द्रावक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रावकम्, क्ली, (द्रवति द्रावयति वा । द्रु द्रावि वा + ण्वु ल् ।) सिक्थकम् । इति राजनिर्घण्टः ॥ प्लीहरोगस्य औषधविशेषः । (यथा, -- “स्फटिकारीद्बयञ्चैव पलं द्बिपलिकन्तथा । नरसारं पलं देयं टङ्गणञ्च पलार्द्धकम् ॥ कासीशं शाणयुग्मञ्च प्रत्येकं श्लक्ष्णचूर्णितम् । सपञ्चलवणक्षारं कर्षमानं पृथक् पृथक् ॥ अपामार्गवृषस्यापि तथा कुष्माण्डकस्य च । रग्भावल्कलजं क्षारं प्रत्येकञ्चार्द्धशाणकम् ॥ श्लक्ष्णचूर्णीकृतञ्चैतत् लिम्पाकस्वरसे भुवि । सर्व्वमेतत् सुपिष्याथ रौद्रे दद्याद्विचक्षणः ॥ आनीय काचपात्रन्तु तत्र तत् पाचयेत् भिषक् प्रहरार्द्धं ददौ ज्वालां सालकाष्ठाग्निना मृदु । सुतप्ते काचकुम्भे च ततो ज्वालां निवारयेत् ॥ शीतं गते तदुद्धृत्य प्रक्षिपेच्च वराटकम् । वराटे द्रवतां याते ततः कर्म्मसु योजयेत् ॥ द्रावकस्य परीक्षेयं नान्यथा च भवत्यलम् । गुञ्जैकं स्याद्द्वयञ्चापि चूर्णेन मागधेन च ॥ शरपुष्पेण वा देयं तोयमुष्णं पिबेदनु ॥ पथ्यमेतद्द्रुतं देयं दुष्टशीताम्बुवर्ज्जितम् ॥” इति वैद्यककषायणसंग्रहे प्लीहसर्व्वोदरयकृ- दधिकारे ॥) अस्य अन्यद् विवरणं महाद्रावक- शब्दे द्रष्टव्यम् ॥

द्रावकः, पुं, (द्रवति चन्द्रांशुसम्पर्कादिति । द्रु + ण्वुल् ।) प्रस्तरभेदः । (द्रावयतीति + द्रु + णिच् + ण्वुल् ।) विदग्धः । (द्रवति पलायते इति । द्रु + ण्वुल् ।) मोषकः । इति मेदिनी । के, १०४ ॥ शिड्गः । इति शब्दमाला ॥ रस- भेदः । इति शब्दरत्नावली ॥ (द्रावि + ण्वुल् ।) हृदयग्राही । द्रवकारकः । इति धरणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रावक¦ पु॰ द्रवति चन्द्रकरसम्पर्कात् द्रु--ण्वुल्।

१ चन्द्रकान्त-मणौ

२ विदग्धे

३ मोषके च मेदि॰।

४ षिड्गे जारे शब्द-माला। द्रावयति द्रु--णिच् ण्वुल्।

५ ट्रवकारके

६ हृद-यग्राहिणि त्रि॰ धरणिः।

७ रसभेदे टङ्कने पु॰ शब्द-माला।

८ लालायां स्त्री टापि अत इत्त्वम् शब्दरत्ना॰

९ प्लीहाद्यौषधभेदे पु॰। ॰

१ सिक्थके न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रावक¦ m. (-कः) A kind of stone, (a loadstone.)
2. A wit, a wag, a sharp or clever man.
3. A thief.
4. A libertine, a lecher.
5. A pursuer, a chaser, one who causes to fly.
6. A sort of Ras or quality. n. (-कं) Bee's wax. E. द्रु to fly, affix ण्वुल् | द्रवति चन्द्रकरसम्पर्कात् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रावक [drāvaka], [द्रु-ण्वुल्] a.

Attracting, captivating.

Solvent.

Liquefying.

कः flux used to assist the fusion of metals.

The loadstone.

Moon-stone.

A thief.

A sharp or clever man, wit, wag.

A libertine, lecher. -कम् Wax.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रावक mfn. (fr. 2. द्रु, Caus. ; only L. )causing to run

द्रावक mfn. captivating , enchanting

द्रावक mfn. enchanting

द्रावक m. a pursuer or chaser

द्रावक m. a thief

द्रावक m. a wit , clever man

द्रावक m. a libertine

द्रावक m. a loadstone

द्रावक m. a flux to assist the fusion of metals

द्रावक m. distilled mineral acids

द्रावक m. a kind of रसor sentiment

द्रावक n. bee's wax (as melting)

द्रावक n. a drug employed in diseases of spleen.

"https://sa.wiktionary.org/w/index.php?title=द्रावक&oldid=316932" इत्यस्माद् प्रतिप्राप्तम्