दुहिता
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुहिता, [ऋ] स्त्री, (दोग्धि विवाहादिकाले धनादिकमाकृष्य गृह्णातीति । यद्बा, दोग्धि गा इति । आर्षकाले कन्यासु एव गोदोहनभार- स्थितेस्तथात्वम् । दुह + “नप्तृनेष्टृत्वष्टृहोतृ- पातृभ्रातृजामातृमातृपितृदुहितृ ।” उणां । २ । ९६ । इति तृच् । निपातनात् गुणाभावः ।) कन्या । इत्यमरः । २ । ६ । २८ ॥ कन्यादान- पात्रापात्रं यथा, -- “कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् । वराय गुणहीनाय वृद्धायाज्ञानिने तथा ॥ दरिद्राय च मूढाय योगिने कुत्सिताय च । अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च ॥ चापलायाङ्गहीनाय चान्धाय बधिराय च । जडाय चैव मूर्खाय क्लीवतुल्याय पापिने ॥ ब्रह्महत्यां लभेत् सोऽपि यः स्वकन्यां ददाति च । शान्ताय गुणिने चैव यूने च विदुषेऽपि च ॥ वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत् ॥” * ॥ कन्याविक्रये दोषो यथा, -- “यः कन्यापालनं कृत्वा करोति विक्रयं यदि । विपदा धनलोभेन कुम्भीपाकं स गच्छति ॥ कन्यामूत्रपुरीषञ्च तत्र भक्षति पातकी । कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्द्दश ॥ मृतश्च व्याधयोनौ च स लभेज्जन्म निश्चितम् । विक्रीणीते मांसभारं वहत्येवं दिवानिशम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ कन्यादानफलं यथा, -- “दशवापीसमा कन्या दीयते ब्राह्मणाय तत् । वेदज्ञाय पवित्राय चाप्रतिग्रहशालिने ॥ सन्ध्यायज्ञवेदपाठकारिणे सत्यवादिने । अस्मै प्रदत्ता कन्या च दशवापीफलप्रदा ॥ त्रिसन्ध्याकारिणे सत्यवादिने गृहशालिने । वेदज्ञाय च विप्राय दत्तार्द्धफलदायिनी ॥ प्रतिग्रहगृहीताय सन्ध्याहीनाय नित्यशः । मूर्खाय दत्ता कन्या च सा चतुःफलदायिनी ॥ परदारगृहीताय याजकाय द्बिजाय च । शठाय सन्ध्याहीनाय वाप्येकफलदा सुता ॥ सर्व्वसन्ध्यास्वगायत्त्रीविहीनाय शठाय च । विप्रोद्भवाय दत्ता या वाप्यर्द्धफलदा सुता ॥ पापिने शूद्रजाताय विप्रक्षेत्रोद्भवाय च । दत्ता चाण्डालतुल्याय कन्या सा नरकप्रदा ॥ विष्णुभक्ताय विदुषे विप्राय सत्यवादिने । जितेन्द्रियाय दत्ता या विंशद्बापीफलप्रदा ॥ षष्टिवर्षसहस्राणि दिव्यरूपं विधाय च । एवम्भूताय दत्ता च मोदते विष्णुमन्दिरे ॥ दत्त्वा कन्यां सुशीलाञ्च हराय हरयेऽथवा । नारायणस्वरूपञ्च भवेदेव श्रुतौ श्रुतम् ॥ विष्णुभक्तो यदा कन्यां ददाति विष्णुप्रीतये । स लभेद्धरिदास्यञ्च ध्रुवं विप्रोद्भवाय च ॥” * ॥ विवाहानन्तरं कन्याया भर्त्तृगृहगभनसमये पित्रादीनां रोदनं शास्त्रसिद्धम् । यथा दुर्व्वा- ससा सह और्व्वकन्यायाः कन्दल्या विवाहे । “कन्यासमर्पणं कृत्वा मोहादुच्चै रुरोद च । मूर्च्छामवाप स मुनिः स्वकन्याविरहातुरः ॥ अपत्यभेदशोकौघः स्वात्मारामं न मुञ्चति । क्षणेन चेतनां प्राप्य बोधयामास कन्यकाम् ॥ मूर्च्छितां तातविच्छेदाद्रुदन्तीं शोकसंयुताम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डश्रीकृष्णजन्मखण्डे ॥