सामग्री पर जाएँ

दिक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्, [श्] स्त्री, (दिशति अवकाशं ददाति या । दिश + “ऋत्विग्दधृगिति ।” ३ । २ । ५९ । इति क्विन्-प्रत्ययेन साधुः ।) पूर्व्वपश्चिमदक्षि- णोत्तरादिरूपा । तत्पर्य्यायः । ककुप् २ काष्ठा ३ आशा ४ हरित् ५ । इत्यमरः । १ । ३ । ८ ॥ निदेशिनी ६ दिशा ७ ककुभः ८ हरितः ९ गौः १० । इति शब्दरत्नावली ॥ अपि च । आताः १ आशाः २ उपराः ३ आष्ठाः ४ काष्ठाः ५ व्योमः ६ ककुभः ७ हरितः ८ इत्यष्टौ दिङामानि । इति वेदनिघण्टौ १ अध्यायः ॥

अस्या व्युत्पत्तिर्यथा, -- “कृत्वैवमवधिं तस्मादिदं पूर्ब्बञ्च पश्चिमम् । इति देशो निदिश्येत यया सा दिगिति स्मृता ॥” तस्या वायोर्गुणाः । “विश्वग्वायुरनायुष्यः प्राणिनांनैकदोषकृत् । सर्व्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः ॥” इति राजवल्लभः ॥ * ॥ सा दशधा यथा । पूर्ब्बा १ आग्नेयी २ दक्षिणा ३ नैरृती ४ पश्चिमा ५ वायवी ६ उत्तरा ७ ऐशानी ८ ऊर्द्धम् ९ अधः १० ॥ * ॥

तासां उत्पत्तिर्यथा, -- \

महातपा उवाच ।

“शृणु राजन्नवहितः प्रजापाल ! कथामिमाम् । यथा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते ! ॥

ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते । चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति ॥

एवं चिन्तयतस्तस्य अवकाशं व्रजत्विह । प्रादुर्ब्बभूषुः श्रोत्रेभ्यो दश कन्या महाप्रभाः ॥

पूर्ब्बा च दक्षिणा चैव प्रतीची चोत्तरा तथा । ऊर्द्ध्वाध एव षण्मुख्याः कन्या ह्यासंस्तदा नृप ! ॥

तासां मध्ये चतस्रस्तु कन्याः परमशोभनाः । याःपश्यन्त्यो महाभागा गाम्भीर्य्येण समन्विताः ॥

ता ऊचुः प्रणयाद्देवं प्रजापतिमकल्मषम् । अवकाशन्तु नो देहि देवदेव प्रजापते ! ॥

यत्र तिष्ठामहे सर्व्वा भर्त्तृभिः सहिताः सुखम् । पतयश्च महाभाग ! देहि नोऽव्यक्तसम्भव ! ॥

ब्रह्मोवाच ।

ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् । तस्यान्ते स्वेच्छया तुष्टा उष्यतां मा विलम्बथ ॥

भर्त्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः । यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना ॥

एवमुक्ताश्च ताः सर्व्वा यथेष्टं प्रययुस्तदा । ब्रह्मा ससर्ज तूर्णं तान् लोकपालान् महा- बलान् ॥

दृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयन् । विवाहं कारयामास ब्रह्मा लोकपितामहः ॥

एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च । निरृताय च देवाय वरुणाय महात्मने ॥

वायवे धनदेशाय ईशानाय च सुव्रत ! । ऊर्द्धं स्वयमधिष्ठाय शेषायाधोव्यवस्थिताम् ॥

एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादात् दिशां पुनः । दशमीं भत्तृनाम्नस्तु अर्द्धनाम्नोदनः प्रभुः ॥

ततःप्रभृति ताः देव्यः सेन्द्र्याद्याः परिकीर्त्तिताः ॥”

इति वराहपुराणम् ॥ * ॥

न्यायमते अस्याः सर्व्वगतत्वम् । परममहत्त्व- परिमाणम् । दूरान्तिकादिधीहेतुत्वम् । नित्य- त्वम् । एकत्वेऽपि उपाधिभेदात् प्राच्यादिव्यप- देशभाक्त्वम् । अस्या गुणाः । संख्या १ परि- मितिः २ पृथक्त्वम् ३ संयोगः ४ विभागः ५ । इति भाषापरिच्छेदः ॥ (सामान्यम् । यथा, सुश्रुते । १ । ४३ । “वमवद्रव्ययोगानां दिगियं सम्प्रकीर्त्तिता ॥”)


पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक् in comp. for 2. दिश्, p.480.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शतरूपा. M. 4. २५.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DIK : A river. The Mahābhārata, (Bhīṣma Parva, Chapter 9, Verse 18) states that the water of this river was used for drinking by the people in India.


_______________________________
*2nd word in right half of page 241 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दिक्&oldid=509241" इत्यस्माद् प्रतिप्राप्तम्