दोष

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषः, पुं, (दूष्यते इति । दुष वैकृत्ये + णिच् + भावे घञ् ।) दूषणम् । यथा, -- “अदाता वंशदोषेण कर्म्मदोषाद्दरिद्रता । उन्मादो मातृदोषेण पितृदोषेण मूर्खता ॥” इति चानक्यम् । ४८ ॥ आचमनं विना भक्षणे दोषाभावो यथा, -- “मधुपर्के च सोमे च ताम्बूलस्य च भक्षणे । फलमूले चेक्षुदण्डे न दोषं प्राह वै मनुः ॥” इति कूर्म्मपुराणम् ॥ * ॥ द्बात्रिंशत्प्रकारा दोषा यथा, -- “यानैर्व्वा पादुकैर्व्वापि गमनं भगवत्गृहे । देवोतसवाद्यसेवा च अप्रणामस्तदग्रतः ॥ उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् । एकहस्तप्रणामस्तु तथा चैकं प्रदक्षिणम् ॥ पादप्रसारणञ्चाग्रे तथा पर्य्यङ्कबन्धनम् । शयनं भक्षणञ्चापि मिथ्याभाषणमेव च ॥ उच्चैर्भाषो मिथोजल्पो रोदनादि च विग्रहः । निग्रहानुग्रहौ चैव स्त्रीयूथक्रूरभाषणम् ॥ कश्मलावरणञ्चैव परनिन्दा परस्तुतिः । गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ॥ अपराधास्तथा विष्णोर्द्बात्रिंशत्परिकीर्त्तिताः ॥” इति पाद्मे पातालखण्डम् ॥ * ॥ (आततायिमारणे अधर्म्मदण्डो दोषो न भवति । यथा, मनुः । ८ । ३५१ । “नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति ॥” “न कश्चिदपि अधर्म्मदण्डः प्रायश्चित्ताख्यो दोषो वा भवति ।” इति तट्टीकायां कुल्लूकभट्टः ॥ अष्ट- वसूनामन्यतमः स च षष्ठः । यथा, भागवते । ६ । ६ । ११ । “द्रोणःप्राणो ध्रुवोऽर्कोऽग्निर्दोषो वसुर्विभावसुः ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोष पुं।

वातादयः

समानार्थक:दोष

3।3।226।5।1

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोष¦ पु॰ दुष--भावे करणे वा घञ्।

१ अपकर्षप्रयोजके वस्तु-निष्ठे धर्मभेदे। यथा काव्यदोषा श्रुतिकट्वादयः हेतुदोषाः व्यभिचारादयः भ्रमदोषाः पित्तादयः।

२ दूषणे
“दोषो विचारसुलभो यदि दुष्यते तत् व्याख्या ममप्रथममेव न दूषणीया” महेश्वरः।
“एको हि दोषोगुणस-न्निपाते निमज्जतीन्दाः किरणेष्विवाङ्कः” कुमा॰
“अदातावंशदोषेण कर्मदोषात् दरिद्रता। उन्मादो मातृदोषेणपितृदोषेण मूर्खता”। काव्यदोषास्तु काव्य॰ प्र॰ उक्ता यथा
“मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः। उभ-योपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः” हतिर-ककर्षः।
“दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम्। निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम्। सन्दिग्धमप्रतीतम् ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम्। अविमृष्टविधेयांशं बिरुद्धमतिकृत् समासगतमेव”। तत्रश्रुतिकटु परुषवर्णरूपम्

१ दुष्टम्।

२ च्युतसंस्कृतिव्याकरणलक्षणहीनम्।

३ अप्रयुक्त” तथाम्नातमपिकविभिर्नादृतम्। यथा दैवतशब्दः पुंस्याम्नातोऽपि नकेनचित् प्रयुज्यते।

४ असमर्थं यत्तदर्थं पठ्यते न चतत्राऽस्य शक्तिः यथा हन्तीति गमनार्थम्।

५ निहतार्थंयदुभयाथनप्रसिद्धेऽर्थे प्रयुक्तम्। यथा लोहितशब्द[Page3763-b+ 38] उज्वलार्थे।

६ अनुचितार्थं यथा, पशुपदं कातरताम-भिव्यनक्तीत्यनुचितार्थम्।

७ निरर्थकं पादपूरणमात्रप्रयो-जनं चादिपदम्।

८ अवाचकं यथा जन्तुपदतदात-र्य्यर्थे प्रयुक्तं न च तस्याभिधायकम्। यच्चोपसर्गसंसर्गाद-र्थान्तरगतम्। यथा दधात्यर्थे विदधातीति पदम्।

९ त्रिधेति व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात् अश्ली लम्। यथा साधनवायुविनाशशब्दा व्रीडादिव्यञ्जकाः।

१२ सन्दिग्धं यथा बन्द्यामिति किं हठहृतमहिलायां, किंवा नमस्यामिति सन्देहः।

१३ अप्रतीतं यत् केवले शास्त्रेप्रसिद्धम्। यथा आशयशब्दः योगशास्त्रादावेव वासनार्थोनान्यत्र।

१४ ग्राम्यं यत् केवले लोके स्थितम्। यथा कट्यादिशब्दाः।

१५ नेयार्थम्
“निरूढा लक्षणाःकाश्चित् सामर्थ्यादभिधानवत्। क्रियन्ते साम्प्रतं काश्चित्काश्चिन्नैव त्वशक्तितः” इति यन्निषिद्धं लाक्षणिकम्यथा चपेटापाटतेन निर्जितत्वं लक्ष्यते।

१६ क्लिष्टंयत्रार्थप्रतिपत्तिर्व्यवहिता यथा अत्रिनेत्रजज्योतिरुद्गम-भासिशब्दस्य कुमुदार्थपरत्वे क्लिष्टत्वम्।

१७ अविमृष्टःप्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत्। यत्र अनुवाद्य-मनुक्त्वा प्रथमं विधेयनिर्देशः यथा न्यक्कारोह्ययमेवेत्यत्रअनुवाद्यविधेययोरक्रमेण निर्देशो यत्र। समासान्तर्गत-त्वेन विधेयांशस्य झटित्यबोधोऽपि यत्र। यथा तत्रैव पद्येवृथोच्छूनैरित्यत्र वृथात्वमुच्छूनत्वे विधेयं तच्च समासान्त-र्गततया नाशु वोध्यते।

१८ विरुद्धमतिकृत्। यथा भवानी-पतिशब्दस्य भवान्याःपत्यन्तरप्रतीतिकारित्वम्।
“अपास्यच्युतसंस्कारमसमर्थं निरर्थकम्। वाक्येऽपि दोषाःसन्त्येते पदस्यांशेऽपि केचन”। वाक्यमात्रगतादोषास्तु। (
“प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम्। न्यूनाधिककथितपदम् अभवन्मतयोगमनभिहितवा-च्यम्। अपदस्थपदसभासं सङ्कीर्णं गर्भितं प्रसिद्धिह-तमृ। भग्नप्रक्रममक्रमम् अमतपरार्थं च वाक्यमेवतथा” रसानुगुणत्वं वर्णानां वक्ष्यते तद्विपरीतं

१ पतिकूलवर्णम् यथा शृङ्गारे टवर्गादि रौद्रे मधुरव-र्णादि।

२ उपहत उत्वं प्राप्तो लुप्तो वा विसर्गो यत्रतत् एतच्च असकृत्प्रयोगे एव दोषो न सकृत्प्रयोगे।

३ विसन्धिः सन्धेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वञ्च। संहितां न करीमीति स्वेच्छया सकृदपि दोषः प्रगृह्या-दिहेतुकत्वे तु असकृत्। तत्र चलण्डामरचेष्टितमि-त्यादौ अश्लीलता तर्वालीत्यादौ कष्टतेति बोध्यम्। [Page3764-a+ 38]

४ हतं लक्षणानुसरणेऽप्यश्रव्यं अप्राप्तगुरुभावान्तलघुरसाननुगुणञ्च वृत्तं यत्र तत् हतवृत्तम्।

५ न्यूनपदंयथा
“सुचिरमुषितं वल्कलधरैरिति” वेणीसंहारपद्येअस्माभिरिति विशेष्यं पदं न्यूनम्। तथा तत्रैव पद्ये
“गुरुः खेदं खिन्ने मयीत्यत्र” खिन्ने इत्यस्यात् पूर्वं इत्थ-मिति पदं च न्यूनम्।

६ अधिकं यथा स्फटिकाकृतिनिर्मलइत्यत्राकृतिपदमधिकम्।

७ कथितपदं यथा एकत्र पद्येएकस्यैव लीलादिशब्दस्य द्विधा प्रयोगे।

८ पतत्प्रकर्षम्। यत्रादौ गाढबन्धनरूपप्रकर्षः अन्ते तु तद्धीनता तत्।

९ समाप्तपुनरात्तम्। क्रिययैव वाक्यसमाप्तेर्नियमात्क्रियाप्रयोगादनन्तरं यत्र तत्क्रियासापेक्षकारकान्तरा-दिप्रयोगः तत्र समाप्त पुनरात्तत्वम्।

१० द्वितीयार्द्ध-गतैकवाचकशेषप्रथमार्द्धम्। द्वितीयार्द्धगतमेकं पदंप्रथमार्द्धस्य समापकं यत्र तथाभूतं वाक्यं दुष्टमित्यर्थः।

११ न भवन् मतः इष्टः योगः सम्बन्धः यत्र तत्।

१२ अवश्यं वक्तव्यमनुक्तम्।

१३ अस्थानस्थपदम्।

१४ अ-स्थानस्थसमासञ्च।

१५ संकीर्णं यत्र वाक्यान्तरस्य प-दानि वाक्यान्तरमनुप्रविशन्ति।

१६ गर्भितं यत्र वाक्यस्यमध्ये वाक्यान्तरमनुप्रविशति।

१७ प्रसिद्धिमतिक्रान्तंयथा रवो मण्डूकादिषु प्रसिद्धो, न तु सिंहादिनादे।

१८ भग्नः प्रक्रमः प्रस्तावो यत्र तत्।

१९ अविद्यमानः क्रमोयत्र तदक्रमम्।

२० अमतः प्रकृतविरुद्धः परार्थो यत्र। अर्थदोषास्तु। अर्थोऽपुष्टः कष्टोव्याहतपुनरुक्तदुष्क्रमग्राम्याः। सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च। अनवीकृतः सनियमाऽनियमविशेषाविशेषपरिवृत्ताः। साकाङ्क्षोऽपदयुक्तः महचरभिन्नः प्रकाशित विरुद्धः। विध्यनुवादायुक्तस्त्यक्त पुनः स्वीकृतोऽश्लीलः”। यत्रातिवि-ततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थं न वाधन्तइत्यपुष्टास्तत्र, न त्वसङ्गताः पुनरुक्ता वा। रसदोषास्तु
“व्यभिचारिरसस्थायिभावानां शब्दवाच्यता। कष्टकल्पनया व्यक्तिरनुभावविभावयोः। प्रतिकूलविभा-वादिग्रहो दीप्तिः पुनःपुनः। अकाण्डे प्रथनच्छेदौअङ्गस्याप्यतिविस्तृतिः। अङ्गिनोऽननुसन्धानं प्रकृतीनांविपर्ययः। अनङ्गस्याभिधानञ्च रमे दोषाः स्युरीदृशाः”। ( चन्द्रालोके तु दोषसामान्यविशेषलक्षणान्युक्त्वा दिङ्-मात्रमुदाहृतं यथा
“स्याच्चेतोविशता येन सक्षता रमणीयता। शब्देऽर्थे चकृतोन्मेषं दोषमुद्धापयन्ति तम्। भवच्छ्रुतिकटुर्वर्णः श्रव-[Page3764-b+ 38] णोद्वेजने पटुः। विख्यायते व्याकरणविरुद्धं च्युतसं-स्कृतिः। अप्रयुक्तं दैवतादौ शब्दे पुंलिङ्गतादिकम्। असमर्थन्तु हन्त्यादेः प्रयोगो गमनादिषु। स हन्ति हन्तकान्तारे कान्तः कुटिलकुन्तलः। निहतार्थं लोहितादौशोणितादिप्रयोगतः। एकाक्षरं विना भूभ्रूक्ष्मादिकं ख-लतादिवत्। व्यनक्त्यनुचितार्थं यत्पदमाहुस्तदेव तत्। इयमुद्धतशाखाग्रकेलिकौतुकवानरी। निरर्थकं तुही-त्यादि पूरणैकप्रयोजनम्। अर्थे विदधदित्यादौ दधदा-द्यमवाचकम्। धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः। अश्लीलं त्रिविधं व्रीडाजुगुप्साऽमङ्गलात्मना। आह्ला-दसाधनं वायुः कान्तालाशे भवेत् कथम्। स्याद्द्व्यर्थ-मिह सन्दिग्धं न द्यां यान्ति पतत्त्रिणः। स्यादप्रतीतंशास्त्रैकगम्यं वीताऽनुमादिवत्। शिथिलं, शयनेलिल्ये मच्चित्तं ते शशिश्रियि। मस्तपृष्ठकटीलोष्ठ-गल्लादि ग्राम्यमुच्यते। नेयार्थं लक्षणात्यत्तप्रसरादमनो-हरम्। हिमांशोर्हारधिक्कारजागरे यामिकाः कराः। क्लिष्टमर्थो यदीयोऽर्थश्रेणितः श्रेणिमृच्छति। हरिप्रिया-पितृवारप्रवाहप्रतिमं वचः। अविकृष्टविधेयांशः समास-पिहिते बिधौ। विशन्ति विशिखप्रायाः कटाक्षाःकामिनां हृदि। अपराधीन इत्यादिविरुद्धमतिकृन्मतम्। अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरा। रसाद्यनुचिते वर्णेप्रतिकूलाक्षरं विदुः। न मामङ्गद! जानासि रावणंरणदारुणम्। यस्मिन्नुपहतो लुप्ती विसर्ग इह तत्तथा। कुसन्धिः वटवागच्छ विसन्धिः नृपती इमौ। हत-वृत्तमनुक्तोऽपि छन्दीदोषश्चकास्ति चेत्। विशाल-लोचने! पश्याऽम्बरं तारातरङ्गितम्। न्यूनं त्वत्खङ्ग-सम्भूतयशः पुष्पं नभस्तलम्। अधिकं भवतः शत्रून्दशत्त्यसिलताफणी। कथितं पुनरुक्ता वाक् श्यामाब्ज-श्यामलोचना। विकृतं दरविकृतैरैयरुः कुञ्जराःपुरम्। पतत्प्रकर्षहीनाऽनुप्रासादित्वे यथोत्तरम्। गम्भोरारम्भदम्भोलिपाणिरेष समागतः। समाप्तपुनरात्तंस्यादेष पीयूषभाजनम्। नेत्रानन्दी तुषारांशुरेत्यम्बु-निधिवान्धवः। अर्द्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मि-तम्। मेघारम्भं स्तुमः शम्भुमर्द्धरम्भोरुविग्रहम्। अभवन्मतयोगः स्यान्न चेदभिमतोऽन्वयः। येन वद्धोऽम्बुधिर्य्यस्य रामस्यानुचरा वयम्। स एष लङ्कालङ्कारंरावणं हन्तुसुद्यतः। द्विषां सम्पदमाच्छिद्य यः शत्रून्समपूरयत्। अस्थानस्थसमासं नविद्वज्जनमनोरमम्। [Page3765-a+ 38] मिथः पृथग्वाक्यपदैः सङ्कीर्णं यत्तदेव तत्। वक्त्रेणभ्राजते रात्रिः कान्ता चन्द्रेण राजते। ब्रह्माण्डंत्वद्यशः पूरगर्भितं भूमिभूषणम्। आकर्णय पयः पूर्ण-सुवर्णकलशायते। भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता। अक्रमः कृष्ण! पूज्यन्ते त्वामनाराध्य देवताः। अम-तार्थान्तरं मुख्येऽमुख्ये वार्थे विरोधकृत्। त्यक्तहारमुरःकृत्वा शोकेनालिङ्गिताऽङ्गना। अपुष्टार्थो विशेष्ये चेन्नविशेषोविशेषणात्। विशन्ति हृदयं कान्ताकटाक्षाः ख-ञ्जनत्विषः। कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसन्निभः। व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः। सहस्र-पत्रमित्रं ते वक्त्रं केनोपमीयते। कुतस्तत्रोपमा यत्रपुनरुक्तः सुधाकरः। दुःक्रमग्राम्यसन्दिग्धास्त्रयो दोषाःक्रमादमी। त्वद्भक्तः कृष्ण! गच्छेयं नरकं स्वर्गमेव वा। एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम्। ब्रूतकिं मेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः। अनौचित्यंकीर्त्तिलतां तरङ्गयति यः सदा। प्रसिद्ध्या विद्ययावापि विरुद्धं द्विविधं मतम्। न्यस्तेयं पश्य कन्दर्प-प्रतापधवलद्युतिः। केतकी शेखरे शम्भोर्धत्ते चन्द्रकला-तुलाम्। सामान्यपरिवृत्तिः स्यात् कुण्डलच्छविविग्रहा। विशेषपरिवृत्तिः स्याद्दयिता मम चेतसि। द्वे स्तः सह-चराऽचारुविरुद्धान्योन्यसङ्गती। ध्वाङ्क्षाः सन्तश्च तनयंस्वं परञ्च न जानते। सरोजनेत्र! पुत्रस्य मुखेन्दु-मवलोकय। पालयिष्यति ते गोत्रमसौ नरपुरन्दरः। पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके। यथानु-सारमभ्यूहेद्दोषान् शब्दार्थसम्भवान्”।

३ व्यावृत्तिव्यव-हारान्यतरप्रयोजनविघटके धर्मभेदे स च दोषस्त्रिविधः। अव्याप्तिः अतिव्याप्तिः असम्भवः।

४ विध्यतिक्रमजनितेऽदृष्टभेदे मीमांसकाः।

५ गुरुतल्पगमनाभक्ष्यभक्षणादिज-निते पापे मेदि॰। दुष--वैकृत्ये करणे घञ्।

६ वातपित्त-कफेषु यथाह भाव॰ प्र॰ अथ दोषाः प्रवक्ष्यन्ते इत्युपक्रमेदोषस्वरूपमाह वाग्भटः
“वायुः पित्तं कफश्चेति त्रयोदोषाः समासतः। विकृताऽविकृता देहं घ्नन्ति ते वर्द्ध-यन्ति च। ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्द्धसं-श्रयाः। वयोऽहोरात्रभुक्तानामन्तमध्यादिगाः क्रमात्” दोषशब्दस्य निरुक्तिमाह
“धातवश्च मलाश्चापि दुष्य-न्येभिर्यतस्ततः। वातपित्तकफा एते त्रयो दोषा इतिस्मृताः” दोषा इत्यत्र दुष वैकृत्ये इति दुषधातोःदुष्यन्त्ये भिरिति वाक्ये अकर्त्तरि च कारके संज्ञाया[Page3765-b+ 38] मित्यनेन सूत्रेण करणेऽर्थे घञ् प्रत्ययः।

७ तेषां विकारेच। गौ॰ उक्ते प्रवृत्तिप्रयोजके रागद्वेषमोहात्मके

८ धर्म-भेदे तल्लक्षणादिकं सू॰ भा॰ उक्तं यथा
“प्रवर्त्तनालक्षणा दोषाः” सू॰
“प्रवर्त्तना प्रवृत्तिहेतुत्वम्ज्ञातारं हि रागादयः प्रवर्त्तयन्ति पुण्ये पाप्रे वा। यत्र मिथ्याज्ञानं तत्र रागद्वेषाविति प्रत्यात्मवेदनीया हीमे दोषाः कस्मात्? लक्षणतो निर्दिश्यन्त इति कर्मल-क्षणाः खलु रक्तद्विष्टमूढाः रक्तो हि तत्कर्म कुरुते येनकर्मणा सुखं दुःखं वा भजते, तथा द्विष्टस्तथा मूढ इतिदोषा रागद्वेषमोहा इत्युच्यमाने बहुनोक्तं भवतीति” भा॰विवृतमेतत् तद्वृत्तौ यथा
“दोषं लक्षयति। दोषा इतिबहुवचनं रागद्वेषमोहात्मकलक्ष्यत्रयज्ञापनाय प्रवर्त्तनाप्रवृत्तिजनकत्वं तदेव लक्षणं येषाम् यद्यपीदं शरीरादृष्टे-श्वरेच्छादावतिव्याप्तं तथापि लौकिकप्रत्यक्षसविषयत्वेसतीति विशेषणीयं यागादिगोचरप्रमावारणाय प्रमा-न्यत्वे सतोति विशेषयन्ति”। तद्भेदाश्च सू॰ भा॰

४ अ॰

१ आह्निके उक्ता यथा
“तथा दोषाः” सू॰
“परीक्षिता इति बुद्धिसमानाश्रयत्वा-दात्मगुणाः, प्रवृत्तिहेतुत्वात् पुनर्भवप्रतिसन्धानसामर्थ्याच्चसंसारहेतवः, संसारस्यानादित्वादनादिना प्रबन्धेन प्रव-र्त्तन्ते, मिथ्याज्ञाननिवृत्तिस्तत्त्वज्ञानात् तन्निवृत्तौ राग-द्वेषप्रबन्धोच्छेदेऽपवर्ग इति प्रादुर्भावनिरोधधर्मका इत्ये-वमाद्युक्तं दोषाणामिति प्रवर्त्तनालक्षणा दोषा इत्युक्तंतथा चेमे मानेर्ष्यासूयाविचिकित्सामत्सरादयः ते कस्मा-न्नोपसङ्ख्यायन्ते इत्यत आह” भा॰।
“तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात्” सू॰
“तेषांदोषाणां त्रयोराशयस्त्रयः पक्षाः। रागपक्षाः--कामोमत्सरः स्पृहा तृष्णा लोभ इति। द्वेषपक्षाः--क्रोधःईर्ष्याऽसूया द्रोहोऽमर्ष इति। मोहपक्षाः--मिथ्याज्ञानंविचिकित्सा मानः प्रमादः इति। त्रैराश्यान्नोपसङ्ख्यायन्तेइति, लक्षणस्य तर्ह्यभेदात् त्रित्वमनुपपन्नम्, नानुपपन्नंरागद्वेषमोहार्थान्तरभावात् आसक्तिलक्षणो रागः,अमर्षलक्षणो द्वेषः, मिथ्याप्रतिपत्तिलक्षणो मोह इति। एतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम्, विजानात्ययं शंरीरीरागमुत्पन्नम्, अस्ति मेऽध्यात्मं रागधर्म इति। विरागञ्चविजानाति नास्ति मेऽध्यात्मं रागधर्म इति। एवमित-रयोरपीति। मानेर्ष्याऽसूयाप्रभृतयस्तु त्रैराश्यमनु-पतिता इति नोपसङ्ख्यायन्ते” भा॰। विवृतमेतत् वृत्तौ[Page3766-a+ 38]
“तेषां दोषाणां त्रयो राशयः त्रयः पक्षा न तु रागद्वेष-मोहानामेकैकत्वं तेषामर्थान्तरभावात् अवान्तरभेदवत्त्वात्तथा च भयशोकमानादीनामेष्वेवान्तर्भावान्न विभाग-न्यूनत्वं इच्छात्वद्वेषत्वमिथ्याज्ञानत्वरूपविरुद्धधर्मवत्त्वान्नविभागाधिक्यम् इच्छात्वादिकन्तु रागादावनुभवसिद्धंतत्र रागपक्षः कामो मत्सरः स्पृहा तृष्णा लोभो मायादम्भ इति कामो रिरंसा। रतिश्च विजातीयस्त्रीसंयोगः। नारीगताभिलाष इति तु न युक्तं स्त्रियाः कामेऽव्याप्तेः। मत्सरः स्वप्रयोजनप्रतिसन्धानं विना पराभिमतनिवार-णेच्छा यथा राजकीयादुदपानान्नोदकं पेयम् इत्यादि। एवंपरगुणनिवारणेच्छाऽपि। स्पृहाधर्माविरोधेन प्राप्तीच्छा। तृष्णा इदं मे न क्षीयतामितीच्छा उचितव्ययाकरणे-नापि धनरक्षणेच्छारूपं कार्पण्यमपि तृष्णाभेद एव। धर्मविरोधेन परद्रव्येच्छा लोभः। परबञ्चनेच्छा मायाकपटेन धार्मिकत्वादिना स्वोत्कर्षख्यापनेच्छा दम्भः। द्वेषपक्षाः क्रोध ईर्ष्याऽसूया द्रोहोऽमर्षोऽभिमान इतिक्रोधो नेत्रलौहित्यादिहेतुर्दोषविशेषः। ईर्ष्या साधारणेवस्तुनि परस्वत्वात्तद्ग्रहीतरि द्वेषः यथा दुरन्तदायादा-नाम्। असूया परगुणादौ द्वेषः द्रोहो नाशाय द्वेषःहिंसा तु दोषजन्या। परे तु तान्द्रोहं मन्यते। अमर्षःकृतापराधे असमर्थस्य द्वेषः अभिमानोऽपकारिण्यकिञ्चिकरस्यात्मनि द्वेषः। मोहपक्षा विपर्य्ययसंशयतर्कमान-प्रमादभयशोकाः। विपर्य्ययो मिथ्याज्ञानापरपर्य्यायोऽय-थार्थनिश्चयः एकधर्मिकविरुद्धभावाभावज्ञानं संशयः सएव विचिकित्सेत्युच्यते व्याप्यारोपाद्व्यापकप्रसञ्जनं तर्कःआत्मन्यविद्यमानगुणारोपेणोत्कर्षधीर्मानः गुणवति निर्गु-णत्वधीरूपस्मयोऽपि मानेऽन्तर्भवति। प्रमादः पूर्वकर्त्तव्य-तया निश्चितेऽप्यकर्त्तव्यताधीः एवं वैपरीत्येऽपि भयमनिष्ट-हेतूपनिपाते तत्परित्यागानर्हता ज्ञानं शोक इष्टवियोगेतल्लाभानर्हताज्ञानम्”

९ मिथ्याज्ञानजन्यवासनायां दुःख-जन्यप्रवृत्तिदोषा मिथ्याज्ञानानामिति सूत्रवृत्तौ चरमे दोष-शब्दस्य तथार्थत्वाभिधानात्।

१० वसुपुत्रभेदे द्रोणशब्दे दृश्यम्भ्रमजनकादोषास्तु पित्तादयः भाषापरिच्छेदे उक्ता यथा
“दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत्। पित्त-दूरत्वादिरूपो दोषो नानाविधः स्मृतः। ”
“अप्रमां प्रतिदोषः जनकः कारणम्। प्रमां प्रति गुणः कारणम्। तत्रापि पित्तादिरूपा दोषा अननुगताः। तेषां कारण-त्वम् अन्वयव्यतिरेकाभ्यामेव सिद्धम्। गुणस्य प्रमा-[Page3766-b+ 38] जनकत्वन्तु अनुमानात् सिद्धम्। यथा प्रमा ज्ञानसाधा-रणकारणभिन्नकारणजन्या जन्यज्ञानत्वात् अप्रमावत्। न च दोषाभाव एव कारणमस्त्विति वाच्यम् पीतःशङ्ख इति ज्ञानस्थले पित्तदोषसत्त्वाच्छङ्खत्वप्रमानुत्पत्ति-प्रसङ्गात्। विनिगमनाविरहात् अनन्तदोषाभावस्यकारणत्वमपेक्ष्य गुणकारणताया न्याय्यत्वात्। न चगुणसत्त्वेऽपि पित्तप्रतिबन्धाच्छङ्खे न सैत्यज्ञानम्। अतः पित्तादिदोषाभावानां कारणत्वमवश्यं वाच्यं तथाच किं गुणस्य हेतुत्वकल्पनयेति वाच्यम् तथाप्यन्वय-व्यतिरेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः। एवं भ्रमं प्रतिगुणाभावः कारणमित्यस्यापि सुवचत्वाच्च। तत्र दोषाःके इत्याकाङ्क्षायामाह। पित्तेति। क्वचित् पीतादि-भ्रमे पित्तं दोषः। क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमेदूरत्वं दोषः। क्वचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जन-मित्येवं दोषा भ्रान्तिजनका इत्यर्थः।

११ गोवत्से। स्वार्थेक। दोषक तत्रार्थे।
“वातपित्तकफा दोषाः दुष्याः स्युःसप्त धातवः” शा॰ ति॰ दोषक्षयवृद्धिज्ञानादिकं सुश्रुतेसूत्रस्थाने

१६ अ॰ उक्तं तत्रैव दृश्यम्। न्यायमतसिद्धहे-त्वाभासाख्याः हेतुदोषाश्च हेत्वाभासशब्दे वक्ष्यन्ते तत्-सामान्यलक्षणं च यादृशविशिष्टविषयकत्वेन ज्ञानस्यानु-मितितत्कारणीभूतज्ञानप्रतिबन्धकत्वं तत्त्वम्। तत्पक्षक-तत्साध्यकानुमितौ यावन्तोदोषाः सम्भवन्ति तावदन्यत-मत्वम् वा
“दुषधातोरिवास्माकं दोषसम्पत्तये गुणः” उद्भ॰

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोष¦ m. (-षः)
1. Fault, defect, blemish.
2. Sin, offence, transgression.
3. Disorder of the humours of the body, or defect in the functions of bile, circulation, or wind.
4. A calf. E. दुष् to be defective, affix घञ् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोष [dōṣa] दोषिक [dōṣika] दोषिन् [dōṣin], दोषिक दोषिन् See under दुष्.

दोषः [dōṣḥ], [दुष् भावे करणे वा घञ्]

(a) A fault, blame, censure, defect, blemish, weak point; पत्रं नैव यदा करीर- विटपे दोषो वसन्तस्य किम् Bh.2.93; Pt.1.242; नात्र कुलपति- र्दोषं ग्रहीष्यति Ś.3. 'will not find fault or take exception'; so पुनरुक्तदोषा R.14.9. विसृज्य शूर्पवद्दोषान् गुणान् गृह्णन्ति साधवः । दोषग्राही गुणत्यागी चालनीव हि दुर्जनः ॥ Udb. (b) An error, a mistake.

A crime, sin guilt, offence; जायामदोषामुत संत्यजामि R.14.34; Ms.8.25; Y.3.79; also अधर्मदोष; cf. Rām.3.66.16.

Noxious quality, badness, injurious nature or quality; as in आहारदोष; cf. Ms.1.14.

Harm, evil, danger, injury; बहुदोषा हि शर्वरी Mk.1.58; अनुसरति हि शशाङ्कं राहु-दोषे$पि तारा Pratimā1.25. को दोषः 'what harm is there'.

Bad or injurious consequence, detrimental effect; तत्किमयमातपदोषः स्यात् Ś.3; अदाता वंशदोषेण कर्मदोषाद्दरिद्रता Chāṇ.49; Ms.1.14.

Morbid affection, disease.

Disorder of the three humours of the body, or the three humours when in a disordered state,

(In Nyāya. &c.) A fault of a definition: (i. e. अव्याप्ति, अतिव्याप्ति and असंभव).

(In Rhet.) A fault or defect of composition (such as परदोष, पदांशदोष, वाक्यदोष, रसदोष, and अर्थदोष which are defined and illustrated in the 7th Ullāsa of K. P.).

A calf.

Refutation.

Evening, dusk; cf. दोषा; दोषे हृषीकेश उतार्धरात्रे निशीथ एको$वतु पद्मनाभः Bhāg.6.8.21. -Comp. -अक्षरम् accusation.-आकर a. faulty. -आरोपः charge, accusation. -एकदृश्a. fault-finding, censorious, picking holes. -कर, -कारिन्, -कृत् a. causing evil, hurtful. -गुणम् bad and good qualities; बीजानामुप्तिविच्च स्यात्क्षेत्रदोषगुणस्य च (जानीयात्) Ms.9.33. -ग्रस्त a.

convicted, guilty.

full of faults or defects. -ग्राहिन् a.

malicious, malignant.

censorious.-ज्ञ a. knowing faults &c.

(ज्ञः) a wise or learned man; R.1.93.

a physician.

a teacher. -त्रयम् disorder or vitiation of the three humours of the body; (i. e. वात, पित्त and कफ). -दृष्टि a. looking at faults, censorious, -प्रसंगः attaching blame, condemnation, censure. -भक्तिः f. tendency to a disease. -भाज् a. faulty, guilty, wrong, a villain. -भेदः a peculiar modification of the vitiation of three humours. -स्थानम् the seat of disorder of the humours.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोष m. evening , darkness (only BhP. , where personified as one of the 8 वसुs and husband of Night, vi , 6 , 11 ; 14 )

दोष m. rarely n. ( दुष्)fault , vice , deficiency , want , inconvenience , disadvantage Up. Mn. MBh. Ka1v. etc.

दोष m. badness , wickedness , sinfulness Mn. R.

दोष m. offence , transgression , guilt , crime( acc. with ऋor लभ्, to incur guilt) , S3rS. Mn. MBh. etc.

दोष m. damage , harm , bad consequence , detrimental effect( नै-ष दोषः, there is no harm ; कोऽत्र द्, what does it matter?) Mn. MBh. Ka1v. etc.

दोष m. accusation , reproach( षंकृor षेण-गम्with acc. , to accuse) R.

दोष m. alteration , affection , morbid element , disease ( esp. of the 3 humours of the body , viz. पित्त, वायु, and श्लेष्मन्, 1 [See. त्रिदोषand धातु] , applied also to the humours themselves) Sus3r.

दोष m. (also षक)a calf L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Vasu; husband of शर्वरी and father of शिम्- शुमार; a कला of विष्णु. भा. VI. 6. ११-14.

"https://sa.wiktionary.org/w/index.php?title=दोष&oldid=500378" इत्यस्माद् पुनः प्राप्तिः