दोल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोलः, पुं, दोलनम् । दुलधातोर्भावे घञ्प्रत्य- येन निष्पन्नः । (दोल्यते अस्मिन् कृष्णेनेति । दोलि + अधिकरणे घञ् ।) श्रीकृष्णस्य यात्रा- विशेषः । अस्य प्रमाणं यथा, पाद्मे पातालखण्डे । “विशेषतः कलियुगे दोलोत्सवो विधीयते । फाल्गुने च चतुर्द्दश्यामष्टमे यामसंज्ञके ॥ अथवा पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ । पूजयेद्बिधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः ॥ सितरक्तेर्गौरपीतैः कर्पूरादिविमिश्रितैः । हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनोहरैः ॥ अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् । एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् ॥ पञ्चाहानि त्र्यहाणि स्युर्दोलोत्सवो विधीयते । दक्षिणाभिमुखं कृष्णं दालयानं सकृन्नराः ॥ दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः ॥” अपि च । जैमिनिरुवाच । “फाल्गुने मासि कुर्व्वीत दोलारोहणमुत्तमम् । यत्र क्रौडति गोविन्दो लोकानुग्रहणाय वै ॥ प्रत्यर्च्चां देवदेवस्य गोविन्दाख्यान्तु कारयेत् । प्रासादं पुरतः कुर्य्यात् षोडशस्तम्भमुच्छ्रितम् ॥ विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् । तस्मात् कार्य्यशतं त्यक्त्वा दोलाहे उत्सवं कुरु ॥” अथ दोलोत्सवविधिः । “चैत्रस्य शुक्लद्वादश्यां प्रातःकृत्यं समाप्य च । नित्यपूजां विधायाथ कुर्य्याद्दोलोत्सवं व्रती ॥ तदर्थञ्च विशेषेण नैवेद्यादिकमर्पयेत् । संमान्य वैष्णवांस्तैश्च गीतनृत्यादि कारयेत् ॥ महानीराजनं कृत्वा प्रक्षिपेदच्युतोपरि । गन्धानुलेपचूर्णानि विचित्राणि विभागशः ॥ सन्तोष्य वैष्णवांस्तैश्च गीतनृत्यादिभिः प्रभुम् । नत्वाभ्यर्थ्याप्रमत्तः सन् दोलामारोहयेच्छुभाम् ॥ नीत्वा वहिर्व्वेदिकायामुत्तुङ्गायां यथाविधि । अभ्यर्च्यान्दोलयेत् कृष्णं सर्व्वलोकावलोकितम् ॥ एवमभ्यर्च्चयन् यामे यामे त्वान्दोलयन् प्रभुम् । महोत्सवेन गमयेद्दिनं रात्रिञ्च यत्नतः ॥ एवं जागरणं कृत्वा वैष्णवैः सह वैष्णवः । प्रणम्य प्रार्थ्य निर्म्मञ्छ्य कृष्णं स्वालयमानयेत् ॥ चैत्रे मासि सिते पक्षे तृतीयायां रमापतिम् । दोलारूढं समभ्यर्च्ये मासमान्दोलयेत् कलौ ॥ यत् फाल्गुनस्य राकादावुत्तराफाल्गुनी यदा । तदा दोलोत्सवः कार्य्यस्तच्च श्रीपुरुषोत्तमे ॥” इति हरिभक्तिविलासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोल¦ पु॰ दुल--घञ्। दोलने श्रीकृष्णस्य स्वनामख्याते उत्स-वभेदे स च फाल्गुनपौर्णमास्यां कर्तव्यः खण्डतिथौ[Page3762-a+ 38] तस्य कुत्र खण्डे कर्तव्यता तच्च दोलोत्सवतत्त्वे उक्तं यथा(
“यदा अरुणोदयकाले पौर्णमासीलाभस्तदा तत्रैव दालयात्रा। उभयदिने अरुणोदयकाले पौर्णमासीलाभेपूर्वदिने सङ्गवमध्याह्नकालव्यापित्वात् त्रिसन्ध्यव्या-पित्वेन तिथेर्बलवत्त्वाच्च। यदा तिथिक्षयवशादरुणोदय-काले न पौर्णमासीलाभस्तदाः कदाचित् सहायभावेनचतुर्दश्यादरः। एतेन पूर्वदिने अरुणोदयं विना पू-र्वाह्णे पौर्णमासीलाभः परदिने मुहूर्त्तान्यूनतिथिलाभ-स्तदा फल्गूत्सवः पूर्वदिने युग्मवचनानुरोधादिति निर-स्तम् उभयदिने कर्मयोग्यप्रशस्तकालप्राप्ततिथिसन्देहएव युग्मवचनप्रवृत्तेः। एवं पञ्चमीपर्यन्तासु तिथिषुतत्करणे अनयैव दिशा व्यवस्थोन्नेयेति” दोलयात्रा-तत्त्वम्
“विशेषतः कलियुगे दोलोत्सवो विधीयते। फाल्गुने च चतुर्दश्या अष्टमे यामसंज्ञके। अथ वापौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ। पूजयेद्विधिवत्भक्त्या फल्गुचूर्णेश्चतुर्विधैः। सितरक्तैर्गौरपीतैः कर्पू-रादिविमिश्रितैः। हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनो-हरैः। अन्यैर्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम्। एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत्। पञ्चाहानित्र्यहाणि स्युर्दोलोत्सवो विधीयते। दक्षिणाभिमुखंकृष्णं दोलयानं सकृन्नराः। दृष्ट्वापराधनिचयैर्मुक्तास्तेनात्र संशयः” पाद्मे पातालखण्डे।
“जैमिनिरुवाचफाल्गुने मासि कुर्वीत दोलारोहणमुत्तमम्। यत्र क्री-डति गोविन्दो लोकानुग्रहणाय वै। प्रत्यर्च्चां देवदेवस्यगोविन्दाख्यान्तु कारयेत्। प्रासादं पुरतः कुर्य्यात्षोढशस्तम्भमुच्छ्रितम्। चतुरस्रं चतुर्द्वारं मण्डपं वेदि-कान्वितम्। चारुचन्द्रातप माल्यचामरध्वजशोभि-तम्। भद्रासनं वेदिकायां श्रीपर्णीकाष्ठनिर्मितम्। फल्गूत्सवं प्रकुर्वीत पञ्चाहानि त्र्यहाणि वै। फाल्गुन्याःपूर्वतो विप्राश्चतुर्दश्यां निशामुखे। वह्न्युत्सवं प्रकुर्वीतदोलमण्डपपूर्वतः। गोविन्दानुगृहीतन्तु यात्राङ्गंतत् प्रकीर्तितम्। आचार्यवरणं कृत्वा वह्निं निर्मथनो-द्भवम्। भूमिं संस्कृत्य विधिवत् तृणराशिं महोच्छ्रि-तम्। सपशुं कारयित्वा तु वह्निं तत्र विनिःक्षिपेत्। पूजयित्वा विधानेन कुष्माण्डविधिनाहुनेत्। गोविन्दंपूजयित्वा तु भ्रामयेत् सप्तधा विभुम्। तस्मिन् कालेहरिं दृष्ट्वा सर्वपापैः प्रमुच्यते। यत्नात्तं रक्षयेद्वह्निं यावद्यात्रा समाष्वते। प्रान्तयासे चतुदश्यां गोविन्दप्र-[Page3762-b+ 38] तिमां शुभाम्। वासयित्वा हरेरग्रे पूजयेत् पुरुषोत्त-मम्। उपचारविशिष्टैस्तु प्रत्यर्चामपि पूजयेत्। ततोवरञ्च वसनं मालाञ्च द्विजसत्तमाः। अर्चायां विन्यसेन्मन्त्रं परं ज्योतिर्विभावयन्। ततश्च प्रतिमा साक्षात्जायते पुरुषोत्तमः। रत्नान्दोलिकया तां वै नयेत् स्ना-नस्य मण्डपम्। नानातूर्य्यनिनादैश्च शङ्खध्वनिपुरःसरम्। जयशब्दैस्तथा स्तोत्रैः पुष्पवृष्टिभिरेव च। छत्र-ध्वजपताकाभिश्चामरव्यजनैस्तथा। निरन्तरं दीपिकाभि-स्तथा कुर्य्यान्महोत्सवम्। आगच्छन्ति तदा देवाः पिता-महपुरोगमाः। द्रष्टुमृषिगणैः सार्द्धं गोविन्दस्य म-होत्सवम्। भद्रासनेऽधिवास्यैनं पूजयेदुपचारकैः। महास्नानस्य विधिना स्नपनं तस्य कारयेत्। पञ्चामृतैश्च वैसर्वैः तेषामन्यतमेन वा। स्नानान्ते गन्धतोयेन श्री-सूक्तेनाभिषेचयेत्। संप्रोक्ष्य भूषयेद्देवं वस्त्रालङ्कार-माल्यकैः। नीराजयित्वा संपूज्य प्रासादं परिवेष्टयेत्। सप्तकृत्वस्ततो देवं दोलमण्डपमानयेत्। सुसंस्कृतायांरथ्यायां पताकातोरणादिभिः। अधोदेशे मण्डपं तंसप्तशोभ्रामयेत्ततः। ऊर्द्ध्वदेशे पुनस्तद्वत् स्तम्भवेद्यान्तु सप्तवै। यात्रावसाने च पुनर्भ्रामयेदेकविंशतिम्। इयं लीलाभगवतः पितामहमुखेरिता” स्कान्दे उत्कलखण्डे। गारुडे
“चैत्रे मासि सिते पक्षे दक्षिणाभिमुखं हरिम्। दोलारूढं समभ्यर्च्य मासमान्दोलयेत् कलौ” तन्नित्यताच पद्मपुराणे
“ऊर्जे रथं मधौ दोलां श्रावणे तन्तुपर्वच। चैत्रे मदनकारोपमकुर्बाणो व्रजत्यधः। विष्णुंदोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत्। तस्मात् कार्य-शतं त्यक्त्वा दोलाहे उत्सवं कुरु”। दोलोत्सवविधिः
“चैत्रस्य शुक्लद्वादश्यां प्रातःकृत्यं समाप्य च। नित्यपूजांविधायाथ कुर्य्याद्दोलोत्सवं व्रती। तदर्थञ्च विशेषेण नैवि-द्यादिकमर्पयेत्। संमान्य वैष्णवांस्तैश्च गीतनृत्यादि का-रयेत्। महानीराजनं कृत्वा प्रक्षिपेदच्युतीपरि। गन्धानुलेपचूर्णानि विचित्राणि विभागशः। सन्तोष्यवैष्णवांस्तैश्च गतिनृत्यादिभिः प्रभुः। नत्वाभ्यर्थ्याऽप्रमत्तःसन् दोलामारोहयेच्छुभाम्। नीत्वा बहिर्वेदिकाया-मुत्तुङ्गाया यथाविधि। अभ्यर्च्यान्दोलयेत् कृष्णं सर्व-लोकावलोकितम्। एवमभ्यर्चयन यामे यामे त्वान्दोलयन्प्रभुम्। महोत्सवेन गमयेद्दिनं रात्रिञ्च यत्नतः। एवंजागरणं कृत्वा वैष्णवैः सह वैष्णवः। प्रणम्य प्रार्थ्य नि-र्मञ्छ्य कृष्ण स्वालयमानयेत्। चैत्रे मासि सिते पक्षे[Page3763-a+ 38] तृतीयाया रमापतिम्। दोलारूढं समभ्यर्च्य मासमा-न्दोलयेत् कलौ। यत् फाल्गुनस्य राकादावुत्तराफल्गुनी यदा। तदा दोलोत्सवः कार्यस्तच्च श्रीपुरुषो-त्तमे” इति हरिभक्तिविलासः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोल¦ m. (-लः)
1. Swinging.
2. A festival on the 14th of Pha4lgun, the swinging of the juvenile KRISHNA. m. (-लः-ला or ली)
1. A litter, a swinging cot, a dooly.
2. A swing. f. (-ला) The indigo plant. E. दुल् to throw up or toss, to swing, affix अच्; fem. affix टाप् or ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोलः [dōlḥ], [दुल्-घञ्]

Swinging, rocking, oscillating; वेलादोलानिलचलम् Mb.1.21.1.

A swing, litter.

A festival held on the fourteenth or full-moon day of the month of Phālguna when figures of 'young Kṛiṣṇa' (बालकृष्ण) are swung in a swing. -Comp. -मण्डपः, -पम्, -यानम् a swing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोल m. ( दुल्)swinging , oscillating MBh. i , 1214

दोल m. a festival (on the 14th of फाल्गुन) when images of the boy कृष्णare swung W.

दोल m. a partic. position of the closed hand Cat.

"https://sa.wiktionary.org/w/index.php?title=दोल&oldid=313274" इत्यस्माद् प्रतिप्राप्तम्