द्रवत्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवत्वम्, क्ली, (द्रव + त्व ।) द्रवस्य भावः । तद्द्वि- विधम् । यथा, -- “सांसिद्धिकं द्रवत्वं स्यात् नैमित्तिकमुदाहृतम् । सांसिद्धिकन्तु सलिले द्बितीयं क्षितितेजसोः ॥ परमाणौ जले नित्यमन्यतोऽनित्यमुच्यते । नैमित्तिकं वह्नियोगात्तपनीयघृतादिषु ॥ द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत् ॥” इति भाषापरिच्छेदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवत्व¦ न॰ द्रवस्य भावः। न्यायोक्ते संग्राहके गुणभेदे भाषा॰
“सांसिद्धिकद्रवत्वं स्यान्नैमित्तिकमथापरम्। सांसिद्धि-कन्तु सलिले द्वितीयं क्षितितेजसोः। परमाणौ जले नित्य-मन्यत्रानित्यमुच्यते। नैमित्तिकं वह्नियोगात्तपनीयघृता-दिषु। द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत्” भाषा॰
“द्रवत्वन्निरूपयति सांसिद्धिकमिति। द्रवत्वं द्विविधंसांसिद्धिकं नैमित्तिकञ्चेति। द्वितीयं नैमित्तिकं पर-माणावेवेति। जलपरमाणौ द्रवत्वं नित्यम्। अन्यत्रपृथिवीपरमाण्वादौ जलद्व्यणुकादौ च अनित्यम्। कुत्रचित्तेजसि कुत्रचित् पृथिव्याञ्च नैमित्तिकं द्रवत्वम्। तत्र को वा नैमित्तिकस्तद्दर्शयति नैमित्तिकमिति। वह्नीतिपदन्तेजोऽर्थकम्। तथा च तेजःसंयोगादग्निसं-योगजन्यं नैमित्तिकं द्रवत्वम्। तच्च सुवर्णादिरूपेतेजसि घृतजतुप्रभृतिपृथिव्यां च वर्तत इत्यर्थः। द्रवत्वंस्यन्दने हेतुरिति असमवायिकारणमित्यर्थः। संग्रहेसक्तुकादिसंयोगविशेषे तद्द्रवत्वं स्नेहसहितमिति बोद्ध-व्यम्” मुक्ता॰। तल् द्रवताप्यत्र स्त्री
“न च न द्रवताद्रवता परितो हिमहानकृता न कृता क्वचन” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवत्व¦ n. (-त्वं)
1. Fluidity, natural or artificial.
2. Distillation.
3. Fusion. E. द्रव, and त्व affix; also with तल् द्रवता | द्रवस्य भावः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवत्व/ द्रव--त्व ( Hit. ) n. natural or artificial fluid condition of a substance , fluidity , wetness.

"https://sa.wiktionary.org/w/index.php?title=द्रवत्व&oldid=500398" इत्यस्माद् प्रतिप्राप्तम्