देवता

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवता, स्त्री, (देव एव । स्वार्थे तल् ।) देवं द्युतिं क्रीडांवा तनोति या । तत्पर्य्यायः । अमरः २ निर्ज्जरः ३ देवः ४ त्रिदशः ५ विबुधः ६ सुरः ७ सुपर्व्वा ८ सुमनाः ९ त्रिदिवेशः १० दिवौकाः ११ आदितेयः १२ दिविषत् १३ लेखः १४ अदिति- नन्दनः १५ आदित्यः १६ ऋभुः १७ अस्वप्नः १८ अमर्त्यः १९ अमृतान्धाः २० बर्हिर्मुखः २१ क्रतुभुक् २२ गीर्व्वाणः २३ दानवारिः २४ वृन्दारकः २५ दैवतम् २६ । इत्यमरः । १ । १ । ९ ॥ स्वाहाभुक् २७ दनुजद्विट् २८ द्युषत् २९ दौषत् ३० स्वर्गी ३१ शौभः ३२ निलिम्पः ३३ सुचि- रायुः ३४ स्थिरः ३५ । इति शब्दरत्नावली ॥ तस्याः संख्या त्रयस्त्रिंशत्कोटयः । यथा, -- “सदारा विबुधाः सर्व्वे स्वानां स्वानां गणैः सह । त्रैलोक्ये तत्त्रयस्त्रिंशत्कोटीसंख्या यथा भव ॥” इति पाद्मोत्तरखण्डम् ॥ * गणदेवता यथा, -- “आदित्यास्तुषिता विश्वसाध्याभास्वरमारुताः । महाराजिकरुद्राश्च वसवो गणदेवताः ॥ आदित्या द्वादश प्रोक्तास्तुषितास्त्रिंशदेव हि । विश्वेदेवा दश प्रोक्ताः साध्या द्वादश कीर्त्तिताः ॥ आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा । शोभनः । लग्नापेक्षया बृहस्पतिः केन्द्रस्थः शोभनः लग्नापेक्षया शुक्रस्तृतीयषष्ठैकादशस्थः शोभनः । इति ज्योतिषम् ॥ (देव + भावे तल् । देवत्वम् । यथा, ऋगवेदे । १० । २४ । ६ । “मधुमन्मे परायणं मधुमत् पुनरायनम् । ता नो देवा देवतया युवं मधुमतस्कृतम् ॥” “हे देवा देवौ द्योतमानौ ता तौ युवं युवां नोऽस्मान् मधुमतः प्रीतियुक्तान् कृतम् कुरुतम् । केनेति उच्यते । देवतया देवत्वेन अणिमादि- देवतश्वर्य्ययोगेनेत्यर्थः ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवता स्त्री।

देवः

समानार्थक:अमर,निर्जरस्,देव,त्रिदश,विबुध,सुर,सुपर्वन्,सुमनस्,त्रिदिवेश,दिवौकस्,आदितेय,दिविषद्,लेख,अदितिनन्दन,आदित्य,ऋभव,अस्वप्न,अमर्त्य,अमृतान्धस्,बर्हिर्मुख,क्रतुभुज्,गीर्वाण,दानवारि,वृन्दारक,दैवत,देवता,दिव्योपपादुक,विवस्वत्,अनिमिष

1।1।9।2।3

बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः। वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्.।

सम्बन्धि1 : स्वर्गः

सम्बन्धि2 : देवरथः,देवर्षिः,देवसभा,अमृतम्,देवगङ्गा,देववृक्षः,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः

 : ब्रह्मा, विष्णुः, कामदेवः, शिवः, गणेशः, कार्तिकेयः, इन्द्रः, अश्विनीकुमारौ, अग्निः, यमः, वरुणः, वायुः, कुबेरः, पूर्वदिशायाः_स्वामी, आग्नेयदिशायाः_स्वामी, दक्षिणदिशायाः_स्वामी, नैरृत्यदिशायाः_स्वामी, पश्चिमदिशायाः_स्वामी, वायव्यदिशायाः_स्वामी, उत्तरदिशायाः_स्वामी, ईशानदिशायाः_स्वामी, इष्टार्थोद्यमः, वायुदेवः, मनोनिग्रहः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवता¦ स्त्री देव + स्वार्थे तल्
“क्वचित् स्वार्थिका अपि प्रत्ययाःप्रकृतितो लिङ्गवचनान्यति{??}र्तन्ते” भाष्योक्तेः पुंस्त्वाति-क्रमेण स्त्रीत्वम्। देवे निर्जरे। देवतात्वञ्च
“वेदमेयत्यागो-द्देश्यत्वम् उद्देश्यत्वञ्च तस्येदमित्यारोपज्ञानविषययत्व-मिति” श्राद्धविवेकः। तच्च मन्त्रस्तुत्यत्वं वा। तदुभयं पितॄ-नामप्यस्तीति श्राद्धादौ तेषां देवतात्वम्। मन्त्रेण द्यो-त्यत्वं वा देवतात्वं यथाह ऋग्वेद भाष्योपोद्घाते माधवः
“तथा देवनार्थदीव्यतिधातुनिमित्तो देवशब्द इत्येतदाम्ना-यते।
“देवनाद्वैदेवोऽभूदिति तद्देवानां देवत्वमिति”। अतोदीव्यतीति देवः मन्त्रेण द्योत्यत इत्यर्थः।
“यस्य यस्यतु मन्त्रस्य उद्दिष्टा देवता तु या। तदाकारं भवे-त्तस्य देवत्वं देवतोच्यते” योगियाज्ञ॰। वैदिकमन्त्रभेदे देवता-भेदाः सर्वानुक्रमिकायामुक्तास्ततएवावसेयाः। तन्मूलंहेमा॰ ब्र॰ ख॰ उक्तमिह विस्तरभयानोद्धृतम्। मन्त्राणांतज्ज्ञाने फलमज्ञाने निन्दामाह हेमा॰ ब्र॰ योगियाज्ञ-
“आर्षं छन्दो दैवतञ्च विनियोगस्तथैव च। वेदितव्यं[Page3683-a+ 38] प्रयत्नेन व्राह्मणेन विशेषतः। अविदित्वा तु यः कुर्याद्यजनाध्ययनं जपम्। होममन्तर्जले दानं तस्य चाल्प-फलं भवेत्”। तथा
“यो विजानाति मन्त्राणामार्षं छ-न्दश्च दैवतम्। विनियोगं व्राह्मणञ्च मन्त्रार्थं ज्ञानकर्मच। एकैकस्य ऋषेः सोऽपि वन्द्योह्यतिथिवद्भवेत्। देव-तायाश्च सायुज्यं गच्छत्यत्र न संशयः। पूर्वोक्तेन प्र-कारेण ऋष्यादीन् वेत्ति यो द्विजः। अधिकारो भवेत्तस्यरहस्यादिषु कर्मसु”। ब्राह्मणेन मन्त्रेतरवेदभागेनसह वेदितव्यमित्यर्थः उत्तरत्र विनियोगव्राह्मण-योर्ज्ञेयतया निर्देशात्। तन्निरुक्तिरपि तेनैवोत्तरत्रदर्शिता यथा
“नैरुक्त्यं यस्य मन्त्रस्य विनियोगप्रयोजनम्। प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं तदिहोच्यते। एवं पञ्चविधं योगं जपकाले ह्यनुस्मरेत्। होमे चान्त-र्जले योगे स्वाध्याये यजने तथा” इति।

२ प्रदेयद्रव्य-स्याधिपतौ च दानशब्दे

३५

१९ पृ॰ तद्विशेषो दृश्यः। देवताभेदाश्च निरुक्ते दैवतकाण्डे उक्ता यथा(
“अग्न्यादिदेवपत्न्यन्तं देवताकाण्डमुच्यते। वाय्वादयोभगान्ताः स्युरन्तरिक्षस्थदेवताः। सूर्य्यादिदेवपत्न्यन्ताद्युस्थाना देवता इति”। त्रयस्त्रिंशत्पतिशब्दे

३३

५९ पृ॰देवतानां प्राधान्यतस्त्रयस्त्रिं शत्त्वमुक्तं किन्तु स्वस्वगण-पत्नीसहितानां तासां त्रयस्त्रिंशत्कोटिसंख्यात्वं य-थोक्तं पद्मपु॰ उत्तरख॰
“सदारा विबुधाः सर्वे स्वानां स्वानांगणैः सह। त्रैलोक्ये ते त्रयस्त्रिंशत्कोटिसंख्यतयाऽ-भवन्”। तेषां गणभेदाश्च गणदेवताशब्दे

२५

०२ पृ॰ उक्ताःदृश्याः। तन्मध्येऽधिकारिभेदेन देवताभेदा यथा
“यायस्याभिमता पुंसः सा हि तस्यैव देवता। किन्तु कार्यविशेषेण पजिता चेष्टदा नृणाम्। विशेषात् सर्वदा नायंनियमोह्यन्यथा नृप!। नृपाणां दैवतं विष्णुस्तथैव चपुरन्दरः। विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाक-धृक्। देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत्। गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते। बिद्याध-राणां वाग्देवी साध्यानां भगवान् हरिः। रक्षसांशङ्करो रुद्रः किन्नराणाञ्च पार्वती। ऋषीणां दैवतंव्रह्मा महादेवश्च क्षूलभृत्। मनूनां स्यादुमा देवी तथाविष्णुः समास्करः। गृहस्थानाञ्च सर्वे स्युर्ब्रह्मा वैब्रह्मचारिणाम्। वैखानसस्याम्बिका स्याद् यतीनाञ्ज महे-श्वरः। नतानां भगवान् रुद्रः कुष्माण्डानां विनायकः। सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः। इत्येवं भग-[Page3683-b+ 38] वान् व्रह्मा स्वयं देवोऽभ्यभावत” इति कूर्म॰ पु॰। देवानांवर्णभेदा भा॰ शा॰ मोक्षधर्मे
“आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा। अश्विनौच स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ। स्मृतास्त्वाङ्गिरसा देवा ब्राह्मणा इति निश्चयः। इत्येतत् सर्वदेवानांचातुर्वर्ण्यं प्रकीर्तितम्”। वैष्णवानां गणेशाद्यनन्तरं सन-कादिवैष्णवानां पूज्यत्वेन देवतात्वमुक्तं यथा(
“यत्र यत्र सुराः पूज्या गणेशाद्यास्तु कर्मिणाम्। विष्ण्वर्चने तत्र तत्र वैष्णवानां हि वैष्णवाः। विश्वक्सेनं ससनकं सनातनमतःपरम्। सनन्दं सनत्कुमा-रञ्च पञ्चैवं पूजयेत्ततः” पद्म॰ उत्तरख॰। देवषट्कं यथा
“गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम्। देव-षट्कञ्च संपूज्य नमस्कृत्य विचक्षणः” ब्रह्म॰ वै॰ प्रकृ॰। मास-विशेषे देवतामेदपूजा मन्त्रमहोदधावुक्ता यथा(
“अन्येष्वप्युपरागार्द्धोदययाम्यायनादिषु। कुर्यादल-भ्ययोगेषु विशेषाद्देवतार्चनम्। यथा यथेष्टदेवेषु नृणांभक्तिः समेधते। प्राप्यते तैरयत्नेन मनोऽभीष्टं तथातथा। शुचौ तत्तदहे कुर्याद्देवप्रस्वपनोत्सवम्। ऊर्जेतथैव देवानामुत्थापनविधिं सुधीः। माघकृष्णचतुर्दश्यांविशेषाच्छिवपूजनम्। आश्विनाद्यनवाहेषु दुर्गा पूज्यायथाविधि। गोपालं पूजयेद्विद्वान्नभःकृष्णाष्टमीदिने। रामं चैत्रे सिते पक्षे नवम्यामर्चयेत् सुधीः। वैशाखाद्यचतुर्दश्यां नरसिंहं प्रपूजयेत्। यजेच्छुक्लचतुर्थ्यान्तुगणेशं भाद्रमाघयोः। महालक्ष्मीं यजेद्विद्वान् भाद्रकृष्णाष्टमीदिने। माघस्य शुक्लसप्तम्यां विशेषाद्दिनभा-यकम्। या काचित् सप्तमी शुक्ला रविवारयुता यदि। तस्यां दिनेशं संपूज्य दद्यादर्घ्यं पुरोदितम्। तत्तत्-कल्पोदितानन्यान् देवताप्रीतिवर्द्धनान्। विशेषनिग्र-मान् कृत्वा भजेद्देवमनन्यधीः। आषा{??}ईकार्त्तिकी-मध्ये किञ्चिन्नियममाचरेत्। देवसम्प्रीतये{??}इद्वान् जपपूजादितत्परः। एवं यो भजते विष्णुं रुद्रं दुर्गां गणा-धिपम्। भास्करं श्रद्धया नित्यं स कदा{??} सीदति”। ( देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वं देवतात्वम् अग्मयेस्वाहेत्यादिमन्त्रएव देवतेति मीमांसकाः। तन्मतञ्चपूर्वपक्षविधया शब्दचि॰ उक्ता दूषितं तच्च अविग्रहशब्दे

४५

६ पृ॰ दर्शितम्। देवतानां चैतन्ये विग्रहवत्वे वामन्त्राणामेव देवतात्वं श्राद्धवि॰ समर्थितं यथा
“विग्रहवत्वं चेन्द्रादीनामपि तिर्यगधिकरणे दर्शितं देत-[Page3684-a+ 38] तात्वं हि तथाविधानां नेष्टमिति। नन्विन्द्रादीनां वि-ग्रहवत्त्वे किं प्रमाणम्? अर्थवाद इति चेन्न तस्य सिद्धे-ऽर्थेऽप्रामाण्यात्। कथं वा विग्रहवतामदेवतात्वम्? ऐन्द्रंहविरित्यादौ तद्धितादिभिः प्रकृत्यर्थस्य देवतात्वबोधनात्इन्द्रादिपदानि च सहस्रचक्षुरादिमतीषु व्यक्तिषु मुख्यानिमन्त्रपरत्वे लक्षणाप्रसङ्गात्। उच्यते ऐन्द्रादिपदका-माधिकारिकविधिवाक्यस्थकामिश्रुतिरत्र प्रमाणम् अन्यथास्वर्गिशरोरेऽप्यनाश्वासः स्यात्। यत्राप्यर्थवादादैन्द्रादिपद-प्राप्त्यवगतिः तत्रापि तत्फलपरत्वे रात्रिसत्रन्यायएवप्रमाणं विग्रहवतामिन्द्रादीनां सन्निधानस्य प्रत्यक्षबाधि-तत्वेन तथाविधानां पूज्यत्वासम्भवात् अगत्या तदाकार-तया ध्यातस्य मन्त्रस्य लक्षितस्य देवतात्वमिति रहस्यम्। इन्द्राकारतया ध्यानादिन्द्रप्रीतिरभ्युपपन्ना। तथा चयोगियाज्ञवल्क्यः
“यस्य यस्य तु मन्त्रस्य उद्दिष्टा या चदेवता। तदाकारं भवेत्तस्य देवत्वं देवतोच्यते” इति। ननु देवानां विग्रहवत्त्वे तेषामेवाराधितानां फलदातृत्वंकुतो न भवेत्? अलमपूर्वकल्पनया। तथा च भविष्यपुराणे
“यद्यद्द्रव्यं नरोऽमृष्टमादित्याय प्रयच्छति। तत्तस्य शत-साहस्रमुत्पादयति भास्करः” याज्ञवल्क्यः
“आयुः पूजांघनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्ति तथाराज्यं प्रीता नृणां पितामहाः”। तथा च देवताधि-मरणसिद्धान्तविरोधः स्यात्। उच्यते देवानामिन्द्रादीनांपितॄणां वस्वादीनां युगमन्वन्तरादिभेदेन नानात्वावगमात्फलोदयकाले पूर्वस्य च्युताधिकारत्वेन फलदातृत्वा-शक्तेः। अन्यस्य चानाराधितत्वेन फलदातृत्वायोगात्तत्रापूर्वे शब्दशक्तौ वाचकशब्दसद्भावात् सर्वत्रैव तदभि-घानम् अतएव काम्ये कॢप्तशक्तिर्लिङादिर्नित्ये निषेधेचापूर्वमाहेत्युक्तम्। एवञ्चापूर्बानुप्रवेशात् सहकारितयायदि देवतापि फलदात्री न क्वचित् कोऽपि विरोधः”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवता¦ f. (-ता)
1. A god, a deity or divine being.
2. Divinity; see देवत्व। E. देव divine, स्वार्थे तल् affix of the abstract: in the first case, अन् added; of whom the attribute is divinity.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवता [dēvatā], 1 Divine dignity or power, divinity; शाकल्य तस्य का देवतेत्यमृतमिति होवाच Bṛi. Up.3.9.1; cf. ŚB. on MS. 1.4.23;6.3.19.

A deity, god; Ku.1.1.

The image of a deity; Ms.4.13.

An idol.

An organ of sense. -Comp. -अगारः, -रम्, -आगारः, -रम्, -गृहम्, -स्थानम् a temple. -अधिपः an epithet of Indra.-अनुक्रमणी index of the Vedic deities. -अभ्यर्चनम् worshipping a deity; Ms.2.176. -आत्मन् a. of a divine nature; अस्त्युत्तरस्यां दिशि देवतात्मा Ku.1.1. -आयतनम्, -आलयः, -वेश्मन् n. a temple or chapel. -दर्शनम् manifestation of a deity; Nṛi. Up. -प्रतिमा the image of a god, an idol; देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च Mb. 6. 2.26. -स्नानम् the ablution of an idol.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवता/ देव--ता See. देवता.

देवता f. godhead , divinity (abstr. and concr.) RV. AV. Br. etc.

देवता f. image of a deity , idol Mn. iv , 130 MBh. Pur. ( ifc. -कKull. viii , 105 )

देवता f. N. of the organs of sense(See. देव) S3Br. ii , 5 , 2 , 2 etc.

"https://sa.wiktionary.org/w/index.php?title=देवता&oldid=500339" इत्यस्माद् पुनः प्राप्तिः