दीर्घ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीर्घम्, त्रि, (दृणातीति । दॄ विदारणे + बाहुल- कात् घङ् ।) आथतम् । इत्यमरः । ३ । १ । ६९ । (यथा मेघदूते । १०३ । “दीर्घोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्त्ती सङ्कल्पैस्ते विशति विधिना वैरिणा रुद्ध- मार्गः ॥”)
दीर्घः, पुं, (दॄ + बाहुलकात् घङ् ।) लताशाल- वृक्षः । (यथा, वैद्यकरत्नमालायाम् । “तार्क्ष्योऽश्वकर्णः कुशिको बल्यो दीर्घो लता- द्रुमः ॥”) इत्कटः । इति रत्नमाला ॥ रामशरः । उष्ट्रः । इति राजनिर्घण्टः ॥ पञ्चमषष्ठसप्तमाष्टमराशयः । यथा । वृश्चिककन्यामृगपतिवणिजो दीर्घाः । इति ज्योतिषतत्त्वम् ॥ द्विमात्रवर्णः । तद्यथा । आ ई ऊ ॠ ए ऐ ओ औ । गुरुवर्णः । इति व्याकरणम् ॥ (दीर्घलक्षणं यथा, -- “एकमात्रो भवेद्ध्रस्वो द्बिमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनञ्चार्द्धमात्रकम् ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीर्घ वि।
दीर्घम्
समानार्थक:दीर्घ,आयत
3।1।69।1।4
दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्. वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्.।
पदार्थ-विभागः : , गुणः, परिमाणः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीर्घ¦ पु॰ दॄ--विदारे बा॰ घङ् घस्य नेत्त्वम्।
१ आयते (लम्बा)परिमाणभेदयुते दीर्घत्वञ्च परिमाणभेदे इति क-णादाः महत्त्वावान्तरभेद इति सांख्याः। तथा हिकणाद सू॰ उपस्क रवृत्तौ च परिमाणसत्तां व्यवस्थाप्यमकारणं महत्त्वादिकं व्यवस्थापितं यथा
“अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते” सू॰।
“नित्ये इति विषयेण विषयिणं नित्यत्वप्रतिपादकं चतु-र्थाध्यायमुपलक्षयति उपलब्ध्यनुपलब्धी इति यथायोगम-न्वयः
“येन यस्याभिसम्बन्धो दूरस्थस्यापि तस्य सः” न्यायात्तदेवं स्थूलो नीलः कलस इति प्रात्यक्षिकप्रत्यये यथानीलं रूप विषयस्तथा परिमाणमपि तेन च परिमाणेनपरमाणुपर्य्यन्तं परिमाणमुन्नीयते द्रव्यत्वाच्च किञ्च द्रव्य-पत्यक्षतायां रूपवत् परिमाणमपि कारणं न हिमहत्त्वमन्तरेण द्रव्यं प्रत्यक्षं भवति तथाच द्रव्यप्रत्यक्ष-कारणत्वेन स्वयञ्च प्रत्यक्षतया परिमाणं गुणोऽस्तीतिनिश्चीयते, यदि हि घटादिस्वरूपं परिमाणं स्यात् तदामहदानयेत्युक्ते घटमात्रमानयेत् तथा च प्रैषसंप्रतिपत्तीविरुद्ध्येयातामु एवं घटपदात् परिमाणं प्रतीयेत परि-माणपदाद्वा घट इति। मानव्यवहारासाधारणकारणत्वंद्रव्यसाक्षात्कारकारणविषयनिष्ठसामान्यगुणत्वंवा भहत्त्वत्वंमानव्यवहारोऽत्र हस्तवितस्त्यादिव्यवहारो न तु पल-सङ्ख्यादिव्यवहारः। तच्च परिमाणञ्चतुर्विधं महत्त्वमणुत्वंदीर्घत्वं ह्रस्वत्वञ्च, तत्र परममहत्त्वपरमदीर्घत्वे विभु-चतुष्टयवर्त्तिनी परमाणुत्वपरमह्रस्वत्वे परमाणुवर्त्तिनीअवान्तराणुत्वावान्तरह्रस्वत्वे द्व्यणुकवर्तिनी त्रसरेणुमारभ्यमहावयविपयेन्तं महत्त्वदीर्घत्वे,। एवञ्च सर्वाण्यपिद्रव्याणि परिमाणद्वयवन्ति। विल्वामलकादावणुत्वव्यव-हारःसमिदिक्षुदण्डादिषु च ह्रस्वत्वव्यवहारोभाक्तः,भक्तिश्चात्र प्रकर्षभावाभावः। आमलके यः प्रकर्षभावस्त-स्याभावः कुबले, विल्वे यः प्रकर्षभावस्तस्याभाव आम-[Page3610-b+ 38] लके, स च गौणमुख्योभयभागित्वाद्भक्तिप{??}वाच्यःदीर्घत्वह्रस्वत्वे नित्ये न वर्तेते इत्येके, परिमाणे एवते न भवत इत्यपरे, महत्सु दीर्घमानीयतामितिवत्महत्सु वर्तुलं त्रिकोणञ्चानीयतामिति निर्धारणबला-द्वर्तुलत्वादीनामप्यापत्तेरिति तेषामाशयात्। इदानींपरिमाणकारणानि परिसञ्चष्टे” उप॰ वृ॰।
“कारणबहुत्वाच्च” सू॰
“चकारोमहत्त्वप्रचयौ समुच्चिनोति, परिमाणमुत्पद्यतेइति सूत्रशेषः, तत्र कारणबहुत्वं केवलं त्र्यणुके मह-त्त्वदीर्घत्वे जनयति महत्त्वप्रचययोस्तत्कारणेऽभावात् तच्चवहुत्वमीश्वरापेक्षाबुद्धिजन्यं तद्बुद्धेरनेकविषयत्वेऽप्य-दृष्टविशेषोपग्रहोनियामकः। एवं परमाणुद्वयगतं द्वित्वंद्व्यणुके परिमाणोत्पादकं वक्ष्यते द्वाभ्यां तन्तुभ्यामप्रचि-ताभ्यामारब्धे पटे केवलं महत्त्वमेवासमवायिकारणं बहुत्वप्रचययोस्तत्राभावात्। यत्र च द्वाभ्यां तूलकपिञ्जाभ्यांतूलकपिञ्जारम्भस्तत्र परिमाणोत्कर्षदर्शनात् प्रचयः का-रणं बहुत्वस्याभावात् महत्त्वस्य सत्त्वेऽपि परिमाणो-त्कर्षं प्रत्यप्रयोजकत्वात्। एवञ्च सति यदि महत्त्वं तत्रकारणं तदा न दोषः तदुक्तम्
“द्वाभ्यामेकेन सर्वैर्वा” इति। प्रचयश्च आरम्भकः संयोगः, स च स्वाभिमुख-किञ्चिदवयवासंयुक्तत्वे सति स्वाभिमुखकिञ्चिदवयवसं-योगलक्षणः, स चावयवसंयोगः स्वावयवप्रशिथिलसंयो-गापेक्षः परिमाणजनकः गुणकर्मारम्भे सापेक्ष इतिवचनात्” उप॰ वृ॰।
“एतेन दीर्घत्वह्रस्वत्वे व्याख्याते” सू॰
“अणुत्वमहत्त्व-प्रक्रियां दीर्घत्वह्रस्वत्वयोरतिदिशति। ह्रस्वत्वदीर्घत्वेअपि न ह्रस्वत्वदीर्घत्ववती। महत्त्वोत्पादकमेव दीर्घत्वो-त्पादकमणुत्वोत्पादकमेव ह्रस्वत्वोत्पादकम्, कारणैक्यात्कथं कार्य्यभेद इति चेन्न प्रागभावभेदेन पाकजवदुपपत्तेःयत्रैव महत्त्वं तत्र दीर्घत्वं यत्राणुत्वं तत्र नित्यं ह्रस्वत्व-मित्याद्यतिदेशार्थः” उप॰ वृ॰।
“अनित्येऽनित्यम्” सू॰।
“इदानीं विनाशकमाह एतच्चतुर्विधमपि परिमाणंविनाशिनि द्रव्ये वर्त्तमानमाश्रयनाशादेव नश्यति न तुविरोधिगुणान्तरात्। घटे सत्यपि तत्परिमाणं विनश्यतिकथमन्यथा कम्बुभङ्गेऽपि स एवायं घट इति प्रत्यभि-ज्ञेति चेन्न आश्रयनाशेन तत्र वटनाशावश्यकत्वात्न हि परमाणुद्वयसंयोगनाशाद् द्व्यणुके नष्टे तदा-श्रितस्य त्रसरेणोस्तदाश्रितस्य चूर्णशर्करादेरविनाश इतियुक्तिरभ्युपगमो वा, कथं तर्हि प्रत्यभिज्ञेति चेत्,[Page3611-a+ 38] सैवेयं दीपकलिकेति प्रत्यभिज्ञानवद्भ्रान्तित्वात्। प्रदी-पप्रत्यभिज्ञाऽपि प्रमैव, ह्रस्वत्वदीर्घत्वे परमुत्पादविनाशशालिनी इति चेन्न तद्विनाशस्याश्रयविनाशमन्तरेणानुप-पत्तेरुक्तत्वात्। तत् किं पार्थिवपरमाणुरूपादिवत्परमाणुगतमणुत्वं शब्दबुद्ध्यादिवदाकाशादिगतं महत्त्व-मपि नश्यतीत्यत आह उप॰ वृ॰।
“नित्ये नित्यम्” सू॰
“नित्येष्वाकाशादिषु परमाणुषु च यत् परिमाणंतन्नित्यंविनाशकाभावात्” उप॰ वृ॰। सांख्यसूत्रभाष्ययोस्तु परिमाणद्वैविध्यं व्यवस्थापितं यथा(
“न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात्” सू॰।
“अणु महद्दीर्घं ह्रस्वमिति परिमाणचातुर्विध्यं नास्ति। द्वैविध्यं तु वर्त्तत एव द्वाभ्यां तद्योगात् द्वाभ्या-मेवाणुमहत्परिमाणाभ्यां चातुर्विध्यसम्भवादित्यर्थः। महत्परिमाणस्यावान्तरभेदावेव हि ह्रस्वदीर्घौ। अन्यथाक्रवादिरूपैः परिमाणानन्त्यप्रसङ्गादिति। तत्रास्मन्नयेऽ-णुपरिमाणमाकाशस्य कारणं गुणविशेषं वर्जयित्वा भूते-न्द्रियाणां मूलकारणेषु सत्त्वादिगुणेषु मन्तव्यम्। अन्यवयथायोग्यं मध्यमादिपरममहत्त्वान्तपरिमाणानि तानिच महत्त्वस्यैवावान्तरभेदा इति”। दीर्घत्वे कारणञ्च पार्श्वतीयोजितायवबाहुल्यादिकम् स्थूलत्वेतु ऊर्द्धाधःस्थितावयवबाहुल्यादिकमिति भेदः। कालस्यदीर्घत्वप्रजोजकं तदुपाधेर्बहुकालस्थायित्वं तदभिप्रेत्यैव
“दीर्घकालनैरन्तर्य्यादरसेवितात्” योगशास्त्रे
“दीर्घयामात्रियामा” इति काव्ये च प्रयोगः।
२ व्याकरणपरिभाषितेद्विमात्रकालेनोच्चार्ये (आ ई ऊ) प्रभृतौ वर्णे च।
“ऊकालोऽजह्रस्वदीर्घप्लुतः” पा॰
“एकमात्रो भवेद्ह्रस्वो द्विमात्रो दीर्घ उच्यते। त्रिमात्रस्तु प्लुतोज्ञेयो व्यञ्जनं चार्द्धमात्रकम्” शिक्षा।
“गुहानिवद्ध-प्रतिशब्ददीर्घम्” रघौ शब्दस्य गुणत्वेऽपि दीर्घत्वं बहु-कालस्थायित्वेन भाक्तम्। एवं
“हृदयकुसुमशोषी दा-रुणोदीर्घशोकः”
“सा दीर्घं रोदिति विक्षिपत्यत इतःक्षामा भुजाबल्लरीम्” सा॰ द॰ शोकरोदनयोर्दीर्घत्वं बहु-कालस्थायित्वाद् भाक्तमेव।
३ लताशालवृक्षे
४ इत्कटे पु॰रत्नमाला।
५ रामशरे पु॰
६ उष्ट्रे पुंस्त्री॰ राजनि॰ स्त्रियांजातित्वात् ङीष्।
“वृश्चिककन्यामृगपतिबणिजो दीर्घाः” ज्यो॰ त॰ उक्तेषु
७ सिंहकन्यातुलावृश्चिकराशिषु पु॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीर्घ¦ mfn. (-र्घः-र्घा-र्घं) Long, applied either to space or time. m. (-र्घः)
1. The Sal tree.
2. A long vowel.
3. The 5th, 6th, 7th or 8th sign of the zodiac. E. दॄ to divide or send, affix घञ् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीर्घ [dīrgha], a. (Compar. द्राघीयस्, Superl. द्राघिष्ठ)
Long (in time or space), reaching far; दीर्घाक्षं शरदिन्दुकान्ति वदनम् M.2.3; दीर्घान् कटाक्षान् Me.37; दीर्घापाङ्ग &c.
Of long duration, lasting long, tedious; दीर्घयामा त्रियामा Me.11; V.3.4; Ś.4.15.
Deep (as a sigh); Amaru.13; दीर्घमुष्णं च निश्वस्य.
Long (as a vowel), as the आ in काम.
Lofty, high, tall.
Dilated, expanded; तृष्णादीर्घस्य चक्षुषः U.3.46.
र्घः A camel.
A long vowel.
The fifth, sixth, seventh, and eighth signs of the zodiac.
A kind of grass or reed. -र्घा A long lake or oblong tank. -र्घम् ind.
Long, for a long time.
Deeply.
Far.
Comp. अध्वगः a messenger, an express.
a camel.-अपेक्षिन् a. very regardful, considerate. -अहन् m. summer (ग्रीष्म). -आकार a. oblong. -आयु a. long-lived. -आयुस्, -आयुष्य a. longlived. (-m.)
a crow.
N. of Mārkaṇḍeya.
आयुधः a spear.
any long weapon.
a hog. -आस्यः an elephant. -कणा white cumin. -कण्ठः, -कण्ठकः, -कन्धरः the (Indian) crane.-काय a. tall (in stature). -काष्ठम् a beam. -केशः a bear. -कोशा, -शी, -कोशिका a cockle. -गतिः, -ग्रीवः, -घाटिकः a camel. -चतुरस्रः an oblong. -छदः sugarcane. -जङ्गलः a. kind of fish.
जङ्घः a camel.
a crane. -जिह्वः a snake, serpent. -तपस् m. an epithet of Gautama, husband of Ahalyā; येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ R.11.33. -तमस् m. N. of a Vedic and paurānic sage; ऋषिर्दीर्घतमा नाम जात्यन्धो गुरुशापितः । त्वत्प्रसादाच्च चक्षुष्मांस्तेन सत्येन मोक्षय Hariv. -तरुः, -द्रुः the palm tree. -तुण्डी musk-rat (also दीर्घतुण्डा).
दण्डः the palm tree.
the castor oil tree. -दर्शन a. far-seeing, sagacious, wise; प्रियः प्रियाया इव दीर्घदर्शनः Bhāg.1.29.2.-दर्शिन् a
provident, prudent, far-seeing, longsighted; न दीर्घदर्शिनो यस्य मन्त्रिणः स्युर्महीपतेः । क्रमायाता ध्रुवं तस्य न चिरात्स्यात्परिक्षयः ॥ Pt.3.195.
sagacious, wise.
knowing the past and future (भूतभविष्यज्ञानी); अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः Rām.7.74.11. (-m.)
a vulture.
a bear.
an owl. -दृष्टि a. far-sighted, shrewd, prudent. -द्वेषिन् cherishing long hatred, implacable.-नाद a. making a long continued noise.
(दः) a dog.
a cook.
a conch shell.
निद्रा long sleep.
the long sleep, sleep of death; R.12.81. सो$द्य मत्कार्मुकाक्षेपविदीपितदिगन्तरैः । शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति ॥ Mārk. P. -पक्षः the fork-tailed shrike. -पत्रः the palm tree.
पत्रकः sugar-cane.
a kind of garlic. -पर्वन्m. a sugar-cane. -पवनः an elephant. -पादः, -प (पा) द् m. a heron.
पादपः the cocoa-nut tree.
the areca-nut tree.
the palm tree. -पुच्छः a serpent.-पुच्छिका an iguana (Mar. घोरपड). -पृष्ठः a snake.-प्रज्ञ a far-seeing, prudent, sagacious. -बाला a kind of deer (चमरी) of whose tails chowries are made. -बाहुःa. having long arms; दीर्घबाहुर्दिलीपस्य रघुर्नाम्नाभवत्सुतः Hariv. -मारुतः an elephant. -मुखी the musk-rat -मूलः a kind of Bilva plant. -यज्ञ a. performing sacrifices for a longer time; अयोध्यायां तु धर्मज्ञं दीर्घयज्ञं महाबलम् Mb.-रङ्गा turmeric.
रतः a dog.
a hog; L. D. B.-रदः a hog. -रसनः a snake. -रोमन् m. a bear.-लोहितयष्टिका the red variety of sugar-cane. -वक्त्रः an elephant. -वच्छिका a shark; crocodile; also वर्चिका.-सक्थ a. having long thighs. -सत्रम् a long-continued Soma sacrifice. (-त्रः) one who performs such a sacrifice; R.1.8. -सुरतः a dog. -सूत्र, -सूत्रिन् a. working slowly, slow, dilatory, procrastinating; दीर्घसूत्री विनश्यति Pt.4. विषादी दीर्घसूत्री च कर्ता तामस उच्यते Bg.18.28.-स्कन्धः the palm tree.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीर्घ mf( आ)n. ( compar. द्राघीयस्, superl. द्राघिष्ठ[qq. vv.] ; rarely दीर्घतर[ Pan5c. iv , 13/14] and तम[ BhP. vii , 5 , 44 ]) long (in space and time) , lofty , high , tall
दीर्घ mf( आ)n. deep RV. AV. Br. etc.
दीर्घ mf( आ)n. long (in prosody) Pra1t. Mn. etc.
दीर्घ m. along vowel Gobh. ii , 8 , 15 Ka1tyS3r. etc.
दीर्घ m. a camel L.
दीर्घ m. Saccharum Sara
दीर्घ m. Shorea Robusta= उत्कट, राम-शरetc. L.
दीर्घ m. a mystical N. of the letter अUp.
दीर्घ m. the 5th or 6th or 7th or 8th sign of the zodiac Jyot.
दीर्घ m. N. of a prince of मगधMBh. i , 4451
दीर्घ m. of शिवMBh. xiii , 1158
दीर्घ m. a kind of plant= -पत्त्राL.
दीर्घ m. a mystical N. of the letter न्Up.
दीर्घ n. a species of grass L.
दीर्घ n. N. of a सामन्A1rshBr. [Fr. द्राघ्; cf. also Gk. ? ; Sl. dlu8gu8.]
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
DĪRGHA : A king of Magadha. He was killed by Pāṇḍu. (M.B. Ādi Parva, Chapter 112, Verse 27).
_______________________________
*6th word in left half of page 243 (+offset) in original book.