दीक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षा, स्त्री, (दीक्ष + भावे अ । स्त्रियां टाप् ।) यजनम् । पूजनम् । इत्यजयपालः ॥ व्रतसंग्रहः । इति हेमचन्द्रः । ३ । ४८७ ॥ गुरुमुखात् स्वेष्टदेव- मन्त्रग्रहणम् । (एतन्निरुक्तिर्यथा, गौतमीय- तन्त्रे । ७ । २ । “ददाति दिव्यतां तावत् क्षिणुयात् पापसन्ततिः । तेन दीक्षेति विख्याता मुनिभिस्तन्त्रपारगैः ॥”) यथाच, -- “दीयते ज्ञानमत्यन्तं क्षीयते पापसञ्चयः । तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ दिव्यं ज्ञानं यतो दद्यात् कुर्य्यात् पापस्य संक्षयम् । तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ॥ उच्यते प्रथमं तत्र लक्षणं गुरुशिष्ययोः ॥” इत्यत्र गुरुशिष्ययोर्लक्षणं तत्तच्छब्दे द्रष्टव्यम् ॥ योगिनीतन्त्रे । “पितुर्म्मन्त्रं न गृह्णीयात् तथा मातामहस्य च । सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ॥” रुद्रयामले । “न पत्नीं दीक्षयेद्भर्त्ता न पिता दीक्षयेत् सुताम् । न पुत्त्रञ्च तथा भ्राता भ्रातरं न च दीक्षयेत् ॥ सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् । शक्तित्वेन वरारोहे ! न च सा कन्यका भवेत् ॥” तथा गणेशविमर्षिण्याम् । “यतेर्दीक्षा पितुर्दीक्षा दीक्षा च वनवासिनः । विविक्त्राश्रमिणां दीक्षा न सा कल्याणदायिका ॥” इत्यादिनिषेधवचनादेभ्यो मन्त्रं न गृह्णीयादि- त्यर्थः । इति तु सिद्धेतरविषयम् । सिद्धमन्त्रो न दुष्यतीति वचनात् ॥ * ॥ शक्तियामले । “तीर्थाचारव्रतो मन्त्री ज्ञानवान् सुसमाहितः । नित्यनिष्ठो यतिः ख्यातो गुरुः स्याद्भौतिको- ऽपि च ॥” सिद्धयामले । “यदि भाग्यवशेनैव सिद्धविद्यां लभेत् प्रिये ! । तदेव तान्तु दीक्षेत त्यक्त्वा गुरुविचारणम् ॥” गणेशविमर्षिण्याम् । “प्रमादाच्च तथाज्ञानात् पितुर्द्दीक्षां समाचरन् । प्रायःश्चित्तं ततः कृत्वा पुनर्द्दीक्षां समाचरेत् ॥” तथा च रुद्रयामले । “श्यामायां भैरवीताराच्छिन्नमस्तासु भैरवे । मञ्जघोषे तथा रौद्रे पञ्चाङ्गं नेष्यते बुधैः ॥ उपविद्यासु सर्व्वासु षट्कर्म्मादिषु साधने । नात्र दीक्षाद्यपेक्षास्ति नात्राङ्गादिप्रपूजनम् ॥” तत्त्वसारे । “उपविद्यासु सर्व्वासु तथा प्रयोगसाधने । दीक्षां विनैव कर्त्तव्य उपदेशः सदैव हि ॥” * ॥ अथ सङ्क्षेपदीक्षा । “मुहूर्त्ते सर्व्वतोभद्रे नवं कुम्भं निधाय च । सोदकं गन्धपुष्पाभ्यामर्च्चितं वस्त्रसंयुतम् ॥ सर्व्वौषधिनवरत्नपञ्चपल्लवसंयुतम् । ततो देवार्च्चनं कृत्वा हुनेदष्टोत्तरं शतम् ॥” पञ्चपल्लवमिति । पनसाम्राश्वत्थवटवकुलानि । तथा च वाशिष्ठे । “पनसाम्रं तथाश्वत्थं वटं वकुलमेव च । पञ्चपल्लवमित्युक्तं सुनिभिस्तन्त्रवेदिभिः ॥” * ॥ नवरत्नमिति । “मुक्तामाणिक्यवैदूर्य्यं गोमेदान् वज्रविद्रुमौ । पद्मरागं मरकतं नीलञ्चेति यथाक्रमात् ॥” * ॥ निबन्धे । “शिष्यं स्वलङ्कृतं वेद्यामुपाग्निमुपवेशयेत् । मन्त्रितं प्रोक्षणीतोयैः शान्तिकुम्भजलैस्तथा ॥ मूलमन्त्रेणाष्टशतं मन्त्रितैरभिषेचयेत् ॥” अष्टशतम् अष्टोत्तरशतम् । “अथ सम्पादयेन्मन्त्रं हस्तं शिरसि घारयन् । समोऽस्त्वित्यक्षतान् दद्यात् ततः शिष्योऽर्च्चयेद्- गुरुम् ॥” यद्वा दीक्षान्तरम् । शङ्खमभ्यर्च्च्य साक्षतं तदम्बु- नादष्टवारं मूलेन शिरसि करं निधाय अष्टौ वारान् कर्णे जपेत् । तथा च । “तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्च्य साक्षतम् । तदम्बुनाभिषिच्याष्टवारं मूलेन केवलम् ॥ निधायाष्टौ जपेत् कर्णे उपदेशे त्वयं विधिः ॥” इति सङ्क्षेपदीक्षा ॥ उपदेशान्तरमाह । विश्वसारे । “चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥” विश्वसारे । “महादीक्षा तथा दीक्षा उपदेशस्ततः परम् । पुगे युगे च कर्त्तव्या उपदेशः कलौ युगे ॥” इति कृष्णानन्दकृततन्त्रसारः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षा¦ स्त्री दीक्ष--भावे अ।

१ नियमे

२ उपनयनसंस्कारे
“दीयते विमलं ज्ञानं क्षीयते कर्मवासना। तेन दीक्षेतिसा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः” इति तन्त्रोक्ते

३ अभीष्ट-देवभन्त्रग्रहणे

४ तदुपदेशे। यागाङ्गदीक्षा च द्वादशसंख्याअपरिमिता वा यथाह कात्या॰ श्रौ॰

७ ।

१ ।

२९ सू॰
“द्वादशदीक्षाः”
“अत्राग्निष्टोमे भवन्ति” कर्कः।
“अपरमितावा” द्वादशसंख्यातोऽतिशयेनाधिकसंख्या वा दीक्षाभवन्ति
“अपरिमितं प्रमाणाद्भूय इति” परिशिष्टकारःअतश्चत्वारो दीक्षापक्षाः,
“एका दीक्षा, तिस्रो दीक्षा,द्वादशदीक्षा अपरिमिता वा दीक्षेति” शाखान्तरादेतेदीक्षापक्षाः। आपस्तम्बः
“दशाहमवरार्ध्यं दीक्षितोभवति मासं सवत्सरं वा यदा कृश स्यादित्यपरं विज्ञा-यते च यद्रा वै दीक्षितः कृशो भवत्यथ मेध्यो मवतियदास्मिन्नन्तर्न किं चन भवत्यथ मेध्यो भवति यदास्यकृष्णं चक्षुषोर्नश्यत्यथ मेध्यो भवति यदास्य त्वचास्थिसंधीयतेऽथ मेध्यो भवति पीवा दीक्षेत कृशो यजेत यद-स्याङ्गानां हीयते जुहोत्येव तदिति विज्ञायते” इति। कर्कः
“पुण्याहे दीक्षा क्रयः प्रसव उत्थानम्”

३१ सू॰
“तान्यत्र दीक्षा सोमक्रयः प्रसवः सुत्या उत्थानं समाप्तिःपुण्याहे विष्ठिव्यतीपातादिज्योतिःशास्त्रनिषेधवर्जितेसुदिने भवन्ति यतएवं स्मरन्ति
“आभ्युदयिकः पदार्थःपुण्येऽहनि कर्त्तव्यः एतानि चाभ्युदयिकानीति” कर्कः। तान्त्रिकमन्त्रदीक्षाकालादि मल॰ त॰ उक्त यथा
“अथ दीक्षाकालः सा च मलमामे न कार्य्या यथा-ऽगस्त्यसंहितायाम्
“यदा ददाति सन्तुष्टः प्रसन्नवदनीमनुम्। अयमेव तथा चैवमिति कर्त्तव्यताक्रमः। वि-शुद्धदेशकालेषु शुद्धात्मा नियतो गुरुः। सङ्कल्प्योपोष्य कर्त्तव्यमङ्कुरारोपणं मुने!। कुर्य्यान्नान्दीमुखं[Page3601-a+ 38] न्नाद्धमादौ च स्वस्तिवाचनम्। स्वगृह्योक्तप्रकारेणतदेतद्विदधीत वै। मधुमासे भवेद्दुःखं माधवे रत्न-सञ्चयः। मरणं भवति ज्यैष्ठे आषाढे बन्धुनाशनम्। समृद्धिः श्रावणे नूनं भवेद्भाद्रपदे क्षयः। प्रजानामा-श्विने मासि सर्वतः शुभमेव हि। ज्ञानं स्यात् कार्त्तिकेसौख्यं मार्गशीर्षे भवत्यपि। पौवे ज्ञानक्षयो माघेभवेन्मेधाविवर्द्धनम्। फालगुनेऽपि विवृद्धिः स्यान्मलमासंविवर्जयेत्। गुरौ रवौ दिने शुके कर्त्तव्यं बुधसो-मयोः। अश्विनी भरणी स्वातिविशाखाहस्तभेषु च। ज्येष्ठोत्तरत्रयेष्वेवं कुर्य्यान्मन्त्राभिषेचनम्। शुक्लपक्षे चकृष्णे वा दीक्षा सर्वसुखावहा। पूर्णिमा पञ्चमी चैवद्वितीया सप्तमी तथा। त्रयोदशी च दशमी प्रशस्तासर्वकामदा। पञ्चाङ्गशुद्धदिवसे सोदये शशितारयोः। गुरुशुक्रोदये शुद्धे लग्ने द्वादशशोधिते। चन्द्रतारानु-कूले च शस्यते सर्वकर्मसु। सूर्य्यग्रहणकालेन समानोनास्ति कश्चन। तत्र यद्यत् कृतं सर्वमनन्तफलदं भवेत्। न मासतिथिवारादिशोधनं सूर्य्यपर्वणि। ददातीष्टंगृहीतं यत्तस्मिन् काले गुरोर्नृषु। सिद्धिर्भवति मन्त्रस्यविनायामेन सेव्यतः”। मनुं मन्त्रम्। अङ्कुरारोपणमा-गमप्रमिद्धम्। शुद्धकालत्वं दर्शयति मधुमासे इत्यादि। पञ्चाङ्गशुद्धदिवसे तिथिवारनक्षत्रकरणयोगशुद्धदिवसे। तथाच महाकपिलपञ्चरात्रम्
“एवं नक्षत्रतिथ्यादौकरणे योगवासरे। मन्त्रोपदेशा गुरुणा साधकस्य शुभा-वहःं। सोदये शशितारयोरिति जन्मचन्द्राद्यतारयोरानु-कूल्यसहिते गुरुशुक्रोदये गुरुशुक्रानस्तमये। एतत्तुसमयशुद्ध्यन्तरोपलक्षणम्। (अकालशब्दीक्ते
“गुरीर्भृ-गोरस्तवाल्ये” इत्यादिके वचने
“परीक्षारामकूपांश्च पुर-श्चरणदीक्षणे” इत्यादिना अशुद्धकाले तस्यावर्ज्यत्व-मुक्तम्)। द्वादशशोधिते द्वादशांशशोधिते। ज्ञानमा-लायाम्
“रविसंक्रमणे चैव सूय्यस्य ग्रहणे तथा”। तथा
“तत्र लग्नादिकं किञ्चिन्न विचार्य्यं कथञ्चन”। दीक्षातत्त्वे
“यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः। न तिथिर्न व्रतं होमो न स्नानं न जपः क्रिया। दीक्षायाः कारणं किञ्चित् स्वेच्छयाप्ते तु सद्गुरौ”। सदुगुरौ सिद्धमन्त्रगुरौ। दीपिकायाम्
“ध्रुवमृदु-नक्षत्रगणे रविशुमवासरेपु सत्तिथौ सद्गुरौ दीक्षा। स्यिरलग्ने शुभचन्द्रे केन्द्रे कोणे शुभे गुरौ धर्मे”। ध्रुवाणि त्रीण्युत्तरप्रणि रोहिणी च। मृदनि चित्रा-[Page3601-b+ 38] नुराधामृगशिरोरेवत्यः। केन्द्रं लग्नचतुर्यसप्तदशकम्। कोणं नवपञ्चकम्। धर्म्मो नवमः। वीरतन्त्रे
“रोहिणीअवणार्द्रा च धनिष्ठा चोत्तरात्रयम्। पुष्यः शत-भिषगकौ च दीक्षामक्षत्रमिष्यते”। अर्को हस्तः। रत्नावल्याम्
“योगाश्च प्रीतिरायुष्मान् सौभाग्यः शोभनोधृतिः। वृद्धिर्ध्रुवः सुकर्म्मा च साध्यः शुक्रश्च हर्षणः। वरीयांश्च शिवः सिद्धो ब्रह्मा इन्द्रश्च षोडश”। तथा। शुभानि करणानि स्युर्दीक्षायाञ्च विशेषतः। शकुन्यादीनिषिष्टिञ्च विशेषेण विवर्जयेत्”। शकुन्यादीनि शकुनिनागचतुष्पदकिन्तुध्नानि। कृष्णेऽष्टम्यां चतुर्दश्यां पूर्वप-ञ्चदिने तथा”। कृष्णे कृष्णपक्षे। कालोत्तरे
“भूतिकामैःसिते सदा” म॰ त॰ दीक्षायां प्रतिप्रसवः
“राघवभट्टधृतसारसंग्रहे शिष्यस्त्रिजन्मदिवसे संक्रान्तौ विषुवायने। सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः। भन्त्रदीक्षां प्रकु-र्वाणो मासर्क्षादीन् न शोधयेत्”। तन्तुपर्व परमेश्वरोपवीतदानतिथिः श्रावणी पूर्णिमा। दामनपर्व दमनभञ्जनति-थिश्चैत्रशुक्लचतुर्दशी। कूर्म्मपुराणे हिमालयं प्रति देवी-वाक्यम्
“यानि शास्त्राणि द्वश्यन्ते लोकेऽस्मिन् वि{??}इ-धानि च। श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि ताममी। करालभैरवञ्चापि यासलं वाममाश्रितम्। एवंविधानिचान्यानि मोहनार्थानि तानि तु। मया सृष्टानि चा-न्यानि मोहायैषां भवार्णवे”। तस्मात् सद्भिः श्रुतिस्मृति-विरुद्धे वर्त्मनि न कदाचित् पदं न्यस्तव्यम्। अर्य्यादि-दुष्टमन्त्रप्रतीकारस्तु
“एषु दोषेषु सर्वत्र मायां काम-मथापि वा। क्षिप्त्या चादौ श्रिथं दद्यात् तद्दूषण-विमुक्तये। तारसंपुटिती वापि दुष्टमन्त्रो विशुध्यति। यस्य यत्र भवेद्भक्तिः सोऽपि मन्त्रोऽस्य सिद्ध्यति। भुवने-श्वरीपारिजातेऽपिं
“मायावीजसमायुक्तः क्षिप्रं सिद्धि-प्रदो भवेत्। पिण्डस्तु केवलो मन्त्रो मायावीजोज्ज्वली-कतः। मायावीजात् भवेत् प्राणीवीजञ्चैतन्यवीर्य्यवत्”। नारदीये
“यदृच्छया श्रुतं मन्त्रं छद्मनापि हठेन वा। पत्रेक्षितं वा गायाञ्च तसुपेत्य त्वनर्थकृत्। प्रविश्यविधिवद्दीक्षामभिवेकावसानिकाम्”। अधिकं तत्त्रासा-रोक्तं देशाद्यनुपदं वत्यतेतन्त्रसारे दीक्षाशब्दस्य व्यु{??}त्तिप्रदर्शनपूर्वं कलावावशप्रकता दर्शिता यथा(
“दीक्षां विना जपस्य दुष्टत्रात पथमं सा निन्मप्यते
“दिव्यं ज्ञानं यतो दद्यात् कुर्य्यात् पापस्व संक्ष-[Page3602-a+ 38] यम्। तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः। दीयते ज्ञानसंभारः क्षालनात् पापसन्ततेः। ततो दी-क्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः”। सर्वाश्रमेषु दी-क्षाया आवश्यकत्वम् तथा च
“दीक्षामूलं जपं सर्वंदीक्षामूलं परन्तपः। दीक्षामाश्रित्य निवसेत् यत्र कुत्रा-श्रमे वसन्”। शूद्रस्य निषेधमाह तन्त्रान्तरे
“प्रणवाद्यंन दातव्यं मन्त्रं शूद्राय सर्वथा। आत्ममन्त्रं गुरोर्मन्त्रंमन्त्रञ्चाजपसंज्ञकम्। स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रंददद्विजः। शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधीग-तिम्”। नृसिंहतापनीये
“सावित्रीं प्रणवं यजुर्लक्ष्मींसत्री शूद्रो यद्विजानीयात् स मृतोऽधोगच्छति”। लक्ष्मींलक्ष्मीमन्त्रम्। विशेषमाह वाराहीतन्त्रे
“गोपालस्य मनु-र्देयो महेशस्यापि पादजे। तत् पत्न्याश्चापि सूर्यस्यगणेशस्य मनुस्तथा”। अदीक्षितस्य निन्दामाह तन्त्रसारे
“अदीक्षिताये कुर्वन्ति जपपूजादिकाः क्रियाः। न भ-वन्ति श्रियै तेषां शिलायामुप्तवीजवत्। देवि! दीक्षावि-हीनस्य न सिद्धिर्न च सद्गतिः। तस्मात् सर्वप्रयत्नेन गु-रुणा दीक्षितो भवेत्। अदीक्षितोऽपि मरणे रौरवं नरकंव्रजेत्। तस्माद्दीक्षां प्रयत्नेन सदा कुर्य्याच्च तान्त्रिकात्। कल्पे दृष्ट्वा तु मन्त्रं वै यो गृह्णाति नराधमः। मन्वन्तरसहस्रेषु निष्कृतिर्नैव जायते। नादीक्षितस्य कार्य्यंस्यात् तपोभिर्नियमव्रतैः। न तीर्थगमनेनापि न चशारीरयन्त्रणैः”। अतः सद्गुरोराहितदीक्षः सर्वक-र्माणि साधयेत्। गोविन्दवृन्दावने
“अदीक्षितस्यमरणे प्रेतत्वं न विमुञ्चति”। नवरत्नेश्वरः
“सर्वासामपिदीक्षाणां मुक्तिः फलमखण्डितम्। अविरोधाद्भवन्त्येवप्रासङ्गिक्यस्तु भुक्तयः”। दीक्षा काम्या च यथा कुलार्णवे
“उपपातकलक्षाणि महापातककोटयः। क्षणाद्दहतिदेवेशि! दीक्षा हि विधिना कृता। दीक्षाह्यागमोक्ता-गमपदार्थमाह गामले
“आगतः शिववक्त्रेभ्यो गतश्चगिरिजानने। मग्नस्तस्या हृदम्भोजे तस्मादागम उच्यते। आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः। नहि देवाः प्रसीदन्ति कलौ चान्यविधानतः। पञ्चवर्णैर्भ-वेद्दीक्षा ह्यागमोक्तैः शृणु प्रिये!। यां कृत्वा कलिकालेच सर्वाभीष्टं नभेन्नरः” तन्त्रसा॰दीक्षाप्रकारश्च कलावतीशब्दे

१७

९२ पृ॰ दृश्यःअन्यत्र च दीक्षाशब्दव्युत्पत्त्यादिकमुक्तं यथा[Page3602-b+ 38]( रुद्रजामले
“ददाति शिवतादात्म्यं क्षिणोति चमलत्रयम्। अतो दीक्षेति संप्रोक्ता दीक्षातन्त्रार्थवे-दिभिः”। लघुकल्पसूत्रे च
“दीयते परमं ज्ञानं क्षीयतेपापपद्धतिः। तेन दीक्षोच्यते तन्त्रे स्वागमार्थबलाव-लात्”। योगीनीतन्त्रे तृतीयभागे षष्ठपटलेऽपि
“दीयतेज्ञानमत्यर्थं क्षीयते पाशबन्धनम्। अतो दीक्षेतिदेवेशि! कथिता तत्त्वचिन्तकैः। मनसा कर्मणा वाचायत् पापं समुपार्जितम्। तेषां विश्लेषकरणी परमज्ञान-दा यतः। तस्माद्दीक्षेति लोकेऽस्मिन् गीयते शास्त्रवेदकैः। विज्ञानफलदा सैव द्वितीया लयकारिणी। तृतीयामुक्तिदा चैव तस्माद्दीक्षेति गीयते”। विश्वसारतन्त्रेद्वितीयपटले च
“अथ दीक्षां प्रवक्ष्यामि शृणुष्व कम-लानने!। यस्य विज्ञानमात्रेण देवत्वं लभते नरः। दिव्यज्ञानं यतो दद्यात् कुर्यात्पापक्षयं यतः। तस्माद्दी-क्षेति सा प्रोक्ता सर्वतन्त्रस्य सम्मता”। अथ दीक्षामा-हात्म्यम् सद्रजामले पूर्वखण्डे तृतीयपटले
“देवि!दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः। तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत्। अदीक्षितोऽपि मरणेरौरवं नरकं व्रजेत्। तस्माद्दीक्षां प्रयत्नेन सदा कुर्याच्चतान्त्रिकीम्” पञ्चदशपटले
“अदीक्षिता ये कुर्वन्ति जप-पूजादिकाः क्रियाः। न भवन्ति प्रिये! तेषां शिलायामुप्तवीजवत्” कल्पसूत्रटीकाधृतकुलार्णवतन्त्रे
“रसेन्द्रेण यथाविद्धमयः सुवर्णतां व्रजेत्। दीक्षाविद्धस्तथैवात्मा शिवत्वंलभते प्रिये! दीक्षाग्निदग्धकर्मासौ पाशाद्विच्छिन्नबन्धनः। गतस्तस्य कर्मबन्धो निर्जीवश्च शिवो भवेत्। गतं शूद्रस्यशूद्रत्वं विप्रस्यापि च विप्रता। दीक्षासंस्कारसंमिन्नेजातिभेदो न विद्यते। शिवलिङ्गे शिलाबुद्धिं कुर्वन्यत् पापमाप्नुयात्। दीक्षितस्यापि पूर्वत्वं स्मरन् तत्पापमाप्नुयात्। दार्वश्मलौहमृद्रत्नजाति
“लङ्गं प्रति-ष्ठितम्। यथोच्यते तथा शुद्धाः सर्वे वर्णाश्च दीक्षिताः। येन पूजितमात्रेण चाब्रह्मभुवनान्तक{??}। पूजितंतेन सर्वं स्याद्दीक्षितेन न संशयः। नादी क्षतस्य कार्यंस्यात्तपोभिर्नियमव्रतैः। न तीर्थगमनेनापि न चशारीरयन्त्रणैः” पञ्चमखण्डे{??}ष्ठील्लासेऽपि
“गवांसर्पिः शरीरस्थं न करोत्यात्मपोषणम्। स्वकर्म चरितंदत्त पुनस्तामेव पोषयेत्। एवं सर्वशरीरस्थं सर्पिर्वत्परमेश्वरी। विना चोपासनाद्देवि! न ददाति फलंनृणाम”। पुरश्चरणरसोल्लासे प्रथमपटले
“न च दीक्षा-[Page3603-a+ 38] परं ज्ञानं न च दीक्षापरं तपः। न च दीक्षापरंकालं तस्माद्दीक्षा गीरयसी” तत्र देशकालादि तन्त्रसारे निर्णीतं यथा
“वृषे सिंहे च कन्यायां धनुर्मीनाख्यलग्नके। चन्द्र-तारानुकूले च कुर्य्याद्दीक्षाप्रवर्त्तनम्। स्थिरलग्नंविष्णुमन्त्रे शिवमन्त्रे चरः शुभः। द्विःस्वभावगतंलग्नं शक्तिमन्त्रे प्रशस्यते। त्रिषडायगताः पापाःशुभाः केन्द्रा त्रिकोणगाः। दीक्षायान्तु शुभाः सर्वेरन्ध्रस्थाः सर्वनाशकाः”। शुक्लपक्षे भवेद्दीक्षा कृष्णे-ऽप्या पञ्चमाद्दिनात्”। निषिद्धमासेऽपि तत्तद्विशेषो मुनि-भिरुदितः रत्नावल्याम्
“षष्ठी भाद्रपदे मासि तथाकृष्णा चतुर्दशी। कार्त्तिकं नवभी शुक्ला मार्गे शुक्लतृतीयिका। पौषे च नवमी शुक्ला माघे शुक्लचतुर्थिका। फाल्गुने नवमी शुक्ला चैत्रे कामचतुर्दशी”। त्रयोदशीतिकेचित्।
“वैशाखे साऽक्षया चैव ज्यैष्ठे दशहरा तिथिः। आषाढे नवमी शुक्ला श्रावणे कृष्णपञ्चमी। एतानिदेवपर्वाणि तीर्थकोटिफलं लभेत्। अत्र दीक्षाप्रकर्त्तव्या न मासञ्च परीक्षयेत्। न वारं न च नक्षत्रंन तिय्यादिकदूषणम्। न योगकरणञ्चैव शङ्करेणच भाषितम्”। अन्यच्च।
“चैत्रे त्रयोदशी शुक्लावैशाखैकादशी सिता। ज्यैष्ठे चतुर्दशी कृष्णा आषाढेनागपञ्चमी। श्रावणैकादशी भाद्रे रोहिणीसंयुता-ष्टमी। आश्विने च महापुण्या महाष्टम्यप्यभीष्टदा। कार्त्तिके नवमी शुक्ला मार्गशीर्षे तथा सिता। षष्ठीचतुर्दशी पौषे माघेऽप्येकादशी सिता। फाल्गुने चसिता षष्ठी चेति कालविनिर्णयः”। योगिनीतन्त्रे
“अयने विषुवे चैव ग्रहणे चन्द्रसूर्य्ययोः। रवि-संक्रान्तिदिवसे युगाद्यायां सुरेश्वरि!। मन्वन्तरासु सर्वासुमहापूजादिमे तथा। चतुर्थी पञ्चमी चैव चतुर्दश्यष्टमीतथा। तिथयः शुभदाः प्रोक्ताः” इत्यादिवचनात् चतु-र्दश्यष्टमीति शक्तिविषयम् चतुर्थीति गणेशविषयम्तत्तत्कल्पोक्तत्वात्
“निन्दितेष्वपि कालेषु दीक्षोक्ता ग्रहणेशुभा। सूर्य्यग्रहणकालस्य समानो नास्ति भूतले। विशेषतो महादेवि! दीक्षाग्रहणकर्मणि। तत्र यद्यत्-कृतं सर्वमनन्तफलदं भवेत्। रविसंक्रमणे चैव सूर्य्यस्यग्रहणे तथा। तत्र लग्नादिकं किञ्चिन्न विचार्य्यंकथञ्चन। रविसंक्रमणे चैव नान्यदन्वेषितं भवेत्। न वारतिथिमासादिशोधनं सूर्य्यपर्वणि”। एवं चन्द्रग्रहणे-[Page3603-b+ 38] ऽपि तथा च रुद्रयामले
“न कुर्य्याच्छाक्तिकी दीक्षामुप-रक्ते विभावसौ। न कुर्य्याद्वैष्णवीं तान्तु यदि चन्द्र-मसो ग्रहः”। एतच्च गोपालश्रीविद्येतरविषयम।
“अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्य्ययोरिति” गौतमी-यात्। सूर्य्यग्रहणकाले तु नान्यदन्वेषितं भवेत्” इति योगिनीहृदयाच्च। वस्तुतस्तु
“श्रीपराकालीवी-जानि लोपादौर्गश्च यो मनुः। सूर्य्यस्योपग्रहे लब्धेनृणां शीघ्रफलप्रदः” उक्तवचनानुरोधात् पूर्ववचनेशक्तिमन्त्रपदं श्रीविद्याद्यतिरिक्तशक्तिमन्त्रपरमितिसाम्प्रदायिकाः।
“अमावास्या सोमवारे भौमवारे चतु-र्थिका। सप्तमी रविवारे च सूर्यग्रहशतैः समा। शिष्या-नाहूय गुरुणा कृपया दीयते यदि। तदा लग्नादिकंकिञ्चिन्न विचार्यं कथञ्चन। तथा
“सर्वे वारा ग्रहाः सर्वेनक्षत्राणि च राशयः। यस्मिन्नहनि सन्तुष्टो गुरुः सर्वेशुभावहाः”। योगिनीतन्त्रे
“ग्रहणे च महातीर्थेनास्ति कालस्य निर्णयः”। अथ वक्ष्यामि दीक्षायाःस्थानं तन्त्रानुसारतः। गोशालायां गुरोर्गेहे देवागारेच कानने। पुण्यक्षेत्रे तथोद्याने नदीतीरे च मन्त्र-वित्। धात्रीविल्वसमीपे च पर्वताग्रगुहासु च। गङ्गायास्तु तटे वापि कोटिकोटिगुणं भवेत्”। दीक्षायां नि-षिद्धदेशमाह
“गयायां भास्करक्षेत्रे विरजे चन्द्रपर्वते। चण्डाले च मतङ्गे च तथा कन्याश्रमेषु च। न गृ-ह्णीयात्ततो दीक्षां तीर्थेष्वेतेषु पार्वति!”। वाराहीतन्त्रे
“शुक्रोऽस्तो यदि वा वृद्धो गुर्वादित्यो भवेद्यदि। मेष-वृश्चिकसिंहेषु तदा दोषो न विद्यते”। महाविद्यासुसर्वासु कालादिविचारो नास्ति तदुक्तं मुण्डमालातन्त्रे
“कालादिशोधनं नास्ति न चामित्रादि दूषणम्”।

५ कर्मणि च
“विवाहदीक्षां निरवर्त्तयत् गुरुः”
“विवाह-दीक्षातिलकं चकार” रघुः नियमे
“एताश्चान्याश्चरेदेवदीक्षा विप्रो वने वसन्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षा¦ f. (-क्षा)
1. Sacrificing, offering oblations.
2. Worshipping in general.
3. Engaging in a course of austerities.
4. Certain cere- monies preliminary to a cacrifice.
5. Receiving the initiatory Man- tra or incantation. E. दा to give, (knowledge,) and क्षि to destroy, (sin;) deriv. irr. or दीक्ष् to initiate, &c. affixes अ and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षा [dīkṣā], [दीक्ष्-भावे-अ]

(a) Consecration for a religious ceremony, initiation in general; अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे R.3.44,65. (b) Receiving the initiatory mantra.

A ceremony preliminary to a sacrifice; Bhāg.3.13.37.

A ceremony or religious rite in general; विवाहदीक्षाम्, R.3.33; Ku.7.1,8, 24.

Investiture with the sacred thread.

Dedicating oneself to a particular object, self-devotion; विश्व- त्राणैकदीक्षाः; विष्णुपादादिकेशान्तवर्णनस्तोत्रम् 33. -Comp. -अन्तः a supplementary sacrifice made to atone for the defects in a preceding one. -आश्रमः (अवभृथ) (वैखानसः) the third stage of life (वानप्रस्थाश्रम); Mb.12.66.8.-पतिः the Soma. -यूपः A sacrificial post.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षा f. preparation or consecration for a religious ceremony , undertaking religious observances for a partic. purpose and the observances themselves AV. VS. Br. S3rS. etc.

दीक्षा f. dedication , initiation (personified as the wife of सोमRV. 25 , 26 , of रुद्रउग्रor -R रुद्रवामदेवPur. )

दीक्षा f. any serious preparation (as for battle) MBh. Hariv. Ka1v.

दीक्षा f. self-devotion to a person or god , complete resignation or restriction to , exclusive occupation with( comp. ; See. विरह-, शाक-, शृङ्गार.).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--wife of Ugra, (दीक्षित) son सन्तान. Br. II. १०. ८३; वा. २७. ५५.
(II)--in connection with ललिता's worship; शाम्- भवी Di1ks2a1 is the knowledge that comes at once by the Guru's look, speech or touch; मानसि Di1ks2a1 where the disciple is initiated by the Guru in secret being pleased with his conduct; first was क्रिया Di1ks2a1 which consists of purificatory bath and recital of देवीसूक्त and पुरुषसूक्त with १६ उपचारस्; offering of the पुष्पाञ्जलि with सहस्राक्षर विद्य; समाधि; the poor and disabled worship with भावनद्रव्यस् (i.e.) meditation in mind as if doing all of them; place of meditation or जपस्थान; thinking of भैत्ररी, then the श- ष-Sa group of ४२ letters, पञ्चाक्षर, चतुरक्षर, etc.; con- template on वरमूर्तिस् and then स्वरशक्तिस् and वर्ण- शक्तिस्; installation of चक्रेश्वरी and of Ananga Kusuma- देवी in the heart seeing the मुद्रा; meditation of Manuja- pam pleases देवी. Br. IV. ४३ (whole) and ४४, 1 to १५१. [page२-095+ २६]
(III)--as consort of a Brahmana Soma. Vi. I. 8. 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĪKṢĀ : Dīkṣā is the vrata that expels sin and increases Jñāna (wisdom). Those who are to be blessed fall into three categories. The person who belongs to the first category is called Vijñānakala; the second is Pralaya- kala; and the third is Sakala. Vijñānakala is free from sin alone. Pralayakala is free from sins and Karmans. Sakala has everything from Kalā to the earth. The Dīkṣās to be practised by the three classes of persons are of different kinds. Dīkṣā is classified into two: “Nirādhāra and Sādhāra.

Nirādhāra Dīkṣā is performed for the sake of Vijñāna- kala and Pralayakala. Sādhāra Dīkṣā is prescribed for the third class of people, the Sakalas.


_______________________________
*3rd word in right half of page 241 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षा न
हुई हो) भास्क. 2.9०.8 (2.3.2 पर)।

दीक्षा स्त्री.
(दीक्ष+अङ्+टाप्) सोमयाग के प्रारम्भ में यजमान की दीक्षा। यह प्रारम्भिक ‘इष्टि’ एवं ‘आहुति’ के बाद सम्पन्न होती है। यजमान को एक परिधान, करधनी के रूप में बाँधने के लिए मूँज से निर्मित एक मेखला, शिरोवस्त्र के रूप में एक वस्त्र-खण्ड, एक दण्ड तथा बैठने के लिए एक मृगचर्म। उसकी (यजमान की) पत्नी भी एक योक्त्र एवं बालों का जाल आदि प्राप्त करती है। वह एक के बाद एक कर अपने दोनों हाथों की अंगुलियों को सिकोड़ता है, अन्ततः मुट्ठी बाँध लेता है, सिर का स्पर्श करता है, मृग की सींग से अपने शरीर को खुजलाता है। वह हकलाता है। अध्वर्यु द्वारा दीक्षा की घोषणा की जाती है और वह ब्राह्मण कहा जाता है उसकी चाहे जो भी जाति हो, बौ.श्रौ.सू. 1०.7.9; बौ.श्रौ.सू. 6.5; आप.श्रौ.सू. 8.11-15; दो दीक्षा- दिन, आप.श्रौ.सू. 1०.19.1.

"https://sa.wiktionary.org/w/index.php?title=दीक्षा&oldid=478687" इत्यस्माद् प्रतिप्राप्तम्