दीर्घसूत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दीर्घसूत्रः, त्रि, (दीर्घेण बहुकालेन सूत्रं कार्य्या- रम्भो यस्य ।) चिरक्रियः । इत्यमरः । ३ । १ । १७ ॥ “अदीर्घसूत्रश्च भवेत् सर्व्वकर्म्मसु पार्थिवः । दीर्घसूत्रस्य नृपतेः कर्म्महानिर्ध्रुवं भवेत् ॥ रागे द्वेषे च कामे च द्रोहे पापे च कर्म्मणि । अप्रिये चैव कर्त्तव्ये दीर्घसूत्रश्च शस्यते ॥” इति मत्स्यपुराणम् ॥ (आयततन्तुकम् । यथा, माघे । १० । ६१ । “मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत् परिधानम् ॥”) विस्तृते तन्तौ, क्ली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दीर्घसूत्र वि।

आलस्ययुक्तः

समानार्थक:दीर्घसूत्र,चिरक्रिय

3।1।17।1।3

खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः। जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दीर्घसूत्र¦ त्रि॰ दीर्घेण चिरकालेन सूत्रमीप्सितव्यापारो यस्य।

१ चिरकालेन प्रारब्धकर्म्मानुष्ठातरि अमरः।
“दीर्घमूत्रस्यआपत्प्राप्तिरितिहासमुखेन” भा॰ शा॰

१३

७ अ॰ दर्शिता तथा
“अनागतविधाता च प्रत्युत्पन्नमतिश्च यः। द्वावेवमुखमेधेते दीर्घसूत्रो विनश्यति। अत्रैव चेदमव्यग्रंशृणुष्वाख्यानमुत्तमम्। दीर्घसूत्रमुपाश्रित्य कार्य्याकार्य्यविनिश्चये। नातिगाधे जलाधारे सुहृदः शकुनास्त्रयः। प्रभूतमत्स्ये कौन्तेय! बभूवुः सहचारिणः। तत्रैकोदीर्घकालज्ञ उत्पन्नप्रतिभोऽपरः। दीर्घसूत्रश्च तत्रैक-स्त्रयाणां सहचारिणाम्। कदाचित् तं जलाधारंमत्स्यबन्धाः समन्ततः। निःस्रावयामासुरथो निम्नेषुविविधैर्मुखैः। प्रक्षीयमाणं तं दृष्ट्वा जलाधारं मयागमे। अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा। इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम्। शीघ्रमन्यत्र गच्छामःपन्था यावन्न दुष्यति। अनागतमनर्थं हि सुनयैर्य्यःप्रबाधयेत्। स न संशयमाप्नोति रोचतां भो व्रजामहे। दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत् सम्यगुष्यते। न तु कार्य्यात्वरा तावदिति मे निश्चिता मतिः। अथ सम्प्रतिपत्तिज्ञःप्राब्रवीद्दीर्घदर्शिनम्। प्राप्ते काले न मे किञ्चि-न्न्यायतः परिहास्यते। एवं श्रुत्वा निरक्रामद्दीर्घ-दर्शी महामतिः। जगाम स्रोतसा तेन गम्भीर{??}[Page3615-a+ 38] सलिलाशयम्। ततः प्रस्रुततोयन्तं प्रसमीक्ष्य जला-शयम्। वबन्धुर्वविधैर्योगैर्मत्स्यान् मत्स्यीपजीविनःविलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये। अगच्छ-द्बन्धनं तत्र दीर्घसूत्रः सहापरैः। उद्दाने क्रियमाणेतु मत्स्यानां तत्र रज्ज्वुभिः। प्रविश्यान्तरमेतेषां स्थितःसम्प्रतिपत्तिमान्। गृह्यमेव तदुद्दानं गृहीत्वा तं तथैवसः। सर्वानेव च तांस्तत्र ते विदुर्ग्रथितानिति। ततःप्रक्षाल्यमाणेषु मत्स्येषु विपुले जले। मुक्त्वा रज्ज्वुंप्रमुक्तोऽसौ शीघ्रं सम्प्रतिपत्तिमान्। दीर्घसूत्रस्तुमन्दात्मा हीनबुद्धिरचेतनः। मरणं प्राप्तवान् मूढोयथैवोपहतेन्द्रियः। एवं प्राप्ततमं कालं यो मोहा-न्नावबुध्यते। स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथाझषः। आदौ न कुरुते श्रेयः कुशलोऽस्मीति यःपुमान्। स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान्। अनागतविधाता च प्रत्युत्पन्नमतिश्च यः। द्वावेव सुखमे-धेतेदीर्घसूत्रो विनश्यति” कर्म॰।

२ दीर्घे सूत्रे न॰।

६ ब॰।

३ दीर्घतन्तुके त्रि॰
“दीर्घसूत्र मकरोत् परिधानम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दीर्घसूत्र¦ mfn. (-त्रः-त्रा-त्रं) Dilatory, slow, tedious. E. दीर्घ long, and सूत्र line or thread. दीर्घेण चिरकालेन सूत्रम् ईप्सितव्यापारो यस्य | [Page344-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दीर्घसूत्र/ दीर्घ--सूत्र mfn. " spinning a -llong yarn " , slow , dilatory , procrastinating MBh. R. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Dīrghasūtra  : adj.: ‘One who procrastinates’.

One of the three fishes of the Śakula type is so characterized (the other two being prāptakālajña and dīrghadarśin) 12. 135. 3, 2.

[See Śakula]

_______________________________
*1st word in left half of page p31_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=दीर्घसूत्र&oldid=445474" इत्यस्माद् प्रतिप्राप्तम्