दोला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोला, स्त्री, नीलिनी । (दोल्यते अस्यामिति । दोलि + घञ् + टाप् ।) उद्यानादिषु क्रीडार्थं काष्ठादिमयो हिन्दोलकः । हे~दला इति भाषा । वाह्यखट्वा । डुली इति भाषा । तत्पर्य्यायः । प्रेङ्खा २ । इत्यमरः । २ । ८ । ५३ ॥ दोली ३ खट्वाला ४ दोलिका ५ । इति शब्दरत्नावली ॥ प्रेङ्खः ६ । इति भरतधृतरत्नकोषः ॥ हिन्दोला ७ । इति हारावली । २१४ ॥ (यथा, महा- भारते । ३ । ६२ । २७ । “द्विधेव हृदयं तस्य दुःखितस्याभवत् तदा । दोलेव मुहुरायाति याति चैव सभां प्रति ॥”) दोलाद्वाराभ्रमणगुणः । वातकोपनत्वम् । अङ्ग- स्थैर्य्यबलाग्निकारित्वञ्च । इति राजवल्लभः ॥ अस्य विवरणं चतुर्दोलशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोला स्त्री।

नीली

समानार्थक:नीली,काला,क्लीतकिका,ग्रामीणा,मधुपर्णिका,रञ्जनी,श्रीफली,तुत्था,द्रोणी,दोला,नीलिनी

2।4।95।1।5

रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी। अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

दोला स्त्री।

दोला

समानार्थक:दोला,प्रेङ्खा

2।8।53।1।3

शिबिका याप्ययानं स्याद्दोला प्रेङ्खादिका स्त्रियाम्. उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे॥

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोला¦ स्त्री दुल--अच् अ वा टाप्। (डोली)

१ यानभेदे,

२ उद्यानादौ क्रीडार्थं दोलनयन्त्रे च। स्वार्थे क। दोलिका तत्रार्थे अमरः।

३ स्वेदनार्थे यन्त्रभेदे शब्दा-र्थचि॰। दोलां करोति क्यङ् दोलायते अदोलायिष्ट
“मतिर्दोलायते न्यूनं सतामपि खलोक्तिभिः” हितो॰
“दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम्। रथस्थंवामनं दृष्ट्वा पुनर्जन्म न विद्यते” स्क॰ पु॰ उत्क॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोला [dōlā] दोलिका [dōlikā], दोलिका 1 A litter, palanquin.

A swing, hammock (fig. also); आसीत् स दोलाचलचित्तवृत्तिः R.14.34; 9.46;19.44; संदेहदोलामारोप्यते K.27.

Swinging, fluctuation.

Doubt, uncertainty.

The Indigo plant.-Comp. -अधिरूढ, -आरूढ a. (lit.) mounted on a swing; (fig.) uncertain, irresolute, disquieted. -चलचित्त- वृत्ति a. One whose mind is agitated like a swing.-यन्त्रम् drugs tied up in a cloth and boiled out over a fire; Bhāva. P. -युद्धम् uncertainty of success, a fight with varying success; दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् Śi.18.8. -लोल a. uncertain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोला f. See. below.

दोला f. litter , hammock , palanquin , swing( fig. = fluctuation , incertitude , doubt) MBh. Ka1v. etc. (rarely लm. or f( ई). )

दोला f. the Indigo plant L.

"https://sa.wiktionary.org/w/index.php?title=दोला&oldid=313305" इत्यस्माद् प्रतिप्राप्तम्