द्राक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्षा, स्त्री, (द्राङ्क्ष्यते काङ्क्यते इति । द्राक्षि काङ्क्षे + घञ् । आगमशासनस्यानित्यत्वात् न लोपः ।) फलविशेषः । दाख इति किश्मिश् इति च भाषा । आङ्गूर इति यवनभाषा । तत्पर्य्यायः । मृद्वीका २ गोस्तनी ३ स्वाद्वी ४ मधुरसा ५ । इत्यमरः । २ । ४ । १०७ ॥ चारु- फला ६ कृष्णा ७ प्रियाला ८ तापसप्रिया ९ गुच्छफला १० रसाला ११ अमृतफला १२ कृष्ण १३ चारुफला १४ । इति जटाधरः ॥ रसा १५ । इति शब्दरत्नावली ॥ अस्य गुणाः । अतिमधुरत्वम् । अम्लत्वम् । शीत- पित्तार्त्तिदाहमूत्रदोषनाशित्वम् । रुच्यत्वम् । वृष्यत्वम् । सन्तर्पणत्वञ्च । इति राजनिर्घण्टः ॥ स्निग्धत्वम् । शीतबलकारित्वम् । हृद्यत्वम् । तृष्णावायुरक्तपित्तक्षतक्षीणतानाशित्वञ्च । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्षा स्त्री।

द्राक्षा

समानार्थक:मृद्वीका,गोस्तनी,द्राक्षा,स्वाद्वी,मधुरसा

2।4।107।2।3

बला वाट्यालका घण्टारवा तु शणपुष्पिका। मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्षा¦ स्त्री द्राक्षि--अ बा॰ नलोपः। मृद्वीकायां गोस्तन्यां(किसमिस) अमरः।
“द्राक्षा पक्वा सरा शीता चक्षुष्यावृंहिणी गुरुः। स्वादुपाकरसा स्वर्या तुवरा सृष्टमूत्र-विट्। कोष्ठमारुतकृद् वृष्या कफपुष्टिरुचिप्रदा। हन्तितृष्णाज्वरश्वासवातवातास्रकामलान्। कृच्छ्रास्रपित्तसम्मो-हदाहशोषमदात्ययान्। आमा साऽल्पगुणा गुर्वी सै-वाम्ला रक्तपित्तकृत्। वृष्या स्याद् गोस्तनी द्राक्षा गुर्वीच कफपित्तहृत्। अवीजान्या स्वल्पतरा गोस्तनीसदृशीगुणैः। द्राक्षा पर्वतजा लघ्वी साऽम्ला श्लेष्माम्लपित्तकृत्। द्राक्षा पर्वतजा यादृक् तादृशी करमर्दिका” इति भावप्र॰तस्याः फलम् अण् हरीत॰ लुप्। तत्फलेऽपि स्त्री।
“द्राक्षे! द्रक्ष्यन्ति के त्वाममृत! मृतमसि” गीतगो॰
“आस्तीर्णाजिनरत्नासु द्राक्षाबलयभूमिषु” रघुः
“पुन्ना-गतालीबहुलं द्राक्षारसघनं क्वचित्” हरिवं॰

११

४ अ॰अप्राणिषष्ठ्यन्तात् परस्य द्राक्षाशब्दस्य तत्पुरुषे चूर्णा॰आद्युदात्तता। प्रस्थशब्दे परे मालादित्वात् पूर्वपदमाद्यु-दात्तम् द्राक्षाप्रस्थः। यवा॰ मतोर्मस्य न वः। द्राक्षामान्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्षा¦ f. (-क्षा) A grape. E. द्राक्षि to desire, affix अ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्षा [drākṣā], Vine, grape (the creeper or the fruit); द्राक्षे द्रक्ष्यन्ति के त्वाम् G&imarc;t.12; R.4.65; Bv.1.14;4.39. मधुक्षीरद्राक्षामधुमधुरिमा कैरपि पदेर्विशिष्यावाख्येयो भवति रसनामात्र- विषयः Ānandalaharī -Comp. -आसवः, उत्थम् a spiritious liquor drawn from vine. -घृतम् N. of a particular medicinal ghee. -रसः grape-juice, wine. -रिष्टः a particular beverage (in medicine).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्षा f. vine , grape Hariv. : Sus3r. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=द्राक्षा&oldid=500405" इत्यस्माद् प्रतिप्राप्तम्