सामग्री पर जाएँ

दुग्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुग्धम्, क्ली, (दुह्यते स्मेति । दुह + कर्म्मणि क्तः ।) स्त्रीजातिस्तननिःसृतद्रवद्रव्यविशेषः । दुघ इति भाषा । तत्पर्य्यायः । क्षीरम् २ पीयूषम् ३ उधस्यम् ४ स्तन्यम् ५ पयः ६ अमृतम् ७ । इति राजनिर्घण्टः ॥ बालजीवनम् ८ । इति भावप्रकाशः ॥ अस्य सामान्यगुणाः । स्वादु- रसत्वम् । स्निग्धत्वम् । ओजःकारित्वम् । धातु- वर्द्धनत्वम् । वातपित्तहरत्वम् । वृष्यत्वम् । श्लेष्म- लत्वम् । गुरुत्वम् । शीतलत्वम् । पिष्टकादष्ट- गुणगुरुत्वञ्च ॥ * ॥ गोदुग्धगुणाः । प्राणध र- कत्वम् । बलायुःपुरुषत्वशुक्रकारित्वम् । मेध्यत्वम् । रक्तपित्तरोगवायुनाशित्वम् । रसायनत्वञ्च ॥ * ॥ छागीदुग्धगुणाः । मधुरत्वम् । शीतत्वम् । मल- बन्धाग्निकारित्वम् । रक्तपित्तविकारश्वासकास- सर्व्वदोषनाशित्वञ्च ॥ * ॥ मेषीदुग्धगुणाः । गुरुत्वम् । स्वादुत्वम् । स्निग्धत्वम् । उष्णत्वम् । कफपित्तनाशित्वञ्च ॥ * ॥ माहिषदुग्धगुणाः । अतिस्निग्धत्वम् । निद्राकारित्वम् । अग्निना- शित्वञ्च ॥ * ॥ उष्ट्रीदुग्धगुणाः । रूक्षत्वम् । उष्णत्वम् । शोथवातकफनाशित्वम् ॥ * ॥ अश्वीदुग्धगुणाः । सलवणत्वम् । मधुराम्लरस- त्वम् । लघुत्वञ्च ॥ * ॥ हस्तिनीदुग्धगुणाः । मधुरत्वम् । शुक्रकारित्वम् । कषायानुरसत्वम् । गुरुत्वञ्च ॥ * ॥ मानुप्यदुग्धगुणाः । प्राणधार- कत्वम् । शरीरहितकारित्वम् । बृंहणत्वम् । तृप्तिजनकत्वञ्च ॥ * ॥ प्रत्यूषकाले गोदुग्धपान- गुणाः । गुरुत्वम् । विष्टम्भित्वम् । दुर्जरत्वम् । तस्मात् सूर्य्योदयात् परं यामं यामार्द्धमेव वा उत्तार्य्य पयो ग्राह्यम् । तत्पथ्यं दीपनं लघु ॥ * विवत्साबालवत्सानां पयः दोषलम् । एक-

दुग्धः, त्रि, (दुह + क्तः ।) प्रपूरितः । इति मेदिनी । धे, ८ ॥ कृतदोहः । (यथा, हरिवंशे । २ । २५ । “तेनेयं गौर्म्महाराज ! दुग्धा शस्यानि भारत ! ॥” दुह + भावे क्तः ।) दोहने, क्ली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुग्ध नपुं।

दुग्धम्

समानार्थक:दुग्ध,क्षीर,पयस्

2।9।51।1।2

तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम्. पयस्यमाज्यदध्यादि द्रप्स्यं दधि घनेतरत्.।

 : नवप्रसूतगोः_क्षीरम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुग्ध¦ न॰ दुह--क्त।

१ पयसि क्षीरे स्त्रीजातिस्तननिष्यन्दिद्रव-द्रव्ये। कर्मणि क्त।

२ कृतदोहायां धेन्वादौ स्त्री

३ प्रपू-रिते त्रि॰ मेदिनी॰। भावे क्त।

४ दोहने न॰ क्षीर-वर्गशब्दे

२३

७७ पृ॰ अस्य विवृतिः। तत्रानुक्तं भावप्र॰उक्तं किं चिदत्राभिधीयते
“रात्रौ चन्द्रगुणाधिक्याद्व्ययामाकरणात्तथा। प्राभा-तिकं तदा प्रायः प्रादोषाद्गुरु शीतलम्। दिवाकरकरा-घातात् व्यायामानलसेवनात्। प्राभातिकात्तु प्रादोषंलघु वातकफापहम्”। अथ दुग्धसेवने समयादिविशेषेगुणमाह।
“वृष्यं वृंहणमग्निदीपनकरं पूर्वाह्णकालेपयो मध्याह्ने तु वलावहं कफहरं पित्तापहं दीप-नम्। बाले वृद्धिकरं क्षये क्षयकरं वृद्धेषु रेतोवहम्रात्रौ पथ्यमनेकदोषशमनं क्षीरं सदा सेव्यते। वदन्तिपेयं निशि केवलं पयो भोज्यं न तेनेह सहौदनादि-कम्। भवत्यजीर्णे निशि पीतशर्करा क्षीराल्पपानस्य नशेषमुत्सृजेत्। विदाहोन्यन्नपानानि दिवा भुङ्क्ते हियन्नरः। तद्विदाहप्रशान्त्यर्थं रात्नौ क्षीरं सदा पि-बेत्। दीप्तानले कृशे पुंसि वातवृद्धे पयःप्रिये। मतंहिततमं पथ्यं सद्यः शुक्रकरं यतः”। अथ मथितस्यदुग्धस्य गुणाः
“क्षीरं गव्यमथाजं कोष्णं दण्डा-हतं पिबेत्। लघु वृष्यं ज्वरहरं वातपित्तकफा-पहम्”। अथ गोजदुग्धगुणाः
“गोदुग्धप्रभवं किं वाछागीदुग्धसमुद्भवम्। तद्भवेच्च त्रिदोषघ्नं रोचनं वलवर्द्धनम्। वह्निवृद्धिकरं वृष्यं सद्यस्तृप्तिकरं लघु। अतीसारेऽग्निमान्द्ये च ज्वरे जीर्णे प्रशस्यते”। अघनिन्दितदुग्धम्
“विवर्णं विरसं चाम्लं दुर्गन्धं श्रथितंपयः। वर्जयेदम्ललवणयुक्तं बुद्ध्यादिहृद्यतः”। अजादिदुग्धगुणादिभेदादिकं तत्तच्छब्दे उक्तम्। [Page3623-a+ 38]
“केऽप्याविकं पथ्यतमं शृतोष्णं क्षीरं त्वजानां शृतशीतमाहुः। दोहान्तशीतं महिषीपयस्यं गव्यन्तु धारो-ष्णमिदं प्रशस्तम्। वृष्यं वृंहणमग्निवर्द्धनकरं पू-र्वाह्णपीतं पयो मध्याह्ने बलदायकं रतिकरं कृच्छ्रस्यविच्छेदनम्। बाल्ये वह्निकरं ततो बलकरं वीर्यप्रदंबार्द्धके रात्रौ क्षीरमनेकदोषशमनं सेव्यं ततः सर्वदा। क्षीरं मुहूर्त्तत्रितयोषितं यदतप्तमेतद्विकृतिं प्रयाति। षण्णान्तु दोषं कुरुते तदूर्द्ध्वं विषोपमं स्यादुषितो दशानाम्। जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम्। तदेव त-रुणे पीतं विषवद्धन्ति मानुषम्”। क्षीरक्वाथगुणः।
“चतुर्थभागं सलिलं निधाय यत्नाद् यदावर्त्तितमुत्तमंतत्। सर्वामयव्नं बलपुष्टिकारि वीर्यप्रदं क्षीरमतिप्रशस्तम्। गव्यं पूर्वाह्णकाले स्यादपराह्णे तु माहि-षम्। क्षीरं सशर्करं पथ्यं यद्वा सात्म्यञ्च सर्वदा। क्षीरं न भुञ्जीत कदाप्यतप्तं तप्तञ्च नैतल्लवणेन सार्द्धम्। पिष्टान्नसन्धानकमाषमुद्गकोशातकीकन्दफलादिकैश्च”। तथा(
“मत्स्यमांसगुडमुद्गमूलकैः कुष्ठमावहति सेवितंपयः। शाकजाम्बवरसैश्च सेवितं मारयत्यवुधमाशुसर्पवत्। स्निग्धं शीतं गुरु क्षीरं सर्वकालं न सेवयेत्। दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च। नित्यन्ती-व्राग्निना सेव्यं सुपक्वं माहिषं पयः। पुष्यन्ति धातवःसर्व बलपूष्टिविवर्द्धनम्। क्षीरं गवाजकादेर्मधुरं क्षीरंनवप्रसूतानाम्। रूक्षञ्च पित्तदाहं करीति रक्तामयंकुरुते। मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम्। लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानाम्। गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम्। मध्यमवयसां मुक्तमिदं दुर्बलन्तु वृद्धानाम्। तासां मास-त्रयादूर्द्ध्वं गुर्विणीनाञ्च यत् पयः। तद्दाहि लवणंक्षीरं मधुरं पित्तशोषकृत्। दुग्धाम्रं शीतलं स्वादुदृष्यं वर्णकरं गुरु। वातपित्तापहं रुच्यं वृंहणंबलवर्द्धनम्” राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं)
1. Filled, full.
2. Milked. n. (-ग्धं)
1. Milk.
2. Milking f. (-ग्धी) A medicinal plant; also क्षीरी। E. दुह् to milk, affix क्त |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुग्ध [dugdha] दुघ [dugha], दुघ &c. See under दुह्.

दुग्ध [dugdha], p. p. [दुह्-क्त]

Milked, milked out.

Extracted, drawn out &c.

Collected, filled, full.

ग्धम् Milk.

The milky juice of plants.

Milking. -Comp -अक्षः a kind of precious stone. -कूपिका a kind of cake. -अग्रम्, -अम्रम्, -तालीयम् the skim of milk, cream. -अङ्कः a kind of white stone. -दा a milch cow.

पाचनम् a vessel for boiling milk;

a kind of salt.-पाषाणम् calcareous spar. -पोष्य a. living on the mother's milk (as a child), a suckling. -फेनः cream.-बन्धः, -बन्धकः the post to which a cow is tied before being milked.

बीजा rice mixed with milk.

a kind of gourd. -समुद्रः, -अब्धिः the ocean of milk, one of the seven oceans. ˚तनया f. goddess Lakṣmī.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुग्ध mfn. (2. दुह्)milked , milked out , extracted RV. AV. etc.

दुग्ध mfn. sucked out , impoverished Das3.

दुग्ध mfn. milked together , accumulated , filled , full BhP. L.

दुग्ध n. milk AV. TS. S3Br. Sus3r. Pan5c. etc.

दुग्ध n. the milky juice of plants , sap(See. गो-रक्ष-and ताम्र-)

"https://sa.wiktionary.org/w/index.php?title=दुग्ध&oldid=500280" इत्यस्माद् प्रतिप्राप्तम्