द्रव्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्यम्, क्ली, (द्रोरिव । द्रु + “द्रव्यञ्च भव्ये ।” ५ । ३ । १०४ । इति यत्प्रत्ययेन निपातनात् साधुः ।) वस्तु । (यथा, मनुः । ७ । ९ । “एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥”) तस्य क्रियाविशेषे नवपुराणभेदेन प्रशस्तत्वं यथा, -- “द्रव्याण्यभिनवान्येव प्रशस्तानि क्रियाविधौ । ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः ॥” इति नारायणदासकृतपरिभाषा ॥ तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्बिजः । भूमौ निःक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥ यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्वितः । अनिधायेतरद्द्रव्यमाचान्तः शुचितामियात् ॥ वस्त्रादिषु विकल्पः स्यात्तत् स्पृष्ट्वा चाचमेदिह । अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि । कृत्वा मूत्रपुरीषं वा द्रव्यहस्तो न दुष्यति ॥” इति कूर्म्मपुराणम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्यम् [dravyam], 1 A thing, substance, object, matter; the whole creation (अधिभूत); द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् Bhāg.12.6.38.

The ingredient or material of anything.

A material to work upon.

A fit or suitable object (to receive instruction &c.); द्रव्यं जिगीषुमधि- गम्य जडात्मनो$पि Mu.7.14; see अद्रव्य also.

An elementary substance, the substratum of properties; one of the seven categories of the Vaiśeṣikas; (the dravyas are nine: पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि); one of the six of the Jainas (जीव, धर्म, अधर्म, पुद्गल, काल and आकाश).

Any possession, wealth, goods, property, money: षड् द्रव्याणि 'मणयः पशवः पृथिवी वासो दास्यादि काञ्चनम्'; उपार्जनं च द्रव्याणां परिमर्दश्च तानि षट् Mb.12.59.64; तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः U.2.19.

A medicinal substance or drug.

Modesty.

Bell-metal, brass or gold; Rām.7.

Spirituous liquor.

A wager, stake.

Anointing, plastering.

An ointment.

The animal-dye, lac.

Extract, gum.

A cow; L. D. B.

A verse from the Ṛigveda. द्रव्यशब्द- श्छन्दोगैर्ऋक्षु आचरितः । ŚB. on MS.7.2.14. -Comp. -अर्जनम्, -वृद्धिः, -सिद्धिः f. acquisition of wealth.-ओघः f. affluence, abundance of wealth. -कल्कम् Viscous sediment given out by oily substances when ground; द्रव्यकल्कः पञ्चधा स्यात् कल्कं चूर्णं रसस्तथा । तैलं मष्टिः क्रमाज्ज्ञेयं यथोत्तरगुणं प्रिये ॥ Āyurveda. -गणः a class of 37 similar substances (in medicine). -परिग्रहः the possession of property or wealth. -प्रकृतिः f. the nature of matter.-वाचकम् a substantive. -शुद्धिः Cleansing of soiled articles. -संस्कारः the consecration of articles for sacrifice &c. -हस्तः a. holding anything in the hand; Ms.5.143.

"https://sa.wiktionary.org/w/index.php?title=द्रव्यम्&oldid=316508" इत्यस्माद् प्रतिप्राप्तम्