देवलोकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवलोकः, पुं, (देवानां लोकः ।) स्वर्गः । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । ५ । ३ । ४६ । “तस्मात् सज्जा भवन्त्वद्य देवलोकजयाय वै ॥”) अपि च । मत्स्यपुराणे । “भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महर्जनः । तपः सत्यञ्च सप्तैते देवलोकाः प्रकीर्त्तिताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=देवलोकः&oldid=141263" इत्यस्माद् प्रतिप्राप्तम्