ट-व्यवहार इति तयोः सम्बन्धाभावाद्विशिष्टाभावव्यवहारइति घटतदभावव्यवहाराविव घटसत्त्वासत्त्वाभ्याम्। नहि तयोरसम्बन्धे विशिष्टव्यवहारः। न च तदभावेसति न विशिष्टाभावव्यवहारः। यस्य च यत्र सम्बन्धःस एव तत्र तस्य वैशिष्ट्यम् स च सम्बन्धाभावोविशेषणा-भावाद्विशेष्याभावादुभयाभावात् सर्वत्राविशिष्ट एकस्तेषांव्यापकोऽनुगतविशिष्टाभावव्यवहारकारणम् इह दण्डीपुरुषो नास्तीत्यत्र तथा दर्शनात्। अतएव दण्डमात्र-सद्भावे दण्डपुरुषसद्भावे च कैबल्यपुरुषयोः सम्बन्धाभावःअर्वत्रास्तीत्यनुगतः केवलपुरुषतो व्यवहारः। एवञ्च प्रति-बन्धकोत्तेजकाभावयोः सम्बन्धाभावो दाहकारणं स चप्रतिबन्धकाभावे प्रतिबन्धकोत्तेजकसद्भावे उभयाभावेचास्ति सर्वत्र प्रतिबन्धकोत्तेजकाभावयोः सम्बन्धो ना-स्तीति प्रतितेः। नन्वेवं यत्र प्रतिबन्धकोत्तेजकाभावौतत्रापि दाहः स्यात् अधिकरणाभावयोरतिरिक्तसम्बन्धा-भावादिति चेन्न तदभावेऽपि स्वरूपसम्बन्धास्याभावात् सर्वत्रस्वरूपसम्बन्धादेवाधिकरणाभावयोर्वौशष्ट्यप्रतीतेः तथापिप्रतिबन्धकोत्तेजकाभावावेव स्वरूपसम्बन्धः तयोरभावश्चप्रतिबन्धकाभाव उत्तेजकञ्च दाहकारणं तथाचोभया-भावे उत्तेजकसत्त्वे पर दाहः स्यात् उत्तेजकवति चप्रतिबन्धके दाहो न स्यादिति चेन्न अधिकरणाभावावेव[Page3567-b+ 38] खरूपसम्बन्धस्तयोर्घटबद्भूतलचत्वरीयतदभावयोर्विशिष्टप्र-त्ययजननयोग्यत्वमस्ति घटवति कदापि घटाभावप्रत्यया-नुदयात् तदिहापि प्रतिबन्धकोत्तेजकाभावयोर्विशिष्ट-प्रत्ययजननयोग्यत्वं स्वरूपसम्बन्धः, अन्यथोत्तेजकवतिप्रतिबन्धके चत्वरीयोत्तेजकाभावविशिष्टप्रत्ययापत्तेः। तादृशस्वरूपसम्बन्धाभावश्च प्रतिबन्धकाभावे प्रतिबन्धकी-त्तेजकसद्भावे उभयाभावे चाविशिष्ट एव। यद्वा अदण्ड-पुरुषस्याभावे दण्डी पुरुषो न प्रतियोगी तस्य दण्डित्वा-भावात् किन्तु तदन्यः, तस्य चाभावे दण्डिसद्भावेऽपिदण्डमात्रसत्त्वे उभयासत्त्वे चाविशिष्ट इति। तस्मात्केवलपुरुषाभावव्यवहारोऽनुगतः तदुक्तं न हि दण्डिनिसति अदण्डानामन्येषां नाभावः किन्तु दण्डाभावस्यैवेतियुक्तम् अन्यथा तत्रान्येषामिति पदस्य व्यर्थत्वापत्तेः। तथाकेवलप्रतिबन्धकाभावे उत्तेजकसहकृतः प्रतिबन्धको नतु प्रतियोगी तस्य केवलत्वाभावात् किन्तु तदन्यः, तद-न्यस्य च प्रतिबन्धकस्याभावे उत्तेजकसहितप्रतिबन्धक-सत्त्वे उत्तेजकमात्रसत्त्वे उभयासत्त्वे विशिष्ट इतिनाननुगमः उत्तेजकापनये केवलप्रतिबन्धकोऽस्तीति नतदभाव इति दाहो न भवति ! ननु न प्रतिबन्धका-भावः कारणम् एकदण्डान्वये घटोत्पत्तिवत् प्रतिप्रति-बन्धकसत्त्वेऽपि तदन्यप्रतिबन्धकाभावेऽपि कार्य्यानुदयात्न हि यावत्कारणतावच्छेदकावच्छिन्नं तावदन्वयेऽपिकार्य्यमिति चेन्न प्रतिबन्धकाभावत्वेत न हेतुत्वं अन्यो-न्याश्रयात् किन्तु तत्तन्मण्याद्यभावत्वेनेत्युक्तत्वात् तत्त्वे-ऽपि वा घटे दण्डसलिलादिकप्रतिबन्धकाभावकूटहेतु-त्वात्। यद्वा प्रतिबन्धकतावच्छिन्नप्रतियोगिक एक एवा-भावः कारणं स च यावद्विशेषाभावनियत इति नप्रतिबन्धकसत्त्वेऽपरप्रतिबन्धकाभावेऽपि कार्य्योदयः प्रति-बन्धकस्य च संसर्गाभावो हेतुः तेन तत्सत्त्वे तदन्योन्या-भावेऽपि न कार्य्यम् अन्वयव्यतिरेकाभ्यां व्याप्तकारण-त्वयोर्ग्रहे संसर्गाभावस्य त्वयाऽपि हेतुत्वाङ्गीकारात्अन्यथा सामग्रीव्यापकयोः सत्त्वे तदन्योन्याभावे चकार्य्यव्याप्याभावापत्तौ कार्य्यकारणयोर्व्याप्यव्यापकभावा-भावे व्याघातात्। किञ्च तवापि प्रतिवन्धकाभावे शक्ति-रस्तीति तत्सत्त्वे तदन्योभावमादाय शक्तिसत्त्वप्रसङ्गः। न च स दुर्वचः न वा प्रागभावत्वादिनाननुगमव्यभिचारौ। प्रतियोग्यधिकरणयोः संसर्गमारोप्य यो निषेधः ससंसर्गाभावः भूतलं घटसंसर्गो नोयत्र भूतले घटसंसर्गस्य[Page3568-a+ 38] संसर्गो नारोप्यते किन्तु तादात्म्यम्। वयन्तु ब्रूमः यत्रप्रतियोगिनमधिकरणे समारोप्य निषेधागमः स संसर्गा-भावः यत्र चाधिकरणे प्रतियोगितावच्छेदकमारोप्यनिषेधावगमः सोऽन्योन्याभावः भूतलं न घट इत्यत्रभूतलस्य घटत्वावगमात् घटत्वमेव च घटतादात्म्यम्। आरोपस्य हेतुत्वे किं मानमिति चेत् मा भूत्तावदन्यथा,इदमिह, नेदमित्यबाधितविलक्षणव्यवहारस्यैव तत्रमानत्वादिति। ननु प्रतिबन्धकात्यन्ताभावो न हेतुःतस्मिन् सत्यपि संसर्गाभावात् न हि करादौ मण्य-त्यन्ताभावः तत्संयोगात्यन्ताभावो वा मणेः स्वावयव-वृत्तित्वात् संयोगस्य चाव्याप्यवृत्तित्वात् अतएव न तत्-प्रध्वंसप्रागभावौ हेतू तयोः करादाववृत्तेः गुणकर्मा-देश्च प्रतिबन्धकत्वानापत्तेश्च तस्य जन्यधर्मानाश्रयत्वेन तत्रतयोरभावात् न चान्यः संसर्गाभावोऽस्तीति चेन्न संसर्गा-वच्छिन्नप्रतियोगिकस्याभावविशेषस्य प्रतिबन्धकेऽन्तर्भावात्न च समयावच्छेदेन संसर्गितया अत्यन्ताभाव एव तथै-वान्वयव्यतिरेकावधारणात्। अथैवं प्रागभावप्रध्वंस-स्थले समयविशेषावच्छिन्नात्यन्ताभावेनैवोपपत्तौ न तयोःसिद्धिः अत्यन्ताभावोह्यव्याप्यवृत्तिः तस्य चैकत्र भावाभावेक्वचिद्देशोऽवच्छेदकः क्वचित्काल इति चेन्न तत्र विद्य-मानताविरोधित्वेनैव कपाले न घट इति प्रतीतिवैल-क्षण्यात् नत्वेवं भूतले घटाभावप्रतीतिः। अन्ये तुभविष्यति घटो घटो नष्ट इति विलक्षणप्रतीत्या अत्य-न्ताभावेनैकेन समयितुमशक्यत्वात् अन्य एवायं संसर्गा-भाव इत्यप्याहुः। एतेन विशेषणाभावविशेष्यभावतदु-भयाभाववटितसामग्रीत्रयमेवास्तु हेतुः दाहे च जाति-त्रयकल्पनमिति प्रत्युक्तं अनुगतहेतुसत्त्वात् ढ्यहवैजा-त्यम्य याग्यानुपलब्धिबाधितत्वात् व्यक्तियोग्यतैव जाति-याग्यत्वे मानं योग्येऽयोग्यजात्यभावात्। ननु प्रहर-मा दहेत्यादौ सावधिमन्त्रपाठे मन्त्रविनाशे दाहः स्यात्न च सकल्पविषयकालविशेष एव तत्र प्रतिबन्धकःसंकल्पनाशसमयस्य स्वतोऽविशेषात्। न च मन्त्रपाठजनि-तमदृष्टमेव तत्र प्रतिबन्धक तत्कालदाहाप्राप्तिकफलनाश्यत्बेनाग्रे दाहाप्रतिबन्धादिति वाच्यं प्रतिबन्धक-स्याविहितत्वेनानिषिद्धत्वेनादृष्टाजनकत्वात्। तदाचार-स्याविगोतत्वेन श्रुत्याद्यनुभावकत्वादिति चेत् मैवम् उद्दे-श्यज्ञानाहितसंस्कारविषयकालस्य प्रतिवन्धकत्वात् प्रति-बन्धमकुवतामप्रतिबन्धकत्वात् न शक्तिमनपकुर्वतां मन्त्रा-[Page3568-b+ 38] दीनां प्रतिबन्धकत्वमतः शक्तिसिद्धिः। न च कार्यानु-त्पाद एव प्रतिबन्धः तज्जनकमेव प्रतिबन्धकमिति वाच्यंकार्यानुत्पादो हि तत्र न प्रागभावो न वा तदुत्तरकालसंसर्गः तस्य मन्त्राद्यजन्यत्वात् इति चेन्न मन्त्रदीक्षाप्र-तिवन्धकत्वात् तत्प्रयोक्तारस्तु प्रतिबन्धकाः ते च किञ्चि-त्करा एव मन्त्रादौ कार्यकारणोपचारात् स्वार्थिकफल-प्रत्ययात् वा तथा व्यपदेशः। प्रतिबन्धकश्च सामग्रीविरहःमन्त्राद्यभाबघटितसामग्रीविरहः स च मन्त्रादिरेव तदभा-वाभावस्य तत्त्वात्। नव्यास्तु प्रतिबन्धकाभावो न कारणंन वा शक्तिः, किन्तु तत्तत्कालीनदाहविशेपं प्रतितत्तत्कालप्रतिवन्धीत्तरवह्नेः कारणत्वमिति प्रतिबन्धका-भावः कारणतावच्छेदको न तु कारणं दण्डत्ववत्आकाशाद्येकव्यक्तिके न यथा कारणत्वं क्वचित् प्रतिबन्धेऽप्यन्यत्र शब्दोत्पत्तेः किन्तु भेर्य्यादेस्तथा कारणत्वमितितत्प्रतिबन्धे शब्दोत्पत्तिर्नेत्याहुः। तन्न वह्निप्रति-बन्धकाभावयोरन्वयव्यतिरेकतौल्येनोभयस्यापि कारण-त्वात् नत्वेकमवच्छेदककं विनिगमकाभावात्। किञ्चयस्मिन् सत्यपि यदभावात् कार्य्याभावस्तस्य कारणत्व-मायाति न तु तदवच्छेदकत्वं न हि कार्प्येऽयोगव्यव-च्छेदः कारणत्वं किन्तु नियतपूर्वसत्त्वं तच्च सहकारि-विरहप्रयुक्तकार्य्याभावेऽप्यक्षतम्। अन्यथा चक्रसहित-दण्डत्वेन कारणत्वे सहकार्य्युच्छेदः। यस्य यद्धर्म्म-मवगत्यैव नियतपूर्ववर्त्तित्वमवगम्यते तदवच्छेदकं दण्डत्व-मिव। सहकारी तु न तथा। ननु मा भूत् अर्थापत्तिःशक्तौ मानमनुमानन्तु स्यात्। तथाहि स्थिरोऽवयवीजनकदशाविशिष्टबह्निरजनकदशाव्यावृत्तभावभूतधर्मवान्जनकत्वात् कुण्ठकुठारात्तीक्ष्णकुठारवत् दाह्यासंयुक्तवह्ने-र्दाह्यसंयुक्तवह्नित्वादेः प्रतिबन्धकसत्त्वं संयोगादेरजनकदशा-व्यावृत्तत्वेन तदतिरिक्तातीन्द्रियभावभूतधर्मसिद्धिः। यद्यपिशक्तेर्भावहेतुत्पेन नाजनकदशाव्यावृत्तत्वं तथाप्युक्त-विशिष्टाया मुख्यत्वम् यद्वा धर्मेऽतीन्द्रियत्वं विशेषणं नच दृष्टान्तासिद्धिः तुल्यधारत्वेऽपि लौहविशेषघटित-कुठारे विलक्षणच्छिदाक्रियारूपकार्य्यबद्यादतीन्द्रियत्व-सिद्धे॰। अथ वा तथाभूत एव वह्निः कार्य्यानुकूल-विशिष्टातीन्द्रियधर्मसमवायी जनकत्वात् आत्मवत्। अती-न्द्रियत्वञ्च यद्यपि न साक्षात्काराविषयत्वं अनित्य-साक्षात्काराविषयत्वं योगजधर्मजन्यसाक्षात्कारविषयत्वंवा परं स्वं वा प्रत्यसिद्धेः सयोगादिपञ्चकजन्यज्ञाना-[Page3569-a+ 38] विषयत्वमैन्द्रियकाणामपि। तथापि संयोगाद्यन्यतर-प्रत्यासत्तिजन्यसाक्षात्काराविषयत्वमुभयवादिसिद्धम् अन्य-तरच्च तदन्यान्यत्वं न चाभावातीन्द्रियत्वं तस्यासिद्धेः। न च वह्नौ स्थितिस्थापकेनार्थान्तरं तत्र तदभावात्क्रियाया वेगेनादृष्टवदात्मसंयोगे वा उत्पत्तेः, नचात्मत्वंनित्यत्वं वोपाधिः स्पर्शैकत्वादिमति द्व्यणुके साध्या-व्यापकत्वात् यद्वा पिण्डीभूतोवह्निः दाहानुकूलाती-न्द्रियभावभूतधर्मवान् दाहजनकत्वात् आत्मवत्। नचा-र्थत्वमुपाधिः अदृष्टस्य दाहानुकूलत्वेनादृष्टसाध्याव्यापक-त्वात्। अथ वा करवह्निसंयोगः कार्य्यानुकूलातीन्द्रिय-धर्मसमवायी जनकत्वात् आत्मवत् द्व्यणुकवच्च। नचात्मत्वं द्रव्यत्वं वीपाधिः द्व्यणुकैकत्वस्पर्शादौ साध्या-व्यांपकत्वात्। यद्वा प्रतिबन्धकदशायां प्रत्यक्षसकल-दाहहेतुसमवहितोदाहाजनकोवह्निर्जनकदशावृत्तिकार्या-नुकूलभावभूतधर्मशून्यः अजनकत्वात् तीक्ष्णात् कुण्ठवत्यद्वा तथाभूतोवह्निः दाहजनकदशावृत्तिदाहानुकूल-भावभूतधर्म्मशून्यः दाहाजनकत्वात् दाह्यासंयुक्तवह्नि-वत् अनुकूलत्वञ्च कार्य्याभावव्याप्याभावप्रतियोगित्वकारणतदवच्छेदकसाधारणं दृडदण्डत्वेन कारणत्वदृढ-त्वाभावादपि कार्य्याभावदर्शनादिति। उच्यते। साध्यंविनाप्युभयसिद्धप्रतिबन्धकाभावादेव जनकत्वादिहेतुसम्भ-वात् विपक्षबाधकाभावेनानुमानानामप्रयोजकत्वं यदि चसहचारदर्शनव्यभिचारादर्शनोपाध्यनुपलम्भमात्रादेव व्या-प्तिग्रहस्तदा शक्तिसिद्ध्यनन्तरं तेनैव हेतुना शक्त्यति-रिक्तत्वाक्षेपेण शक्त्यतिरिक्तदाहानुकूलातीन्द्रियधर्म्म-मिद्धिः एवं तत्तदतिरिक्तत्वस्य प्रक्षेपात्तेनैव हेतुनाऽनन्त-तादृशधर्म्मसिद्धिप्रसङ्गः। द्वितीयादितादृशधर्म्मं वि-नापि प्रथमानुमितशक्त्यैव जनकत्वाद्युपपत्तेः न तादृशा-नन्तसिद्धिरिति चेत् हन्तैवं शक्तिं विनापि तदर्थसिद्धेःकिं शक्त्या। यत्त्वीश्वरानन्त्यवन्न शक्त्यानन्त्यमित्युक्तंतदबोधात् कार्य्यमात्रे हि कर्तृत्वेन कारणत्वं नत्वी-श्वरत्वेन द्विकर्तृकत्वादिना वा गौरवात् घटे त्वार्थःसमाजः। एवञ्च जनकदशाव्यावृत्तत्वेनैव प्रयोजकत्वंन तु भावभूतत्वेनेति गौरवात्। अपि च भावकार्य्य-मात्रस्य समवायिकारणजन्यत्वेन शक्तेरपि तथात्वात्शक्त्यनुकूला शक्तिरपरा समवायिकारणे मन्तव्या एवंसापि समवायिक्वारणजन्येऽपि तदनुकूलशक्तिस्वीकारेशक्त्यनवस्था। किञ्च प्रथमानुमाने जनकत्व न स्वरूप-[Page3569-b+ 38] योग्यत्वं वह्नौ कुठारे च तदभावात् किन्तु कार्य्यानुप-धानं तथा च तदुपधानदशायामपि वह्नौ शक्तिः कुठारेतैक्ष्ण्यमिति बाधोदृष्टान्तासिद्धिश्च। लौहविशेषाणामेवसातिशयच्छिदाजनकत्वमतोनातीन्द्रियतैक्ष्ण्यसिद्धिः। अ-ग्निमचतुर्षु बहिरिन्द्रियाप्रत्यक्षत्वमुपाधिः तुल्ययोगक्षेम-त्वेऽपि सन्दिग्धोपाधित्वेन दूषकत्वात्। अपिच जनक-त्वस्य केवलान्वयित्वेन व्यतिरेकाप्रसिद्ध्या नान्वयव्यतिरेकीन च जनकत्वाभावस्य शक्तावेव प्रसिद्धिः अन्योन्याश्रयात्न च गुरुवचनपरम्परातएव वाक्यार्थतया तत्मिद्धिःअन्वये सिद्धार्थस्याप्रमाणत्वात्। न च परार्द्धसंख्यायांसाध्यजनकत्वव्यतिरेकयोः प्रसिद्धिः अप्रत्यक्षायाः शब्दैक-वेद्यायास्तस्याः प्रत्यक्षेण साध्यहेतुव्यतिरेकयोर्ग्रहीतु-मशक्यत्वात्। एतेन पण्डापूर्बेऽपि तत्प्रसिद्धिरपास्ता। स्यादेतत् तृणारणिमणीनां वह्नौ कारणत्वादेकशक्तिमत्त्व-मुखेयमेकता एकजातीयकार्य्ये एकजातीयकरणत्वनिप्य-भात्। वह्न्यवान्तरजातीये तेषां प्रत्येकं कारणत्वमितिचेन्न वह्निजातीयत्वस्याकस्मिकतापत्तेः कारणगतैकरूप-मपहाय कार्य्यगतबहुतररूपकल्पने गौरवात् तृणा-रणिमणिप्रभववह्नित्वावान्तरजातेरनुपलब्धिबाधितत्वाच्च। यत्र च तत्तदिन्धनप्रयोज्यं प्रदीपदारुदहनादौ वैजात्य-मनुभूयते तत्र कारणे त्वेकशक्तिसत्त्वमपि नास्ति, किञ्चगोमयवृश्चिकप्रभववृश्चिकादिषु वैजात्यकल्पने तत्प्रभव-वृश्चिकेऽपि वैजात्यं कल्प्यम् एवं तत्प्रभवत्वं तत्प्रभवे-ष्वपीति वैजात्यानन्त्यं विजातीयकारणानां विजातीय-कार्य्यजनकत्वनियमात्। न च तयोर्नैको वृश्चिकोबुद्धिव्यपदेशयोरविशेषात्। यदि विजातीयेष्वेककार्य्याशक्तिः समवेयात् न कार्य्यविशेषात् कारणविशेषः तद-भावात्तदभावः क्वाप्यनुमीयेत तदभावेऽपि तज्जातिशक्ति-मतोऽन्यस्मादपि तत्त्वापत्तिसम्भवादिति चेत् वह्निवृश्चि-कादावेवमेतन्निरूपितनियतवह्न्यादिकारणत्वे धूमादौकुतो न तदनुमानम् अन्यथा कार्य्यवैजात्येऽपि तृणस्यवह्निविशेष इव वह्नित्वेन धूमविशेष एव कारणत्वं नतु धूममात्रे तृणादिप्रभवत्वग्रहानन्तरं वह्न्यवान्तर-जातिग्रहवत् वह्नि--तदन्यजन्यत्वज्ञानानन्तरं धूमावान्तर-जातिग्रहो भविष्यतीत्यप्याशङ्क्येत। बाधकं विनाधूमत्वेन वह्निकार्य्यतेति चेत्तर्हि बाधकं विना धूमं प्रतिवह्नित्वेन कारणतेत्यपि तुल्यम्। यत्तु तृणत्वेन कार-णत्वग्रहस्योपजीव्यत्वात्तद्रक्षार्थं वह्नौ जातिविशेष एव[Page3570-a+ 38] कल्प्यते इति तन्न वह्नित्वेन कार्य्यत्वग्रहात्तद्रक्षार्थंतृणादौ शक्तिकल्पनौचित्यात्। यथा चान्वयव्यतिरेकाभ्यांतृणफुत्कारयोः परस्परसहकारित्वं तथैव तच्छक्त्योरपिपरस्परसहकारित्वेन वह्न्यनुकूलत्वं तथैव कार्य्यदर्शनातएवं तृणारणिमणिफुत्कारनिर्मन्थनतरणिकिरणानावह्न्यनुकूलशक्तिमत्त्वेन कारणत्वेऽपि फुत्कारेण तृणा-देव, निर्मन्यनेनारणेरेव प्रतिफलिततरणिकिरणैर्मणे-रेवाग्न्युत्पत्तिः न तु मणिफुत्कारादिभ्यो, मणिफुत्कार-शक्त्योः परस्परसहकारित्वविरहात्। यत्तु तृणफुत्-कारादिस्तोमत्रये विशिष्टे शक्तिरिति तन्न तृणत्वेनग्रहीतकारणताभङ्गप्रसङ्गादिति। उच्यते। तृणारणिमणिफुत्कारादिव्यक्तीनामानन्त्येन प्रतिव्यक्ति भावहेतु-जानन्तशक्तिस्वीकारे गौरवं तावदनन्तव्यक्तिजन्यावान्तर-वह्निव्यक्तिषु जातित्रयकल्पने लाघवमिति तदेव कल्प्यतेन च जातौ योग्यानुपलब्धिवाधः गोमयप्रभववृश्चिक-प्रभववृश्चिकयोर्वा पाटलत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्य-क्षसिद्धत्वात् तृणजन्यनानावह्निषु तृणजन्यत्वज्ञानान-न्तरं मणिजन्यव्यावृत्त्याऽनुगतबुद्धिरस्ति। जातिविषयातृणजन्यत्वेनोपाधिनाऽसाविति चेन्न बाधकं विनानुगत-बुद्धेस्तद्व्यङ्ग्यजातिविषयत्वनियमात् न च। गोमयवृश्चिक-प्रभववृश्चिकजातिपरम्परायामननुगतजात्यापत्तिः गोमय-जन्यवृश्चिक--प्रभवत्वजातेः सत्त्वात् वह्निमात्रे च दाह-स्पर्शवानवयवः तत्संयोगः सेवनादिश्च कारणानि न तुतृणादिकं विनापि, तदुत्पत्तिप्रसङ्गः विशेषसामग्रीमादा-यैव सा, साध्यसामग्र्याजनकत्वात्। ननु तृणारणि-मणीनां वह्नौ कारणत्वग्रहे शक्तिवैजात्ययोरन्यतरकल्पनंतद्ग्रहश्च नान्वयव्यरिरेकाभ्यां व्यभिचारात्। अथारणि-मण्यभाववति स्तोमविशेषे तृणं विना वह्निव्यतिरेकःतृणान्वयवह्निरित्यन्वयव्यतिरेकाभ्यां तत्रैव स्तोमे तदि-तरहेतुसकलसमवधाने तृणान्वयेऽवश्यं वह्निरिति नियता-न्वयेन रासभादिव्यावृत्तेन तृणादिकारणत्वग्रह इतिचेन्न तृणं विनापि वह्निरिति ज्ञाने सति नियतपूर्ववर्त्ति-त्वस्य कारणस्यग्रहीतुमशक्यत्वात्। तृणाजन्येवह्नौ मणेःकारणत्वग्रह इति चेत् व्यभिचारेण वह्नौ तृणजन्यत्वाग्रहेतदजन्यत्वस्याप्यग्रहात् वह्निमात्रस्यैव उपजन्यत्वाच्च। न चमण्यजन्यत्वेन तृणजन्यत्वग्रह इति, अन्योऽन्याश्रयात्। यत्तु यत्र कारणताग्राहकं नास्ति तत्र व्यभिचारस्तद्-ग्रहपरिपन्धीति तन्न अवाधितनियतपूर्ववर्त्तिताभावग्रहे[Page3570-b+ 38] तद्ग्रहस्यासम्भवात् अभावप्रमायां भावज्ञानानुदयादतिउच्यते उक्तग्राहकैर्वह्निंनिष्ठकार्य्यतानिरूपितकारणताव-च्छेदकरूपवत्त्वं तृणस्य तृणनिष्ठनिरूपितकार्य्यताव-च्छेदकरूपवत्त्वं वह्नेर्वाऽकार्य्यकारणव्यावृत्तं परिच्छि-द्यते। न तु तृणत्वेन कारणत्वं वह्नित्वेन वा कार्य्यत्वंतच्चोभयथापि सम्भवति वह्नित्वेन कार्य्यतया तदनु-कूलशक्तिमत्त्वेन तृणादीनां कारणतया वह्नित्वावान्तर-जातिविशेषेण कार्य्यतया वा अत्र च विनिगमकमुक्तमेव। अथ तृणारणिमणीनामभावत्रयेण कार्य्यमित्यन्वयव्यति-रेकाभ्याम् अभावत्रयाभावत्वेन तृणादीनां कारणत्थमितिन व्यभिचारः अभावाभावत्वस्य भावपर्य्यवसन्नत्वादितिचेत् अभावत्रयाणामभावः किं तृणदिप्रत्येकव्यापकेऽप्येकएव उत तृणादि प्रत्येकमेव। आद्येऽभावस्य कारणत्व-मिति किमायातं तृणादिकारणत्वे, द्वितीये तृणस्यनारणिमण्यभावाभावत्वं भावाभावत्वतदुभयापत्तेः। एतेनाभावत्रये कार्य्यं न तदभावे कार्य्यमित्यन्वयव्यति-रेकाभ्यां तृणादिप्रत्येकस्य कारणत्वग्रह इति परास्तम्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाहक¦ mfn. (-कः-का-कं)
1. Burning, inflamatory.
3. Cauterising, caus- tic. m. (-कः) A plant, (Plumbago zeylancia.) E. दह् to burn, and ण्वुल् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाहक [dāhaka], a. (-हिका f.) [दह्-ण्वुल]

Burning, kindling; यथाग्निर्दारुणो दाह्याद्दाहको$न्यः प्रकाशकः Bhāg.11.1.8.

Incendiary, inflammatory.

Cauterizing.

कः Fire

The Chitraka plant.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाहक/ दा mf( ई)n. burning , setting on fire Ya1jn5. ii , 282 BhP. xi , 10 , 8

दाहक/ दा m. Plumbago Zeylanica.

"https://sa.wiktionary.org/w/index.php?title=दाहक&oldid=291624" इत्यस्माद् प्रतिप्राप्तम्