दुःख

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःख, त् क तत्कृतौ । इति कविकल्पद्रुमः ॥ (अदन्त चुरां-परं-सकं-सेट् ।) विसर्गमध्यः । “काले तडिल्लताजाले घनपीनपयोधरे । कान्तः सर्व्वगुणोपेतो बालेन्दुः खे न लभ्यते ॥” इति विन्दुच्युतकम् । अस्यार्थः । तडिल्लतासमूह- वति घनस्थूलमेधे काले कमनीयः सर्व्वगुणोपेतो बालेन्दुः खे आकाशे न लभ्यते पक्षे हे बाले सर्व्वगुणोपेतः कान्तः पतिर्दुःखेन लभ्यते । दुःख- यति दुःखापयति । मूर्द्धन्यषमध्यः । इति केचित् । तत्कृतिर्दुःखकरणम् । इति दुर्गादासः ॥

दुःखम्, क्ली, (दुर् दुष्टं खनतीति । खन + डः । यद्वा, दुःखयतीति । दुःख + पचाद्यच् ।) संसारः । इति त्रिकाण्डशेषः ॥ (रोगः । यथा, भावप्रकाशे अर्शोरोगाधिकारे । “भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ॥” “दुःखै रोगैः ।” इति तट्टीका ॥) मनोधर्म्म- विशेषः । न्यायमते आत्मगुणभेदः । तत् अधर्म्म- जन्यं सचेतसां प्रतिकूलम् । इति भाषापरि- च्छेदः ॥ तत्पर्य्यायः । पीडा २ वाधा ३ व्यथा ४ अमानस्यम् ५ प्रसूतिजम् ६ कष्टम् ६ कृच्छ्रम् ८ आभीलम् ९ । इत्यमरः । १ । १० । ३ ॥ अर्त्तिः १० आर्त्तिः ११ पीडनम् १२ अवाधा १३ वाध- नम् १४ आमनस्यम् १५ आमानस्यम् १६ विवा- धनम् १७ पीडितम् १८ विहेठनम् १९ । इति शब्दरत्नावली ॥ * ॥ “सुखं दुःखञ्च हर्षञ्च शोकञ्च मङ्गलालयम् । मया दत्तञ्च तत्त्वञ्च योगिनामपि दुर्लभम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ * ॥ (दुःखन्तु आध्यात्मिकाधिदैविकाधिभौतिकभेदात् त्रिविधम् । यदुक्तं तत्त्वकौमुद्याम् । “दुःख- त्रयाभिघातात् ।” इति । “दुःखानां त्रयं दुःखत्रयं तत् खलु त्रिविधं आध्यात्मिकमाधिभौतिकमाधिदैविकञ्च । तत्र आध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं कामक्रोधलोभमोहभयेर्षाविषादविषयाविशेषा- दर्शननिबन्धनम् । सर्व्वं चैतदान्तरोपायसाध्यत्वा- दाध्यात्मिकं दुःखम् । वाह्योपायसाध्यञ्च दुःखं द्वेधा आधिभौतिकमाधिदैविकञ्च । तत्र आधि- भौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं यक्षराक्षसविनायकग्रहावेश- निबन्धनम् । तदेतत्प्रत्यात्मवेदनीयं दुःखं रजः- परिणामभेदी न शक्यते प्रत्याख्यातुम् । तदनेन दुःखत्रिकेणान्तः करणवर्त्तिना चेतनाशक्तेः प्रति- कूलतयाभिसम्बन्धोऽभिघातः इति । एतावता प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः ॥”) “दुःखमेवं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ! । उचितेनोपचारेण दुःखं मोक्षविनाशनम् ॥ अहङ्कारकृतो नित्यं नरो मोहेन चावृतः । ये मां नैव प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥ सर्व्वाशी सर्व्वविक्रेता नमस्कारविवर्ज्जितः । ये च मां न प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥ सर्व्वान्नानि तु सिद्धानि पाकभेदन्तु कारयेत् । अवैश्वदेवं नरोऽश्नन्ति तत्र दुःखतरन्नु किम् ॥ प्राप्तकाले वैश्वदेवे दृष्टमतिथिमागतम् । अदत्त्वा तस्य यो भुड्क्ते तत्र दुःखतरन्नु किम् ॥ असन्तुष्टस्तु वैषम्ये परदाराभिमर्द्दकः । परोपतापी मन्दात्मा तत्र दुःखतरन्नु किम् ॥ अकृत्वायुर्ब्बलं कर्म्म गृहे संवसते नरः । मृत्युकालवशं प्राप्तस्तत्र दुःखतरन्नु किम् ॥ हस्त्यश्वरथयानानि गच्छमानानि पश्यति । न वै तस्याग्रतः पृष्ठे तत्र दुःखतरन्नु किम् ॥ अश्नन्ति पिशितं केचित् घृतशालिसमन्वितम् । शुष्कान्नं केचिदश्नन्ति तत्र दुःखतरन्नु किम् ॥ वरवस्त्रावृतां शय्यां समासेवन्ति भूषिताः ॥ केचित् तृणेषु शेरन्ते ततो दुःखतरन्नु किम् ॥ विद्बान् कृती गुणज्ञश्च सर्व्वशास्त्रविशारदः । केचिन्मूकात्र दृश्यन्ते तत्र दुःखतरन्नु किम् ॥ विद्यमाने वने केचित् कृपणा भोगवर्जिताः । दरिद्रो जायते दाता तत्र दुःखतरन्नु किम् ॥ पुरुषस्य द्वये भार्य्ये तयोरेकां प्रशंसयेत् । एकापि दुर्भगा तत्र ततो दुःखतरन्नु किम् ॥ लब्ध्वा तु मानुषीं संज्ञां पञ्चभूतसमन्विताम् । मामेव न प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥ लब्ध्वा ब्राह्मणभावन्तु त्रयो वर्णाः सुमध्यमे ! । पापकर्म्मरता ह्यासंस्ततो दुःखतरन्नु किम् ॥ एतत्ते कथितं भद्रे ! दुःखकर्म्म विनिश्चयम् । सर्व्वभूतहितार्थाय यत्त्वया परिपृच्छ्यते ॥” इति वराहपुराणम् ॥ * ॥ दुःखदानि यथा, -- पारतन्त्र्यम् १ आधिः २ व्याधिः ३ मानच्युतिः ४ शत्रुः ५ कुभार्य्या ६ नैःस्वम् ७ कुग्रामवासः ८ कुस्वामिसेवनम् ९ बहुकन्या १० वृद्धत्वम् ११ परगृहवासः १२ वर्षाप्रवासः १३ भार्य्याद्वयम् १४ कुभृत्यः १५ दुर्हलकरणककृषिः १६ । इति कविकल्पलता ॥ (तद्बिशिष्टे, त्रि । इत्यमरः । १ । ४ । २६ ॥ यथा, हरिवंशे । २२३ । ४९ । “सुसुखा न च दुःखा सा न शीता नच घर्म्मदा ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःख नपुं।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

1।9।3।2।4

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःख¦ दुःखकरणे कण्ड्रा॰ पर॰ अक॰ सेट्। दुःख्यति अदुः-ख्यीत् अदुःखीत्।

दुःख¦ तत्क्रियायाम् अद--चु॰ उभ॰ अक॰ सेट्। दुःखयति ते अदुदुःखत् त।

दुःख¦ न॰ दुष्टानि खानि यस्मिन्, दुष्टं खनति खन--ड,दुःख--अच् वा। सांख्यादिमतसिद्धे प्रतिकूलवेदनीये रजःकार्ये

१ चित्तादिधर्मभेदे। न्यायमते

२ आत्मधर्मभेदे
“बुद्ध्या-दिषट्कं संख्यादिपञ्चकं भावना तथा। धर्म्माधर्म्मौ गुणाएते आत्मनः स्युश्चतुर्दश। अधर्मजन्यं दुःखं स्यात् प्रति-कूलं सचेतसाम्” भाषा॰
“अधर्मत्वेन दुःखत्वेन कार्य्य-कारणभावः। प्रतिकूलं, दुःखत्वज्ञानादेव सर्वेषां स्वाभा-विकविषयः प्रतिकूल इत्यर्थः सि॰ मु॰।
“इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्” गौ॰ सू॰
“यज्जातीयस्यार्थस्य सन्निकर्षात् सुखमात्मोपलब्धवान्। तज्जातीयमेवार्थं पश्यन्नुपादातुमिच्छति सेयमादातुमिच्छा एकस्या-नेकार्थदर्शिनीदर्शनप्रतिसन्धनाद् भवति लिङ्गमात्मनः,नियतविषये हि बुद्धिभेदमात्रे न सम्भवति देहान्तर-वदिति। एवमेकस्यानेकार्थदर्शिनोदर्शनप्रतिसन्धानाद्दुः-खहेतौ द्वेषः। यज्जातीयो यस्यार्थः सुखहेतुः प्रसिद्धस्त-ज्जातीयमर्थं पश्यन्नादातुम् प्रयतते, सोऽयम् प्रयत्न एक-मनेकार्थदर्शिनं दर्शनप्रतिसन्धातारमन्तरेण न स्यात्निवतविषये बुद्धिभेदमात्रे न सम्भवति देहान्तरवदितिएतेन दुःखहेतौ प्रयत्नी व्याख्यातः। सुखदुःखस्मृत्याचायं तत्साघनमाददानः सुखमुपलभते दुःखमुपलभतेसुखदुःख वेदयते पूर्वोक्त एव हेतुः” मा॰
“द्वितीयसूत्रभाष्ये च
“दोषैः प्रयुक्तः शरीरेण प्रवर्तमानो हिंसा-स्तेयप्र्तिषिद्धपरद्रोहं परद्रव्याभीप्सा नास्तिक्यञ्चेतिसेयं पापात्मिका प्रवृत्तिरधर्म्माय” उक्तम्। कणा॰ सूत्रे उपस्करवृत्तौ च सुखदुःखयोः परस्परभेदः,ज्ञानाद्भेदश्च साधितो यथा
“इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयो-रथान्तरभावः” सू॰।
“आत्मगुणानां कारणभेदव्युत्पा-दनं दशमाध्यायार्थः, तत्र
“आत्मशरीरेन्द्रियार्थबुद्धि-मनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्” इतिगौतमीये प्रमेयविभागसूत्रे सुखस्यानभिधानात् दुःखा-भिन्नमेव सुखमिति भ्रमनिरासार्थं सुखदुःखयोरेवप्रथमं भेदमाह। सुखदुःखयोर्मिथः परस्परमर्थान्तर-[Page3616-b+ 38] भावोभेदो वैजात्यमिति यावत् कुत इत्यत आह इष्टा-निष्टकारणविशेषात् इष्टम् इष्यमाणं स्रक्चन्दनवनितादिअनिष्टमनिष्यमाणमहिकण्टकादि, तद्रूपं यत्कारणं तस्यविशेषाद्भेदात् कारणवैजात्याधीनं कार्य्यवैजात्यमावश्यकंयतः। भेदकान्तरमाह विरोधात् सहानवस्थानलक्षणात्नह्येकस्मिन्नात्मन्येकदा सुखदुःखयोरनुभवः। चकारा-दनयोः कार्य्यभेदं भेदकं समुच्चिनोति, तथाहि अनुग्रहाभिष्वङ्कनयनप्रसादादि सुखस्य, दैन्यसुखमालिन्यादिदुःखस्य कार्य्यमिति ततोऽप्यनयोर्भेदः। तदुक्तं प्रशस्ता-चार्यैः
“अनुग्रहलक्षणं सुखं स्रगाद्यभिप्रेतविषयसा-न्निध्ये सति इष्टोत्पन्नधीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षा-दात्ममनसीः संयोगाद्यद्यदनुग्रहाभिष्वङ्गनयनादिप्रसा-दजनकमुत्पद्यते तत् सुखम्” इति, तदिदमतीतेषु स्रक्-चन्दनादिषु स्मृतिजम्, अनागतेषु सङ्कल्पजम्, गौतमीयेसूत्रे सुखापरिगणनं वैराग्याय, सुखमपि दुःखत्थेन भा-वयतो वैरास्यं स्यादेतदर्थमिति” उप॰ वृ॰।
“नन्वासातांसुखदुःखे परस्परं भिन्ने, ज्ञानादभिन्ने स्यातां स्मृत्यनुभ-ववदित्यत आह उप॰ वृ
“संशयनिर्णयान्तराभावश्च ज्ञाना-न्तरत्वे हेतुः” सू॰
“सुखदुःखयोर्ज्ञानान्तरत्वे ज्ञानभि-न्नत्वे संशयनिर्णयावान्तरत्वाभावो हेतुर्लिङ्गमित्यर्थः,तदयमर्यः मुखं दुःखं वा ज्ञानं भवत् संशयरूपं वास्यात् निर्णयरूपं वा, नाद्यः कोटिद्वयानुल्लेखित्वात् मद्वितीयः एककोट्यनुल्लेखित्वात्, तथा च यावद्विशेष-बाधात् सामान्यबाधः, द्वावेवहि ज्ञानस्य विशेषौ सं-शयत्वं निर्णयत्वञ्च, तदुभयञ्च, सुखे दुःखे च बाधि-तमिति ज्ञानत्वमपि तत्र बाधितम्। चकारादनुभवबाधंसमुच्चिनोति सुखदुःखयोरहं सुखी दुःखीति मानसीऽ-नुभवो नत्वहं जाने सन्देह्मि निश्चिनोमोत्याकारोऽनुभवइति। भेदकान्तरमाह” उपवृ॰
“तयोर्निष्यत्तिः प्रत्यक्षलै-ङ्गिकाभ्याम्” सू॰
“तयोः संशयनिर्णययोर्निष्पत्तिरुत्-पत्तिः प्रत्यक्षाल्लिङ्गाच्च सुखं दुःखं वा न प्रत्यक्षसामग्री-जन्यं न वा लिङ्गजन्यम् चतुर्विधं हि सुख वेषयिकमानोरथिकम् आभिमानिकमाभ्यासिंकञ्च, तत्र त्रता-णामिन्द्रियसन्निकर्षप्रभवत्वं नास्त्येव। प्रथममिन्द्रियार्थन-न्निकर्षजन्यत्वात् ज्ञानं स्यादिति चेन्न सामग्र्येकदेशस्यकार्यस्य साजात्यानापादकत्वात् अन्यथा दिक्कालसाघा-रण्येन सकलकार्यैकजात्यापत्तेः, किञ्च इन्द्रियार्थसन्नि-कर्षादुत्पद्यमानं सुखं निर्विकल्पकं वा स्यात् सविकल्पकं[Page3617-a+ 38] वा, नाद्यः अतीन्द्रियत्वप्रसङ्{??ात्, न द्वितीयः विशेष्यवि-शेषणभावेन द्वयोरनाकलनरूपत्वात्। किञ्च सुखदुःखयो-रवश्यसंवेद्यत्वात् ज्ञानस्यावश्यसंवेद्यत्वेऽनवस्थाप्रसङ्गात्। लैङ्गिकमिति लिङ्गमेव वैषयिकवत्। वृत्तिकृतस्तु तयोर्ज्ञानसुखयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां प्रत्यक्षलैङ्गिक-ज्ञानव्याख्यानाभ्यां व्याख्याता, प्रत्यक्षं ज्ञानमिन्द्रिर्य-जम्, लैङ्गिकन्तु लिङ्गजम्, सुखादिकन्तु नैतादृशमितिव्याचक्रुः” उप॰ वृ॰।
“अभूदित्यपि” सू॰
“लैङ्गिकज्ञानाद्सुखादेः प्रकारभेदाधीनं भेदमाह इति शब्दः प्रकारे,अपिशब्दो भविष्यतीत्याकारान्तरसमुच्चये, तथाच पर्वतेवह्निरभूद्भविष्यति वेति लैङ्गिके ज्ञानेऽतीतादिः प्रकारो-दृश्यते न चैवं प्रकारं सुखं दुःखं वा उत्पद्यमानमुपल-लब्धम्” उप॰ वृ॰।
“सति च कार्यदर्शनात्” सू॰
“चशब्दःभेदकान्तरं समुच्चिनोति। सति इन्द्रियार्थसन्निर्कर्षे सतिच व्याप्तिपक्षधर्म्भतादिप्रतिसन्धाने कार्य्यस्य सुखस्य दुः-खस्य वाऽदर्शनात् न प्रत्यक्षमात्रं सुखं दुःखं वा न लैङ्गि-कमात्रं वा, तदयमर्थः ज्ञानसामान्यं तावत् सुखदुःखे नभवत इत्युक्तं ज्ञानविशेषः प्रत्यक्षज्ञानं वा भवेदनुमितिरूपंवा इन्द्रियार्थसन्निकर्षे स्रक्कन्दनादिप्रत्यक्षे सुखत्वानुभ-{??}भावात्, न द्वितीयः चन्दनाद्यनुमितौ वह्न्याद्यनुमितौवा सुखत्वदुःखत्वान्यतराननुभवात्। एवं प्रत्यक्षविशेषेऽनु-मितिविशेषे वा सुखदुःखयोरननुभवान्न तद्विशेषोऽपीति” उप॰ वृ॰।
“एकार्थसमवायिकारणान्तरेषु दृष्टत्वात्” सू॰।
“भेदकान्तरमाह सुखदुःखयोरिति शेषः, सुखं प्रतिएकार्थसमवेतानि असाधारणकारणानि, धर्म्मः, सुखेरागः, सुखकारणेच्छा तदुपादानयत्नः, स्रक्चन्दना-दिज्ञानम्। दुःखं प्रति तु अधर्म्मः, अनिष्टकण्टकादि-ज्ञानम्, एषु एकार्थसमवायिषु कारणेषु दृष्टत्वादित्यर्थः,ज्ञानन्तु निर्विकल्पकमेकार्थसमवेतमसाधारणकारणं नापे-क्षत एव, सविकल्पकन्त्वपेक्षते विशेषणज्ञानं तन्न कारणा-न्यरं स्वविजातीयं कारणं न मवति, मनःसंयोगस्तुसाधारणत्वादविवक्षितः। यद्यपि स्मृतिः संस्कारमसाधा-रणमपेक्षते तथापि तद्भेदः स्फुटसिद्ध एवेत्यनुभवमादायभेदचिन्तनात्। लैङ्गिके यद्यपि व्याप्तिस्मृतिपक्षधर्म्मता-दिज्ञानापेक्षा तथाप्यन्तरशब्देनैव तद्व्युदासः। तदयंप्रमाणप्रयोगः सुखदुःखे अनुभवभिन्ने स्वसमानाधिकर-णसजातीयासाधारणकारणजन्यत्वात् स्मृतिवदाद्यशब्द-वच्च” उप॰ वृ॰। [Page3617-b+ 38] सांख्यास्तु तस्य रजःकार्यत्वम् चित्तस्य विषयाणाञ्च धर्मत्वंतत्त्रैविध्यञ्चोररीचक्रुः। तथा हि
“दुःखत्रयाभि-घातादित्यादि” सा॰ का॰ तत्त्वकौमुद्यामुक्तं यथा
“दुःखानां त्रयं दुःखत्रयं तत् खलु त्रिविधम् आध्या-त्मिकमाधिभौतिकमाधिदैविकञ्च तत्राध्यात्मिकं द्विविधंशारीरं मानसञ्च। शारीरं वातपित्तश्लेष्मणां वैषम्यनि-मित्तं, मानसं कामक्रोधलोभमोहभयेर्ष्याविषादविषयवि-शेषादर्शननिबन्धनम्। सर्वं चैतदान्तरोपायसाध्यत्वादा-ध्यात्मिकं दुःखम्। बाह्योपायसाध्यञ्च दुःखं द्वेधा आ-धिभौतिकमाधिदैविकञ्च तत्राधिभौतिकं मानुपपशुप-क्षिसरीसृपस्थावरनिमित्तम्। आधिदैविकं यक्षराक्षसवि-नायकग्रहावेशनिबन्धनम्। तदेतत् प्रत्यात्मवेदनीयं दुःखंरजःपरिणामभेदो न शक्यते प्रत्याख्यातुम्। तदनेनदुःखत्रिकेणान्तःकरणवर्त्तिना चेतनाशक्तेः प्रतिकूलतया-भिसम्बन्धोऽभिघातः इति। एतावता प्रतिकूलवेदनी-यत्वं जिहासाहेतुरुक्तः।
“यद्यपि न सन्निरुध्यते दुःखंतथापि तदभिभवः शक्यः कर्त्तुमित्युपरिष्टान्निवेदयिष्यते”(
“भोग्ये हि सुखदुःखे अनुकूलप्रतिकूलवेदनीये प्रत्या-त्ममनुभूयेते तेनानयोरनुकूलनीयेन प्रतिकूलनीयेन चकेनचिदप्यन्येन भवितव्यं नचानुकूलनीयाः प्रतिकूलनीयावा बुद्ध्यादयस्तेषां सुखदुःखाद्यात्मकत्वेन स्वात्मनि वृत्ति-विरोधात्। तस्माद्योऽसुखाद्यात्मा सोऽनुकूलनीयः प्रति-कूलनीयो वा स चात्मेति” सा॰ प्र॰ भा॰। सर्वेषां त्रिगुणात्मत्वात् विषयस्यापि सुखदुःखात्मकत्वंत॰ कौ॰ व्यवस्थापितं यथा(
“अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वा-नुरूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्प-यन्ति। तेषाञ्च परस्परमभिमाव्याभिभावकभावान्नानात्वम्। तद्यथा एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनंसुखाकरोति तत्कस्य हेतोः? स्वामिनं प्रति तस्याः सुख-रूपसमुद्भवात्। सैव स्त्री सपत्नीर्दुःखाकरोति तत्कस्यहेतोः? ताः प्रति तस्या दुःस्वरूपसमुद्भवात्। एवंपुरुषान्तरं तामविन्दत् सैव भोहयति तत्कस्य हेतोः?तत् प्रति तस्या मोहरूपसमुद्भवात्। अनया च स्त्रियासर्वे भावा व्याख्याताः। तत्र यत्सुखहेतुस्तत्सुखात्मकंसत्वं, यत् दुःखहेतुस्तद्दुःखात्मकं रजः यन्मोहहेतुस्त-न्मोहात्मकं तमः, सुखप्रकाशलाघवानां त्वेकस्मिन् युगप-दुद्भूतावविरोधः सहदर्शनात्। तस्मात सखदुःखमोहैरिब[Page3618-a+ 38] विरोधिभिरेकैकगुणवृत्तिभिः सुखप्रकाशलाथवैर्न निमित्त-भेदा उन्नीयन्ते एवं दुःखोपष्टम्भकप्रवर्त्तकत्वैरेवं मोह-गुरुत्वावरणैरिति सिद्धं त्रैगुण्यमिति”। दुःखादीनाञ्च सा॰ प्र॰ भा॰ विषयगतत्वं यद्वर्णितं तच्चआनन्दशब्दे

७२

२ पृ॰ दृश्यम्
“प्रीत्यप्रतीतिविषादा-द्यैर्गुणानामन्योन्यवैधर्म्यम्” सा॰ सू॰
“गुणानां सत्वादिद्रव्यत्रयाणामन्योऽन्यं सुखदुःख-विषादाद्यैः साधर्म्यं कार्येषु तद्दर्शनादित्यर्थः। मोहादिकंच घटादेरपि रूपादिवदेव धर्मोऽन्तःकरणोपादानत्वा-दन्यकार्याणामित्युक्तम्। अत्रादिशब्दग्राह्याः पञ्च-शिखाचार्यैरुक्ताः यथा
“सत्वं नाम प्रसादलाघवाभिष्वङ्ग-प्रीतितितिक्षासन्तोषादिरूपानन्तभेदं समासतः सुखात्म-कम्। एवं रजोऽपि शोकादिनानाभेदं समासतोदुःखात्मकम्” सा॰ प्रवचनभाष्यम्। दुःखस्य चित्तवृत्तिविशेषरूपत्वम् शङ्करभाष्ये उक्तेम् तच्चअज्ञानशब्दे

६४

३ पृ॰ दर्शितम्। कविकल्पलतायाञ्च लोकसिद्धानि कतिचित् दुःखकार-णानि दर्शितानि यथापारतन्त्र्यं

१ आधिः

२ व्याधिः

३ मानच्युतिः

४ शत्रुः

५ कुभार्य्या

६ नैःस्वम्

७ कुग्रामवासः

८ कुस्वामिसेवनम्

९ वहुकन्याः

१० वृद्धत्वं

११ परगृहवासः

१२ वर्षाप्रवासः

१३ भार्य्याद्वयम्

१४ कुभृत्यः

१५ दुर्हलकरणककृषिः

१६ वराहपुराणे दुःखतराणि कतिचिदुक्तानि यथा(
“दुःखमेव प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे!। उचिते-तोपचारेण दुःखं मोक्षविनाशनम्। अहङ्कारकृतो नित्यंनरा मोहेन चावृताः। ये मां नैव प्रपद्यन्ते ततो दुःख-तरन्नु किम्। सर्वाशी सर्वविक्रेता नमस्कारविव-र्जितः। ये च मां न प्रपद्यन्ते ततो दुःखतरन्नु किम्। सर्वान्नानि तु सिद्धानि पाकभेदन्तु कारयेत्। अवैश्व-देवं योऽश्नाति ततो दुःखतरन्नुकिम्। प्राप्तकाले वैश्व-देवे दृष्टं ह्यतिथिमागतम्। अदत्त्वा तस्य यो भुङ्क्तेकतो दुःखतरन्नु किम्। असन्तुष्टस्तु वैषम्ये परदाराभिमर्दकः। परोपतापी मन्दात्मा ततो दुःखतरन्नु किम्। अकृत्वायुर्बलं कर्म्म गृहे संवसते नरः। मृत्युकालवशंप्राप्तस्ततो दुःखतरन्नुकिम्। हस्त्यश्वरथयानानि ग-च्छमानानि पश्यति। न वै तस्याग्रतः पृष्ठे ततो दुःख-तरन्नु किम्। अश्नन्ति पिशितं केचित् घृतशालिसम-न्वितम्। शुष्कान्नं केचिदश्नन्ति ततो दूःखतरन्नु किम। [Page3618-b+ 38] वरवस्त्रावृतां शय्यां समासेवन्ति भूषिताः। केचित्तृणेषु शेरन्ते ततो दुःखतरन्नुकिम्। विद्वान् कृतीगुणज्ञश्च सर्वशास्त्रविशारदः। केचिन्मूकाश्च दृश्यन्तेततो दुःखत्तरन्नु किम्। विद्यमाने धने केचित् कृपणाभोगवर्जिताः। दरिद्रो जायते दाता ततो दुःखत-रन्नु किम्। पुरुषस्य तु द्वे भार्ये तयोरेकां प्रशंस-येत्। एकापि दुर्भगा तत्र ततो दुःखतरन्नु किम्। लब्ध्वा तु मानर्सी संज्ञां पञ्चभूतसमन्विताम्। मामेवन प्रपद्यन्ते ततो दुःखतरन्नु किम्। लब्ध्वा ब्राह्मण-भावन्तु त्रयो वर्णाः सुमध्यमे!। पापकर्म्मरता ह्यासं-स्ततो दुःखतरन्नु किम्। एतत्ते कथितं भद्रे! दुःखकर्मविनिश्चितम्। सर्वभूतहितार्थाय यत्त्वया परिपृ-च्छ्यते”।
“अवाच्यवादांश्च बहूत् वदिष्यन्ति तवा-हिताः। निन्दन्तस्तव सामर्थ्यं ततो दुःखतरन्नु किम्” गीता।
“मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति” माघः।
“सुखं हि दुःखान्यनुभूय शोभते” मृच्छ॰। दुःख-मनुभवति दुःख + क्यङ् दुःखायते दुखमनुभवतीत्यर्थः।
“दुःखायते जनः सर्वः सएवैकः सुखायते” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःख¦ r. 10th cl. (दुःखयति-ते) To give pain. चुरा० उभ० अक० सेट् |

दुःख¦ n. (-खं)
1. Pain, sorrow. affliction, distress, unhappiness.
2. The world.
3. Difficulty, trouble. E. दुःख to give pain, affix अच्; or दु bad, and ख्या to call; or खन् to dig, ड aff. दुष्टानि खानि यस्मिन्, or दुष्टं खनति |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःख [duḥkha], a. [दुष्टानि खानि यस्मिन्, दुष्टं खनति खन्-ड, दुःख्-अच् वा Tv.]

Painful, disagreeable, unpleasant; सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् Rām.

Difficult, uneasy.

खम् Sorrow, grief, unhappiness, distress, pain, agony; सुखं हि दुःखान्यनुभूय शोभते Mk.1.1; यदेवोपनतं दुः- खात्सुखं तद्रसवत्तरम् V.3.21; so दुःखसुख, समदुःखसुख &c.

Trouble, difficulty; Ś. Til.12; अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ॥ Pt.1.163. (दुःखम् and दुःखेन are used as adverbs in the sense of 'hardly' 'with difficulty' 'or trouble' Ś.7.13. अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते Bg.12.5; Ku.4.13; Pt.1.; R.19.49; H.1.158). -Comp. -अतीत a. freed from pain. -अन्तः final emancipation. -आर्त, -अन्वित a. pained, afflicted, distressed. -कर a. painful, troublesome, -गतम् adversity, calamity; Mb.12. -ग्रामः 'the scene of suffering', worldly existence. -छिन्न a.

tough, hard.

pained, distressed. -च्छेद्य also दुःखो- च्छेद्य a.

hard.

to be conquered with difficulty. प्रजानुरागाद्धर्माच्च दुःखोच्छेद्यो हि धार्मिकः H.4.24. -जात a. feeling pain. -जीविन् a. living in pain or distress; Ms. 11.9. -त्रयाभिघातः unbearable association of the three sufferings; दुःखत्रयाभिघाताज्जिज्ञासा Sāṅ. K.1. -दुःखम् (instr.) with great difficulty; (धारयन्ती) शय्योत्सङ्गे निहित- मसकृद्दुःखदुःखेन गात्रम् Me.95. -दुःखिन् a. having sorrow upon sorrow; मया रक्षति दुःखदुःखी Bhāg.11.11.19.-दोह्या (a cow) difficult to be milked. -प्राय, बहुल a. full of trouble or grief. -भागिन्, -भाज् a. unhappy. Ms.4.157. भोगः occurrence of trouble or misery. -योगः infliction of pain; Ms. -लव्य a. hard to be pierced or cut; B. R.4.11. -लोकः worldly life, the world as a scene of constant suffering. -शील a.

hard to please or manage, bad tempered, irritable; उपेत्य सा दोहददुःख- शीलताम् R.3.6; Ś.4.

accustomed to the misery of; कामेकपत्नीव्रतदुःखशीलाम् Ku.3.7; 'who is accustomed to (suffer) the misery (hard lot) of a perfectly chaste life. -संचार a.

passing (time) unhappily.

impassable -सागरः 'the sea of troubles'; worldly life.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःख mfn. (according to grammarians properly written दुष्-खand said to be from दुस्and ख[See. सु-ख] ; but more probably a Prakritized form for दुः-स्थSee. )uneasy , uncomfortable , unpleasant , difficult R. Hariv. ( compar. -तरMBh. R. )

दुःख n. ( ifc. f( आ). )uneasiness , pain , sorrow , trouble , difficulty S3Br. xiv , 7 , 2 , 15 Mn. MBh. etc. (personified as the son of नरकand वेदनाVP. )

दुःख n. impers. it is difficult to or to be( inf. with an acc. or nom. R. vii , 6 , 38 Bhag. v , 6 )

दुःख n. दुःखम्- अस्, to be sad or uneasy Ratn. iv , 19/20

दुःख n. - कृ, to cause or feel pain Ya1jn5. ii , 218 MBh. xii , 5298.

दुःख Nom. P. खति, to pain SaddhP.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DUḤKHA(M) : Agni Purāṇa tells the following about the origin of Duḥkham.

Hiṁsā (violence) is the wife of Adharma (unrighteous- ness). To the couple were born two daughters called Anṛta (falsehood) and Nikṛta (fraud) and from them were born the daughters Bhayā (fear) Naraka (hell) Māyā (illusion) and Vedanā (pain). Māyā brought forth Mṛtyu (death), the annihilator of all living objects, and Vedanā, from Raurava (a particular hell) brought forth Duḥkha (sorrow, grief). From Mṛtyu were born Jāti (caste), Jarā (wrinkles), Śoka (sorrow), Tṛṣṇā (covetouseness) and Krodha (anger). (Agni Pu- rāṇa, Chapter 19).


_______________________________
*4th word in left half of page 253 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दुःख&oldid=455941" इत्यस्माद् पुनः प्राप्तिः