दृक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृक्, [श्] स्त्री, (पश्यत्यनेनेति । दृश् + करणे क्विप् ।) चक्षुः । इत्यमरः । २ । ६ । ९४ । (यथा, साहित्यदर्पणे । “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥” भावे क्विप् ।) दर्शनम् । बुद्धिः । इति मेदिनी । शे, ८ ॥ (यथा, भागवते । २ । ९ । ५ । “तां नाध्यगच्छद्दृशमत्र सम्मतां प्रपञ्चनिर्म्माणविधिर्यया भवेत् ॥”)

दृक्, [श्] त्रि, (पश्यतीति । दृश + कर्त्तरि क्विन् ।) वीक्षकः । इति मेदिनी । शे, ८ ॥ (यथा, भाग- वते । ४ । २२ । ९ । “यथा सर्व्वदृशं सर्व्व आत्मानं येऽस्य हेतवः ॥” ज्ञाता । इति शब्दरत्नावली ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृक् in comp. for 2. दृश्.

"https://sa.wiktionary.org/w/index.php?title=दृक्&oldid=305008" इत्यस्माद् प्रतिप्राप्तम्