दुग्धम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुग्धम्, क्ली, (दुह्यते स्मेति । दुह + कर्म्मणि क्तः ।) स्त्रीजातिस्तननिःसृतद्रवद्रव्यविशेषः । दुघ इति भाषा । तत्पर्य्यायः । क्षीरम् २ पीयूषम् ३ उधस्यम् ४ स्तन्यम् ५ पयः ६ अमृतम् ७ । इति राजनिर्घण्टः ॥ बालजीवनम् ८ । इति भावप्रकाशः ॥ अस्य सामान्यगुणाः । स्वादु- रसत्वम् । स्निग्धत्वम् । ओजःकारित्वम् । धातु- वर्द्धनत्वम् । वातपित्तहरत्वम् । वृष्यत्वम् । श्लेष्म- लत्वम् । गुरुत्वम् । शीतलत्वम् । पिष्टकादष्ट- गुणगुरुत्वञ्च ॥ * ॥ गोदुग्धगुणाः । प्राणध र- कत्वम् । बलायुःपुरुषत्वशुक्रकारित्वम् । मेध्यत्वम् । रक्तपित्तरोगवायुनाशित्वम् । रसायनत्वञ्च ॥ * ॥ छागीदुग्धगुणाः । मधुरत्वम् । शीतत्वम् । मल- बन्धाग्निकारित्वम् । रक्तपित्तविकारश्वासकास- सर्व्वदोषनाशित्वञ्च ॥ * ॥ मेषीदुग्धगुणाः । गुरुत्वम् । स्वादुत्वम् । स्निग्धत्वम् । उष्णत्वम् । कफपित्तनाशित्वञ्च ॥ * ॥ माहिषदुग्धगुणाः । अतिस्निग्धत्वम् । निद्राकारित्वम् । अग्निना- शित्वञ्च ॥ * ॥ उष्ट्रीदुग्धगुणाः । रूक्षत्वम् । उष्णत्वम् । शोथवातकफनाशित्वम् ॥ * ॥ अश्वीदुग्धगुणाः । सलवणत्वम् । मधुराम्लरस- त्वम् । लघुत्वञ्च ॥ * ॥ हस्तिनीदुग्धगुणाः । मधुरत्वम् । शुक्रकारित्वम् । कषायानुरसत्वम् । गुरुत्वञ्च ॥ * ॥ मानुप्यदुग्धगुणाः । प्राणधार- कत्वम् । शरीरहितकारित्वम् । बृंहणत्वम् । तृप्तिजनकत्वञ्च ॥ * ॥ प्रत्यूषकाले गोदुग्धपान- गुणाः । गुरुत्वम् । विष्टम्भित्वम् । दुर्जरत्वम् । तस्मात् सूर्य्योदयात् परं यामं यामार्द्धमेव वा उत्तार्य्य पयो ग्राह्यम् । तत्पथ्यं दीपनं लघु ॥ * विवत्साबालवत्सानां पयः दोषलम् । एक-

"https://sa.wiktionary.org/w/index.php?title=दुग्धम्&oldid=140661" इत्यस्माद् प्रतिप्राप्तम्