दौहित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौहित्रः, पुं, स्त्री, (दुहितृ + “अनृष्यानन्तर्य्ये विदा- दिभ्योऽञ् ।” ४ । १ । १०४ । इति अञ् ।) दुहितुरपत्यम् । इति हेमचन्द्रः । ३ । २०८ ॥ तत्पर्य्यायः । कुतुपः २ । इति शब्दरत्नावली ॥ “त्रीणि श्राद्धे पवित्राणि दौहित्रं कुतुपस्तिलाः । दौहित्रं खड्गमित्याहुरपत्यं दुहितुस्तिलाः ॥ कपिलाया घृतञ्चैव दौहित्रमिति चोच्यते ॥” इति मार्कण्डेयपुराणम् ॥ “पौत्त्रदौहित्रयोर्लोके विशेषो नास्ति कश्चन । तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः ॥” इति दायभागः ॥ दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्त्रवदिति मनुः ॥ तदुतपत्तौ कन्यागृहे पितुर्भोजने दोषा- भावो यथा, -- “कन्यायां ब्रह्मदेयायामभुञ्जन् सुखमश्नुते । अथ भुञ्जति यो मोहात् भुक्त्वा स नरकं व्रजेत् ॥ अप्रजायाञ्च कन्यायां न भुञ्जीयात् कदाचन । दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि ॥ महासत्त्वसमाकीर्णात् नास्ति ते नरकाद्भयम् ॥ तीर्णस्त्वं सर्व्वदुःखेभ्यः परं स्वर्गमवाप्स्यसि । दौहित्रस्य तु दानेन नन्दन्ति पितरः सदा ॥ यत्किञ्चित् कुरुते दानं तदानन्त्याय कल्प्यते ॥ मातुः पितुश्च विज्ञेयं तच्छुभस्याभिगामिनः । मातुः पितुर्हिरण्यस्य दौहित्रोऽर्द्धमवाप्नुते ॥” इत्याद्ये वह्निपुराणे कन्यादाननामाध्यायः ॥ * ॥ कुतपञ्चासने दद्यात्तिलैश्च विकिरेन्महीम् ॥” इति मानवे । ३ । २३४ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौहित्र¦ पुंस्त्री॰ दुहितुरपत्यम् विदा॰ अञ्। दुहितुरपत्येस्त्रियां ङीप्।
“पौत्रदौहित्रयोर्लोके विशेषो नास्तिकश्चन। तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः” मनुः
“दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्रवत्। ” मनुः।

२ खड्गादौ न॰।
“दौहित्रं खड्गमित्याहु-रपत्यं दुहितुस्तिलाः। कपिलायाघृतं चैव दौहित्र-मिति चोच्यते” मार्कण्डेयपु॰
“त्रीणि श्राद्धे प्रशस्तानिदौहित्रं कुतुपस्तिलाः” तत्रैव।
“त्रीणि श्राद्धे पवि-त्राणि दौहित्रः कुतुपस्तिलाः। व्रतस्थमपि दौहित्रंश्राद्धे यत्नेन भोजयेत्। कुतपञ्चासने दद्यात् तिलैश्चविकिरेन् महीम्” मनुः
“कुतपं नेपालकम्बलम्” इतिकुल्लूकभट्टः।
“ब्राह्मविवाहेनोढायाः कन्याया पुत्रो-त्पत्तिं विना तद्गृहभोजने दोषोऽभिहितः” वह्निपु॰। (
“कन्यायां व्रह्मदेयायामभुञ्जन् सुखमश्नुते। अथ भु-ञ्जीत यो मोहात् भुक्त्वा स नरकं व्रजेत्। अप्रजायाञ्चकन्यायां न भुञ्जीयात् कदाचन। दौहित्रस्य मुखंदृष्ट्वा किमर्थमनुशोचंसि। महासत्त्वसमाकीर्णात् नास्तिते नरकाद्भयम्। नीर्णस्त्वं सर्वदुःखेभ्यः परं स्वर्ग-मवाप्स्यसि। दौहित्रस्य{??} दानेन नन्दन्ति पितरः[Page3772-a+ 38] सदा। यत्किञ्चित् कुरुते दानं तदानन्त्याय कल्पते”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौहित्र¦ m. (-त्रः) A daughter's son. f. (-त्री) A daughter's daughter. E. दुहितृ a daughter, affix अञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौहित्रः [dauhitrḥ], [दुहितुरपत्यं अञ्] A daughter's son; Ms.3.148; 9.131. -त्रम् Sesamum seed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौहित्र m. (fr. दुहितृ)a daughter's son Mn. MBh. etc.

दौहित्र m. N. of a prince VP. ( v.l. त्र्य)

दौहित्र n. a rhinoceros L.

दौहित्र n. sesamum-seed L.

दौहित्र n. ghee from a brownish cow L.

"https://sa.wiktionary.org/w/index.php?title=दौहित्र&oldid=500384" इत्यस्माद् प्रतिप्राप्तम्