देशान्तर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशान्तरम्, क्ली, (अन्यो देशः । मयूरव्यंसकादि- वत् समासः ।) सुमेरुलङ्कयोर्मध्यरेखास्वरूप- देशस्वदेशयोरन्तरयोजनम् । इति सिद्धान्तरह- स्यम् ॥ ये उदयान्तरकर्म्मणा लङ्कायामौद- यिका ग्रहा जातास्ते देशान्तरकर्म्मणा स्वपुरो- दयिकाः स्युः । तच्च द्बिविधं एकं पूर्ब्बापरं द्वितीयं याम्योत्तरं तच्चरसंज्ञमुक्तम् । यथा, -- “येऽनेन लङ्कोदयकालिकास्ते देशान्तरेण सुपुरोदये स्युः । देशान्तरं प्रागपरं तथान्यत् याम्योत्तरं तच्चरसंज्ञमुक्तम् ॥” इति सिद्धान्तशिरोमणिः ॥ * ॥ देशान्तरपरिभाषायां वृद्धमनुः । “वाचो यत्र विभिद्यन्ते गिरिर्व्वा व्यवधायकः । महानद्यन्तरं यच्च तद्देशान्तरमुच्यते ॥ देशनामनदीभेदान्निकटोऽपि भवेद्यदि । तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा ॥ दशरात्रेण या वार्त्ता यत्र न श्रूयतेऽथवा ॥ बृहस्पतिः । देशान्तरं वदन्त्येके षष्टियोजनमायतम् । चत्वारिंशद्वदन्त्येके त्रिंशदेके तथैव च ॥” इत्युद्वाहतत्त्वम् ॥ “मुनिद्बयवचनोक्तवागादियोजनादिभेदसामञ्ज- स्यार्थम् एवं व्याख्यायते त्रितयवैशिष्ट्ये त्रिंशद्- योजनाभ्यन्तरे द्वितयवैशिष्ट्ये तदुपरि एक- वैशिष्ट्ये चत्वारिंशद्योजनोपरि वाणीगिरि- महानद्यन्तरितत्वभेदाभावेऽपिषष्टियोजनोपरि वैदेश्यम् ।” इति शुद्धिचिन्तामणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशान्तर¦ न॰ अन्योदेशः मयूर॰ स॰।

१ देशभेदे तच्च स्मृतौपरिभाषितं यथाह वृद्धमनुः(
“वाचो यत्र विभिद्यन्ते गिरिर्वा व्यवधायकः। म-हानद्यन्तरं यत्र तद्देशान्तरमुच्यते। देशनामनदी-भेदान्निकटोऽपि भवेद् यदि। तत्तु देशान्तरं प्रोक्तंस्वयमेव स्वयम्भुवा। दशरात्रेण या वार्त्ता न श्रूयेता-थवा पुनः। वृहस्पतिः
“देशान्तरं वदन्त्येके षष्टियो-जनमायतम्। चत्वारिंशद्वदन्त्येके त्रिंशदेके तथैव च”
“इत्युक्तमुनिद्वयवचनोक्तवागादियोजनादिभेदसामञ्जस्या-र्थमेवं व्याख्यायते त्रितयवैशिष्ट्ये त्रिंशद् योज-नाभ्यन्तरे, द्वितीयवैशिष्ट्ये तदुपरि, एकवैशिष्ट्ये च-त्वारिंशद्योजनोपरि, वाणीगिरिमहानद्यन्तरितत्वभेदा-[Page3752-b+ 38] भावेऽपि षष्टियोजनोपरि, वैदेश्यमिति शुद्धिचिन्ता-मणिः” शु॰ त॰ रघु॰।
“देशान्तरगते प्रेते” शु॰ त॰
“क्लीवेदेशान्तरगते पण्डिते भिक्षुकेऽपि वा। योगशास्त्राभि-युक्ते च न दोषः परिवेदने” उ॰ त॰ शातातपःभूगोलस्थमध्यरेखातः पूर्वापरस्थे उत्तरदक्षिणस्थे वायोजनविशेषान्तररूपे चरसंज्ञके

२ पदार्थे तत्स्वरूपंसि॰ शि॰ उक्तं तच्च चरशब्दे

८९

८ पृ॰ दर्शितम्। अधि-कमत्र सि॰ शि॰ उक्तं तत्रादर्शितं दर्श्यते(
“यल्लङ्काज्जायनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत्सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः” मू॰
“अ-त्रोपपत्तिर्गोले इदानीं देशान्तरमाह” प्रमिता॰
“यत्ररेखापुरे स्वाक्षतुल्यः पलस्तन्निजस्थानमध्यस्थितैर्योजनैः। खेटभुक्तिर्हता स्पष्टभूवेष्टनेनोद्धृता प्रागृणं स्वं तु पश्चाद्ग्रहे” मू॰
“अत्रोपपत्तिस्त्रैराशिकेन गोलेऽभिहिता च। इदानी देशान्तरघटिका आह” प्रमि॰
“प्राग्भूविभागेगणितोत्थ{??}लादनन्तरं प्रग्रहणं विधोः स्यात्। आदौहि पश्चाद्विवरे तयोर्या भवन्ति देशान्तरनाडिकास्ताः। तद्घ्नं स्फुटं षष्टिहृतं कुवृत्तं भवन्ति देशान्तरयोजनानि। घटीगुणा षष्टिहृता द्युभुक्तिः स्वर्णं ग्रहे चोक्तवदेवकार्यम्। अर्कोदयादूर्द्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यांदिनपप्रवृत्तिः। ऊर्द्ध्वं तथाधश्चरनाडिकाभी रवावुदग्-दक्षिणगोलयाते” मू॰।
“यः किल मध्यरेखाया अपरिज्ञा-नात् ततः प्राक् पश्चाद्वा स्थितोऽस्मीति न वेत्ति तेनैवंज्ञातव्यम्। विधुग्रहणदिने घटिकायन्त्रेण स्पर्शकालेरात्रिगतं ज्ञेयम्। अथ च गणितेन स्पर्शकालो ज्ञेयः। गणितोत्थकालादनन्तरं प्रग्रहणं यदि दृष्टं तदा द्रष्टारेखातः प्राग्भूविभागे। यतो द्रष्टा यथा यथा रेखातःप्राग्व्रजति तथा तथा रेखोदयात् प्रागेवार्कोदयं प-श्यति। इतोऽन्यथा चेत् तदा पश्चाद् द्रष्टा। दृग्ग्र-हणप्रग्रहणकालयोरन्तरं देशान्तरघटिकास्ताभिर्गुणंषष्ट्या हृतं स्पष्टभूवेष्टनम् एवमनुपाताद्देशान्तरयोज-नानि। अथ वा किं योजनैः। यदि घटीषष्ट्या गति-र्लभ्यते तदा देशान्तरघटीभिः किमिति। एवं यत्फलमुत्पद्यते तत् प्रागृणं पश्चाद्धनमिति युक्तमुक्तम्। तथा प्राच्यां ताभिर्घटीमिर्दिनवारप्रवृत्तिरर्कोदयादूर्द्ध्वंभवति। प्रतीच्यां तु तस्मादधः। यतो लङ्कोदये वा-रादिः। अतएव च रवावुत्तरगोलस्थे चरार्द्धघटिका-भिरूर्द्ध्वम्। यतस्तदोन्मण्डलं क्षितिजादूर्द्ध्वम्। दक्षिणे[Page3753-a+ 38] त्वधोऽतस्तत्रोदयादधो वारप्रवृत्तिरिति सर्वं निरवद्यम्” प्रमि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशान्तर¦ n. (-रं)
1. foreign country.
2. Longitude or difference of long- itude. E. देश, and अन्तर different.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशान्तर/ देशा n. another country , abroad Mn. v , 78

देशान्तर/ देशा n. longitude , the difference from the prime meridian Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=देशान्तर&oldid=311258" इत्यस्माद् प्रतिप्राप्तम्