देह

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहः, पुं क्ली, (देग्धि प्रतिदिनम् । दिह् वृद्धौ + अच् ।) शरीरम् । इत्यमरः । २ । ६ । ७१ । न्यायमते पृथिव्या देहं योनिजम् अयोनिजञ्च । योनिजं जरायुजमण्डजञ्च । अयोनिजं स्वेदजो- द्भिदादिकम् । नारकिणां शरीरमप्ययोनिजम् । जलीयं देहमयोनिजं वरुणलोके प्रसिद्धम् । तैजसं देहमयोनिजं सूर्य्यलोके प्रसिद्धम् । वायो- र्देहमयोनिजं तदेव पिशाचादीनाम् । इति सिद्धान्तमुक्तावली ॥ * ॥ अथ नरकभोगदेहविवरणम् । तत्र यमं प्रति सावित्रीप्रश्नः । “स्वदेहे भस्मसाद्भूते यान्ति लोकान्तरं नराः । केन देहेन वा भोगं भुञ्जते च शुभाशुभम् ॥ सुचिरं क्लेशभोगेन कथं देहो विनश्यति । देहो वा किंविधो ब्रह्मन् ! तन्मे व्याख्यातुमर्हसि ॥” यमस्योत्तरम् । “शृणु देहविवरणं कथयामि यथागमम् । पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् ॥ देहिनां देहबीजञ्च स्रष्टुः सृष्टिविधौ परम् । पृथिव्यादिपञ्चभूतैर्यो देहो निर्म्मितो भवेत् ॥ स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ॥ वृद्धाङ्गुष्ठप्रमाणञ्च यो जीवपुरुषः कृतः । बिभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे ॥ स देहो न भवेद्भस्म ज्वलदग्नौ यमालये । जले न नष्ठो देही वा प्रहारे सुचिरे कृते ॥ न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा । तप्तद्रवे तप्तलौहे तप्तपाषाण एव च ॥ प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्द्ध्वपतनेऽपि च । न च दग्धो न भग्नश्च भुङ्क्त सन्तापमेव च ॥ कथितं देहवृत्तान्तकारणञ्च यथागमम् ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥ ईश्वरदेहस्य प्रमाणं यथा, -- “यन्मे गुह्यतमं देहं सर्व्वगं तत्त्वदर्शिनः । प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥” इति कूर्म्मपुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देह पुं-नपुं।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

2।6।71।1।2

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्.।

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देह¦ पु॰ न॰ दिह--घञ्।

१ शरीरे स च स्थूलसूक्ष्मकारण-भेदात् त्रिविधः। अङ्गशब्दे गात्रशब्दे च विवृतिःसूक्ष्मदेहस्यैव भोगो ब्रह्मवैवर्त्तपु॰ दर्शितो यथातत्र यमं प्रति सावित्रीप्रश्नः
“स्वदेहे भस्मसाद्भूते यान्तिलोकान्तरं नराः। केन देहेन वा भोगं भुञ्जते चशुभाशुभम्। देहो वा किंविधो ब्रह्मन्! तन्मे व्या-ख्यातुमर्हसि” तत्र यमस्योत्तरम्
“शृणु देहविवरणं क-थयामि यथागमम्। पृथिवी वायुराकाशस्तेजस्तोयमितिस्फुटम्। देहिनां देहवीजञ्च स्रष्टुः सृष्टिविधौपरम्। पृथिव्यादिपञ्चभूतैर्यो देहो निर्मितो भवेत्। स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह। वृद्धाङ्गुष्ठप्रमा-णञ्च यो जीवः पुरुषः कृतः। बिभर्त्ति सूक्ष्मदेहन्तंतद्रूपं भोगहेतवे। स देहो न भवेद्भस्म ज्वलदग्नौयमालये। जलेन नष्टी देहो वा प्रहारे सुचिरे कृते। [Page3753-b+ 38] न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा। तप्तद्रवे तप्तलौहे तप्तपाषाण एव च। प्रतप्तप्रतिमाश्ले-षेऽप्यत्यूर्द्धपतनेऽपि च। न च दाधो न भग्नश्च भुङ्क्तेसन्तापमेव च। कथितं देहवृत्तान्तकारणञ्च यथागमम्” स्थूलश्च नश्वरः।
“अन्तवन्त इमे देहा नित्यस्योक्ताःशरीरिणः” गीता। सूक्ष्मादित्रैविध्यं सां॰ का॰ त॰ कौ॰(
“सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाःस्युः। सूक्ष्मास्तेषां नियताः मातापितृजा निवर्तन्ते” सा॰ का॰
“त्रिधा विशेषाः स्युः। तान् विशेषप्रकारानाहसूक्ष्मा इत्यादि सूक्ष्मदेहाः परिकल्पिताः (

१ ) मातापि-तृजाः षाट्कौशिकाः तत्र मातृतो लोमलोहितमांसानि,पितृतस्तु स्नाय्वस्थिमज्जान इति षट्कोगणः। प्रकृष्टानिमहान्ति भूतानि प्रभूतानि तैः सह सूक्ष्मशरीरमेकोवि-शेषः मातापितृजो द्वितीयः महाभूतानि तृतीयः। महाभूतवर्ग च घटादीनां निवेशः इति। सूक्ष्ममा-तापितृजयोर्देहयोर्विशेषमाह सूक्ष्मास्तेषां विशेषाणांमध्ये ये, ते नियताः, नित्याः मातापितृजा निवर्तन्तेरसान्ता वा भस्मान्ता वा विडन्ता वेति सूक्ष्मशरीरंविभजते” त॰ कौ॰(
“पूर्वोत्पन्नम(श)सक्तं नियतं महदादिसूक्ष्मपर्यन्तम्। संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्” सां॰ का॰प्रधानेनादिसर्गे प्रतिपुरुषमेकैकमुत्पादितम् अस(श)म-व्याहतं शिलामप्यनुविशति नियतम् आ वादिसर्गात् आच महाप्रलयादवतिष्ठते। महदादिसूक्ष्मपर्यन्तं महद-हङ्कारैकादशेन्द्रियपञ्चतन्मात्रपर्यन्तम् एषां समुदायः सू-क्ष्मशरीरं शान्तघोरमूढैरिन्द्रियैरन्वितत्वाद्विशेषः। नन्व-स्त्वेतदेव शरीरं भोगायतनं पुरुषस्य, कृतं दृश्यमानेनषाट्कौशिकेन शरीरेणेत्यत आह संसरतीति उपात्तमुपात्त षाट्कौशिकं शरीरं जहाति हायं हायं चोपादत्तेकस्मात्? निरुपभोगं यतः, षाटकौशिकं शरीरं विनासूक्ष्मं शरीरं निरुपभोगं, तस्मात्संसरति। ननु धर्मा-धमनिमित्तः संसारः न च सूक्ष्मशरीरस्यास्ति यद्योगः,तत्कथं संसरतीत्यत आह भावैरधिवासितं धर्माधर्म-ज्ञानाज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वय्यर्य्याणि भावास्तदन्विताबुद्धिः तदन्वितञ्च सूक्ष्मशरीरमिति तदपि भावैरधिवासितंयथा सुरभिचम्पकसम्पर्काद्वस्त्रं तदामोदवासितम्भवतितस्माद्भावैरेवाधिवासितत्वात्संसरति। कस्मात्पुनः प्रधा-नमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठतीत्यत आह[Page3754-a+ 38] लिङ्गम् लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्य लिङ्ग-त्वमिति भावः” त॰ कौ॰। परिकल्पिना इत्यस्य अनुमिताइत्यर्थः तत्प्रयोगश्च परलोके कर्मफलभोगः सूक्ष्मदेहंविनाऽनुपन्नः भोगत्वात् स्थूलस्वदेहारब्धकृष्यादिजनि-तस्य शस्यस्य स्वदेहेनैव भोगवत् यद्यत् स्वदेहारब्ध कर्म-फलं तत्तत् स्वदेहेनैव भोग्यं नेतरेण अन्यथा कृतहान्य-कृताभ्यागमप्रसङ्ग इत्यादि तर्कश्चात्रानुसन्धातव्यः।
“किन्तु देहमयोनिजम्” भाषा॰
“देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः” शा॰ भा॰ कारिका
“देहिनाऽस्मिन्यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिः” गीता। उत्पत्तिस्थानभेदेवः देहश्चतुर्विधः
“देहश्चतुर्विधोज्ञेयोजन्तोरुत्पत्तिभेदतः। उद्भिज्जः स्वेदजोऽण्डोत्थश्चतुर्थश्चजरायजः” राघवभट्टधृतवाक्यम्। ज्योतिषोक्ते

२ लग्नेच
“देहाधीशः स्वगेहे बुधगुरुकविभिः संयुतो वी-क्षितो वा” जातका॰। दिह--भावे घञ्।

३ लेपने पु॰

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देह¦ mn. (-हः-हं) The body. E. दिह to collect together, affix घञ् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहः [dēhḥ] हम् [ham], हम् [दिह्-घञ्]

The body; देहं दहन्ति दहना इव गन्धवाहाः Bv.1.14.

A form, shape, bulk, mass,

A person, an individual.

An appearance, a manifestation. -हः Anointing, smearing. -ही A rampart, wall, mound. -Comp. -अन्तरम् another body; किं नु तद् दुष्कृतं कर्म पुरा देहान्तरे कृतम् Rām.7.24.15. ˚प्राप्तिःf. transmigration. -आत्मवादः materialism, the doctrines of Chārvāka. -आत्मवादिन् m. a materialist, a Chārvāka.-आवरणम् armour, dress. -आसवः urine. -ईश्वरः the soul. -उद्भव, -उद्भूत a. born in the body, inborn, innate.-करः a father. -कर्तृ m.

the sun.

the Supreme Soul.

father.

कृत् the five elements.

the God; देहकृत् देहभृत् देही Mb.

father; त्रसदस्युः पौरुकुत्सो यो$नरण्यस्य देहकृत् Bhāg.9.7.4.

कोषः the covering of the body.

a feather, wing &c.

skin.

क्षयः decay of the body.

sickness, disease. -गत a. incarnate, embodied.

जः son.

a. Belonging to the body; मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिप्यते Ms.1.14. -जा a daughter.-तन्त्र a. whose chief kind of existence is corporeal; त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये Bhāg.3.33. 5.

त्यागः death (in general).

voluntary death; resigning the body; तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरष्वोर्देह- त्यागात् R.8.95; Ms.1.62. -दः quick-silver. -दीपः the eye. -धर्मः the function of the body (आहारनिद्रामैथु- नादि); Rām.4.35.9. -धारकम् a bone. -धारणम् living, life. -धिः a wing. -धृष् m. air, wind. -पातः death.-बद्ध a. embodied, incarnate; देहबद्धमिव धर्ममभ्यगात् R. 11.35; Ku.2.47. -बन्ध bodily frame; ध्वंसते देहबन्धः U.3.38; Māl.9.2. -भाज् a. embodied, corporeal. (-m) any being possessed of a body or life, especially a man; नायं देवो देहभाजां नृलोके Bhāg.5.5.1. -भुज् m.

the soul.

the sun. -भृत् m.

living being, especially a man; धिगिमां देहभृतामसारताम् R.8.51; देहभ्रतां वर Bg.8.4; 14.14.

an epithet of Śiva.

life, vitality. -भेदः death. -मध्यम् waist.

यात्रा dying, death.

nourishment, food. -यापनम् fostering the body (शरीरपोषण); देवतातिथिशेषेण कुरुते देहयापनम् Mb.3.26.6. -लक्षणम् a mole, a black or dark spot upon the skin. -वर्मन् n. the skin. -वायुः one of the five vital airs of lifewinds; see प्राण. -विसर्जनम् death. -वृन्तम् the navel. -संचारिणी a daughter. -सारः marrow. -स्वभावः bodily temperament.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देह mn. ( दिह्, to plaster , mould , fashion) the body TA1r. Ka1tyS3r. Mn. etc.

देह m. (in a triad with मनस्and वाच्) Mn. i , 104 etc.

देह m. ( हंधारय, to support the body i.e. exist Nal. )

देह m. form , shape , mass , bulk (as of a cloud ; ifc. f( आ). ) Var.

देह m. person , individual Subh.

देह m. appearance , manifestation ifc. having the appearance of( संदेह-Ba1lar. iii , 43/44 )

देह m. N. of a country L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--human body; as a temple; philosophical interpretation of. Br. IV. ४३. ५३-54 ff. [page२-136+ २४]
(II)--one of the twenty अमिताभ gan2as. वा. १००. १७.
"https://sa.wiktionary.org/w/index.php?title=देह&oldid=431161" इत्यस्माद् पुनः प्राप्तिः