देवः
संस्कृतम्
[सम्पाद्यताम्]- देवः, सुरः, अमरः, निर्जरः, विवुधः, सुपर्वन्, सुमनस्, त्रिदिवेशः, दिवौकस्, आदितेयः, दिविषद्, लेस्वः, अदितिनन्दनः, आदित्यः, ॠभुः, अस्वमः, अमर्त्यः, अमृतांधत्, बर्हिंमुखः, क्रतुमुक्, गीर्वानः, दानवारिः, वृंदारकः, दैवतः, परमेश्वरः, परमात्मन्।
नाम
[सम्पाद्यताम्]- देवः नाम भगवान्।
अनुवादाः
[सम्पाद्यताम्]- आङ्ग्लम्-God(fate)
- मलयालम्-
- हिन्दि-भगवान(परमात्मा)
- बङ्गाळि-() ()
- फ़्रॆन्च्- (fr)
- रूसीय्- (ru) ()
- जेर्मन्-
- स्पानिष्- (es)
- तेलुगु-దేవుడు
- तमिल्-
- पोलिष्- (pl)
- कन्नड- ದೇವರು (ಭಗವಂತ)
उदाहरणम्
[सम्पाद्यताम्]- मङ्गलाचरणम् -
यस्य ज्ञानदयासिंधोरगाधस्यानघा गुणाः। सेव्यतामक्षयो धीराः स श्रिये चामृताय च॥ अ.को. १.१.॥
- अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः।
सिपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः॥ आदितेया दिविषदो लेखा अदितिनन्दनाः। आदित्य ॠभवोऽस्वप्ना अमर्त्या अमृतान्धसः॥ बर्हिर्मुखाः ॠतुभुजो गीर्वाणा दानवारयः। वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्॥ अ.को.१.१.१८॥
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवः, पुं, (दीव्यति आनन्देन क्रीडतीति । दिव + अच् ।) देवता । (यथा, मनुः । ३ । ११७ । “देवानृषीन् मनुष्यांश्च पितन् गृह्याश्च देवताः । पूजयित्वा ततः पश्चात् गृहस्थः शेषभुग् भवेत् ॥”) नाठ्योक्तौ राजा । इत्यमरः । १ । ७ । १३ ॥ राजा । (यथा, कादम्बरी । १८ । “सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम शुकः । सर्व्वरत्नानामुदधिरिव देवो भाजन- मिति कृत्वैनमादायास्मत्स्वामिदुहिता देवपाद- मूलमायाता तदयमात्मीयः क्रियतामिति ॥”) मेघः । इति मेदिनी । वे, १२ ॥ (यथा, महा- भारते । ३ । २३५ । २३ । “क्षेत्रे सुकृष्टे ह्युपिते च बीजे देवे च वर्षत्यृतुकालयुक्तम् ॥” केचित्तु देवशब्देन इन्द्र इति व्याचक्षते ॥) पारदः । इति राजनिर्घण्टः ॥ ब्राह्मणाना- मुपाधिभेदः । यथा, स्मृतिः । “देवपूर्ब्बं नराख्यं स्यात् शर्म्मवर्म्मादिसंयुतम् ॥” (ऋत्विक् । यथा, ऋग्वेदे । ९ । ९६ । ६ । “ब्रह्मा देवानां पदवीः कवीना- मृषिर्विप्राणां महिषो मृगाणाम् ॥” “देवानां स्तोत्रकारिणामृत्विजां ब्रह्मा ब्रह्मा- ख्यर्त्विक्स्थानीयो भवति ।” इति तद्भाष्ये सायनः ॥) कायस्थादीनां पद्धतिविशेषः । तस्य विवरणं कायस्थशब्दे द्रष्टव्यम् ॥ (त्रि, दाता । द्योतयिता । दीपयिता । यथा, ऋग्वेदे । १ । १ । १ । “अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ॥” “देवशब्दो दानदीपनद्योतनानामन्यतममर्थ- माचष्टे । यज्ञस्य दाता दीपयिता द्योतयिता यमग्निरित्युक्तं भवति ।” इति तद्भाष्ये सायनः ॥ विष्णुः । यथा, महाभारते । १३ । १४९ । ५४ । “उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ॥” “दीव्यति यत् क्रीडति सर्गादिति विजिगीषति असुरान् व्यवहरति सर्व्वभूतेष्वात्मतया द्योतते स्तूयते स्तुत्यैः सर्व्वत्र गच्छति तस्माद्देवः । एको- देव इति मन्त्रवर्णात् ॥” इति तद्भाष्ये शङ्करः ॥ महादेवः । यथा, महाभारते । १३ । १७ । ९८ । “परश्वधायुधो देवः अनुकारी सुबान्धवः ॥”)