दुर्नाम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्नाम, [न्] क्ली, (दुर्दुष्टं नाम यस्य ।) अर्शो- रोगः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । १ । ४५ । “दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् । दुर्नामश्वासकासेषु हितमग्नेः प्रदीपनम् ॥” पित्तजश्लेष्मजयोरनयोर्हेतुर्यथा, -- “कट्वम्ललवणोष्णानि विदाहीनि भुरूणि च । सेवनानिलतोयेन श्रमाद्व्ययामपीडया । यानव्यायामदोषाद्वा दुर्नाम पित्तसम्भवम् ॥ अव्यायामात्तस्य शीलादजस्रं शीताद्वान्यद्वातसंसेवनाच्च । गौण्यात्यम्लात्तैलसम्पिच्छिलेन दुर्नामा सञ्जायते श्लेष्मदोषात् ॥” इति हारीते चिकित्सितस्थाने द्वादशेऽध्याये ॥ चिकित्सास्य यथा, -- “व्योषाण्यरुष्करविडङ्गतिलाभयानां चूर्णं गुडेन सहितन्तु सदोपयोज्यम् । दुर्नामकुष्ठगरशोथशकृद्विवन्धा- नग्नेर्जयत्यबलतां क्रिमिपाण्डुताञ्च ॥” इति व्योषाद्यचूर्णम् ॥ पचेद्वारिचतुर्द्रोणे कण्टकार्य्यमृताशतम् । तत्राग्नित्रिफलाव्योषपूतिकत्वक्कलिङ्गकैः ॥ स काश्मर्य्यविडङ्गैस्तु सिद्धं दुर्नाममेहनुत् । घृतं सिंह्यमृतं नाम बोधिसत्त्वेन भाषितम् ॥ इति सिंह्यमृतं घृतम् ॥” इति वैद्यकचक्रपाणि संग्रहे अर्शोऽधिकारे ॥ “मृल्लिप्तं शौरणं कन्दं पक्त्वाग्नौ पुटपाकवत् । अद्यात् सतैललवणं दुर्नामविनिवृत्तये ॥” “चूर्णीकृताः षोडश शूरणस्य भागास्ततोऽर्द्धेन च चित्रकस्य । महौषधाद्द्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डी ॥” इति शूरणपिण्डी ॥ इति वाभटे चिकित्सास्थाने अष्टमेऽध्याये ॥ “माणशूरणभल्लातत्रिवृद्दन्तीसमन्वितम् । त्रिकत्रयसमायुक्तं लौहं दुर्नामनाशनम् ॥ इति माणाद्यं लौहम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे अर्शोऽधिकारे ॥ “सर्व्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः । तैस्तु प्रतिहतो वायुरपानः सन्निवर्त्तते ॥ ततो व्यानेन सङ्गम्य ज्योतिमृद्नाति देहिनाम् ॥” इति सुश्रुते निदानस्थाने तृतीयेऽध्याये ॥)