दृष्टान्तः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

उदाहरणम्

हिन्दी[सम्पाद्यताम्]

उदाहरण्

मलयाळम्[सम्पाद्यताम्]

ഉദാഹരണം

आङ्गलेयम्[सम्पाद्यताम्]

example

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्टान्तः, पुं, (दृष्टः अन्तो निश्चयो यस्मिन् ।) उदाहरणम् । (यथा, माघे । २ । ३१ । “तृप्तियोगः परेणापि महिम्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः ॥”) शास्त्रम् । मरणम् । इति मेदिनी । ते, ११५ ॥ (अलङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ६९८ । “दृष्टान्तस्तु सधर्म्मस्य वस्तुनः प्रतिविम्बनम् ॥” सधर्म्मस्येति प्रतिवस्तूपमाव्यवच्छेदः । अयमपि साधर्म्म्यवैधर्म्याभ्यां द्विधा । क्रमेणोदाहरणं यथा, -- अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् । अनधिगतपरिमलापि हि हरति दृशं मालती- माला ॥”)

"https://sa.wiktionary.org/w/index.php?title=दृष्टान्तः&oldid=506732" इत्यस्माद् प्रतिप्राप्तम्