दिधिषू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषूः, स्त्री, (दघाति पापं यद्बा दिधिं धैर्य्यं इन्द्रियदौर्ब्बल्यात् स्यति त्यजतीति । दा वा सो + “अन्ददृन्फूजम्ब्विति ।” उणां । १ । ९५ । इति कूप्रत्ययेन साधुः ।) द्विरूढा । वारद्वयविवा- हिता स्त्री । तत्पर्य्यायः । दिधीषूः २ पुनर्भूः ३ दिधिषुः ४ । इति शब्दरत्नावली ॥ विवाहि- हितायां कनिष्ठायां सत्यां अविवाहिता ज्येष्ठा भगिनी । यथा, उद्बाहतत्त्वे । “ज्येष्ठायां विद्यमानायां कन्यायामुह्यतेऽनुजा । सा चाग्रेदिधिषूर्ज्ञेया पूर्ब्बा च दिधिषूः स्मृता ॥” (धारके, त्रि । यथा, ऋग्वेदे । १ । ७१ । ३ । “दधन्नृतं धनयन्नस्य धीतिमादिदर्य्यो दिधिष्वो विभृत्राः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषू स्त्री।

द्व्यूढापतिः

समानार्थक:दिधिषू

2।6।23।1।2

पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः। स तु द्विजोऽग्रे दिधिषूः सैव यस्य कुटुम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषू¦ स्त्री दधाति पापं धिष्यते वा धा--धिष--वा ऊ अ-न्दूदृन्भू इत्यादिना नि॰। वारद्वयविवाहितायां स्त्रियाम्।
“ज्येष्ठाया यद्यनूढायां कन्यायामुह्यतेऽनुजा। सा चा-ग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूः स्मृता” देवलोक्तायांज्येष्ठाविवाहप्रागभावकालीनबिवाहयुक्तायां

२ कनिष्टायांभगिन्याञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषू¦ f. (-षूः)
1. A virgin widow remarried: see the preceding; also दिधीषू।
2. An elder sister unmarried, whose junior is a bride. m. (-षूः)
1. The husband of a woman married a second time: see दिधिषु।
2. Instability, want of firmness. E. दिधि firmness, षो to abandon, कू Unadi aff.

"https://sa.wiktionary.org/w/index.php?title=दिधिषू&oldid=500225" इत्यस्माद् प्रतिप्राप्तम्