द्रष्टृ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रष्टृ¦ त्रि॰ दृश--तृच्।
१ दर्शके
२ साक्षात्कारके
३ प्रकाशके च
“नान्योतोऽस्तिद्रष्टा” श्रुतिः
“द्रष्टारोव्यवहाराणां सा-क्षिणश्च तएव हि” याज्ञ॰।
“दृश्यद्रष्टृसंयोगो हेय-हेतुः” योगसू॰
“चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभा-सिका। दृष्टिरित्युच्यते द्रष्टा दृष्टिकर्त्तेति चोच्यते शब्दा-थचि॰ धृतवाक्यम्। सांख्यमते यथा पुरुषस्य द्रष्टृत्वं तथा सां॰ सू॰ निरणायि( यथा
“द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणाम्” द्रष्टृ-त्वादिपञ्चकं वक्तृत्वादिपञ्चकं सङ्कल्पयितृत्वं चात्मनःपुरुषस्य, दर्शनादिवृत्तौ करणत्व त्विन्द्रियाणामित्यर्थः। ननु द्रष्टृत्वश्रोतृत्वादिकं कदाचिदनुभवे पर्यवसानात्पुरुषस्याविकारिणोऽपि घटतां वक्तृतादिकं क्रियामात्रंतत्कथं कूटस्थस्य घटतामिति चेन्न अयस्कान्तवत् सा-न्निध्यमात्रेण दर्शनादिवृत्तिकर्तृत्वस्यैवात्र द्रष्टृत्वादि-शब्दार्थत्वात्। यथा हि महाराजः स्वयमव्याप्रिय-माणोऽपि सैन्येन करणेन योद्धा भवत्याज्ञामात्रेण प्रे-रकत्वात् तथा कूटस्थारपि पुरुषश्चक्षुराद्यखिलकरणै-र्दष्टा वक्ता सङ्कल्पयिता चत्येवमादिर्भवति संयोगा-ख्यसान्निध्यमात्रेणैव तेषां प्रेरकत्वादयस्कान्तमणिवदिति। कर्तृत्वं चात्र कारकचक्रप्रयोक्तृत्वं करणत्वं क्रिया-हेतुव्यापारवत्त्वं तत्साधकतमत्वं वा कुठारादिवत्। यत्तु शास्त्रेषु पुरुषे दर्शनादिकर्तृत्वं निषिध्यते तदनु-कूलकृतिमत्त्वं तत्तत्क्रियावत्त्वं वा। तथा चोक्तम्
“अत आत्मनि कर्तृत्वमकर्तृत्वं च संस्थितम्। निरि-[Page3782-b+ 38] च्छत्वादकर्त्तासौ कर्त्ता सन्निधिमात्रतः” इति अतएवकारकचक्रप्रयोक्तृताशक्तेरात्मस्वरूपतया द्रष्टृत्ववक्तृत्वा-दिकमात्मनो नित्यमिति श्रूयते।
“न द्रष्टुर्द्दृष्टेर्विपरि-लोपो विद्यते न श्रोतुःश्रुतेर्विपरिलोपो विद्यत इत्या-दिनेति”। ननु प्रमाणविभागे प्रत्यक्षादिवृत्तीनामेव क-रणत्वमुक्तमत्र कथमिन्द्रियस्योच्यत इति चेन्न अत्रदर्शनादिरूपासु चक्षुरादिद्वारकबुद्धिवृत्तिष्वेवेन्द्रियाणांकरणत्ववचनात्। तत्र पुरुषनिष्ठे बोधाख्यफले वृत्तीनांकरणत्वस्योक्तत्वादिति” प्र॰ भाष्यम्। सा॰ का॰ तत्त्वकौमुद्योस्तथैव व्यवस्थापितं यथा
“तस्माच्च विषर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यंमाध्यस्थ्यं द्रष्टृत्वमर्थिभावश्च
“तत्र चेतनत्वेन अवि-षयत्वेन च साक्षित्वद्रष्टृत्वे दर्शिते चेतनोहि द्रष्टाभवति नाचेतनः। साक्षी च दर्शितविषयो भवति यस्मैप्रदर्श्यते विषयः स साक्षी यथा हि लोके अर्थिप्रत्य-र्थिनौ विवादविषयं साक्षिणे दर्शयतः एवं प्रकृतिरपिस्वचरितं विषयं पुरुषाय दर्शयतीति पुरुषः साक्षी। न चाचेतनोविषयो वा शक्योविषयं दर्शयितुमिति चैत-न्यादविषयत्वाच्च भवति साक्षी अतएव द्रष्टापि भवति” त॰ कौ॰ न्यायमते च दर्शनादिज्ञानाश्रयत्वादात्मनोद्रष्टृत्वंसुव्यक्तमिति भेदः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रष्टृ¦ mfn. (-ष्टा-ष्ट्री-ष्टृ) Who or what sees, a spectator. E. दृश् to see, तृच् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रष्टृ [draṣṭṛ], m. [दृश्-तृच्]
A seer, one who sees mentally; as in ऋषयो मन्त्रद्रष्टारः, द्रष्टृत्वमकर्तृभावश्च Sāṅ. K.19.
A judge; संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः Mk.9.3.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रष्टृ m. one who sees AV. S3Br. MBh. etc. (also as 2nd sg. fut. MBh. i , 1685 )
द्रष्टृ m. one who sees well R. ii , 80 , 3
द्रष्टृ m. one who examines or decides in a court of law , a judge Ya1jn5. Mr2icch.