सामग्री पर जाएँ

दीक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षितः, त्रि, (दीक्ष + कर्त्तरि क्तः । यद्बा, दीक्षा सञ्जाता अस्येति । तारकादित्वात् इतच् ।) सोमपानविशिष्टयागकर्त्ता । यथा । स सोम- वति दीक्षितः । इत्यमरः । २ । ७ । ८ ॥ “स व्रती सोमपानवति अध्वरे यजमानः सन् दीक्षित उच्यते । अन्यत्राप्युपचारात् । दीक्ष मौण्ड्ये- ज्योपनयनव्रतादेशेषु क्तः दीक्षाशब्दादितो वा ।” इति तट्टीकायां भरतः ॥ * ॥ गुरुमुखाद्- गृहीतमन्त्रः । यथा, -- “अदीक्षिता ये कुर्व्वन्ति जपपूजादिकाः क्रियाः । न भवन्ति प्रिये ! तेषां शिलायामुप्तबीजवत् ॥ देवि ! दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः । तस्मात् सर्व्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ॥ अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत् ॥” इति तन्त्रसारः ॥ * ॥ काम्पिल्लनगरस्थयज्ञदत्तनामकव्राह्मणः । यथा, “आसीत् काम्पिल्लनगरे सोमयाजिकुलोद्भवः । दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदाः ॥ वेदवेदाङ्गवेदार्थवेदोक्ताचारचञ्चुरः । राजमान्यो बहुघनो वदान्यः कीर्त्तिभाजनः ॥ अग्निशुश्रूषणरतो वेदाध्वयनतत्परः ॥” इति स्कान्दे काशीखण्डे गन्धवत्यलकावर्णनं नाम १३ अध्यायः ॥ * ॥ (स्वीकृतदीक्षः । यथा, महाभारते । २ । ७३ । १ । “ततः पराजिताः पार्था वनवासाय दीक्षिताः । अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षित पुं।

सोमयाजिः

समानार्थक:दीक्षित,सोमपीथिन्,सोमप,धर्म

2।7।8।1।3

यष्टा च यजमानश्च स सोमवति दीक्षितः। इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान्.।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षित¦ त्रि॰ दीक्ष--कर्त्तरि क्त दीक्षा जाताऽस्य तार॰ इतच्वा।

१ सोमादियागाङ्गव्रतभेदधारिणि

२ संजाततन्त्रीक्तदीक्षे च दीक्षाशब्दे उदा॰।
“वर्णानां ब्राह्मणश्चासि विप्रेणदीक्षितो द्विजः” भा॰ अनु॰

९१

८ श्लो॰
“अवाच्यो दीक्षितोनाम्ना यवीयानपि यो भवेत्। भोभवत्पूर्वकन्त्वेनम-मिभाषेत धर्मवित्”
“नाक्रामेत् कामतश्छायां वभ्रुणोदीक्षितस्य च” मनुः।

३ काम्पिल्लनगरस्थविप्रभेदे तत्कथा
“आसीत् काम्पिल्लनगरे सोमयाजिकुलोद्भवः। दी-क्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः। वेदवेदाङ्गवे{??}र्थवेदोक्ताचारचञ्चुरः। राजमान्यो बहुधनो वदान्यःकीर्तिभाजनम्। अग्निशुश्रूषणरतो वेदाध्ययनतत्परः” काशीख॰

१३ अ॰। स दीक्षितः अयनं यस्याः गौरा॰ङीष्। दीक्षितायनी तत्पत्न्यां स्त्री
“महापतिव्रतां सम्यक्पत्नीं प्रोवाच तामथ। दीक्षितायनि! कुत्रासि क्व तेगुणनिधिः सुतः। अथ तिष्ठतु किन्तेन क्व सा ममशुभोर्मिका। अङ्गोद्वर्तनकाले या त्वया मेऽङ्गुलितोहृता। नवरत्नमयीं शीघ्रं तामानीय प्रयच्छ मे। इतिश्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी” काशीख॰

१३ अ॰ यज्ञमात्रे

४ संजातदीक्षे च।
“संग्रामाध्वर-दीक्षितो नरपतिः पत्नी गृहीतव्रता” वेणीसं॰
“दीक्षितोन ददाति” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षित¦ mfn. (-तः-ता-तं)
1. Initiated.
2. Performed, (as the Diksha cere- mony.)
3. One by whom the preparatory ceremonies have been observed. m. (-तः)
1. An assemblage of priests for peculiar cere- monies, or for any sacrifice.
2. The pupil or an ascetick. E. दीक्ष् to perform a sacrifice or to be initiated, affix कर्त्तरि क्त or दीक्षा जाता अस्य तार० इतच् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षित [dīkṣita], p. p. [दीक्ष् कर्तरि क्त, दीक्षा जाता$स्य तार˚ इतच् वा]

Consecrated, initiated (as for a religious ceremony); एते विवाहदीक्षिता यूयम् U.1; Pt.1.167; आपन्ना- भयसत्रेषु दीक्षिताः खलु पौरवाः Ś.2.17; R.8.75;11.24, Ve. 1.25.

Prepared for a sacrifice.

Prepared for, having taken a vow of; तं पितुर्वधभवेन मन्युना राजवंश- निधनाय दीक्षितम् R.11.67.

Crowned; पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् R.4.5.

Performed (as the दीक्षा ceremony).

तः A priest engaged in a Dīkṣā; नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः Rām.3.65.12.

A pupil.

A person who or whose ancestors may have performed a grand sacrificial ceremony, such as ज्योतिष्टोम.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षित mf( ईGopBr. i , 5 , 24 )n. consecrated , initiated into( dat. loc. instr. , or comp. ) AV. TS. Br. S3rS. Mn. MBh. etc.

दीक्षित mf( ईGopBr. i , 5 , 24 )n. prepared , ready for( dat. instr. or comp. ) MBh. R. ( तं-कृ, to initiate , instruct Katha1s. xx , 198 )

दीक्षित mf( ईGopBr. i , 5 , 24 )n. performed (as the दीक्षाceremony) W.

दीक्षित m. a priest engaged in a -D दीक्षा(592731 -त्वn. Jaim. )

दीक्षित m. a pupil of (affixed , and rarely prefixed to the N. of a teacher , and given as a N. to a Brahman to denote his being a pupil of that -tteacher e.g. भट्टोजि-, शं-कर-; sometimes the teacher's N. is dropped and -D दीक्षाis used alone).

"https://sa.wiktionary.org/w/index.php?title=दीक्षित&oldid=294909" इत्यस्माद् प्रतिप्राप्तम्