दिनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनम्, क्ली, (द्यति खण्डयति महाकालमिति । दो छेदे + “बहुलमन्यत्रापि ।” उणां २ । ४९ । इति इनच् ।) कालविशेषः । तत्पर्य्यायः । घसः २ अहः ३ दिवसः ४ वासरः ५ । इत्य- मरः । १ । ४ । २ ॥ भास्वरः ६ दिवा ७ । इति राज- निर्घण्टः ॥ वारः ८ अंशकः ९ द्यु १० अंशकम् ११ । इति शब्दरत्नावली ॥ (यथा, रघुः । ३ । ८ । “दिनेसु गच्छत्सु नितान्तपीवरं तदीयमालीनमुखं स्तनद्बयम् ॥”) तत्तु मनुष्यमाने षष्टिदण्डात्मकम् । पितृमाने गौणचान्द्रमासात्मकम् । देवासुरमाने वत्सरा- त्मकम् । ब्रह्ममाने दिव्यद्बिसहस्रयुगात्मकम् । मनुष्यमाने ब्रह्मणो दिनस्य संख्या । ८,६४०,०००, ००० । इति पुराणम् ॥ तदेव मनुष्याणां सौर- सावनचान्द्रनाक्षत्रभेदेन चतुर्व्विधम् । यथा, -- सावनं दण्डाः षष्टिरहः स्वलग्नखगुणांशाढ्या- स्तदैनं भवेत् । १ । उदयादोदयाद्भानोर्भौमसावनवासराः । २ । तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः । ३ । आयुर्द्दाये स्मृतं प्राज्ञैर्नाक्षत्रं षष्टिनाडिकम् ॥ ४ ॥ जीमूतवाहनमते तु सूर्य्यकिरणावच्छिन्नदतु- र्यामयुक्तम् ॥

दिनम्, क्ली, (दो छेदे + इनच् ।) सूर्य्यकिरणा- वच्छिन्नकालः । तद्वैदिकपर्य्यायः । वस्तोः १ द्युः २ भाबुः ३ वासरम् ४ स्वसराणि ५ घ्रंसः ६ घर्म्मः ७ घृणः ८ दिनम् ९ दिवा १० दिवे- दिवे ११ द्यविद्यवि १२ । इति द्बादशाहर्नामानि । इति वेदनिघण्टौ १ अध्यायः ॥ * ॥ सिंह- कन्यातुलावृश्चिककुम्भमीनलग्नानि । यथा, -- “अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा । निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः ॥” इति ज्योतिस्तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=दिनम्&oldid=140228" इत्यस्माद् प्रतिप्राप्तम्