द्वन्द्व

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वन्द्वम्, क्ली, (द्वौ द्वौ सहाभिव्यक्तौ । “द्वन्द्वं रहस्य- मर्य्यादावचन-व्युत्क्रमण-यज्ञपात्रप्रयोगाभि- व्यक्तिषु ।” ८ । १ । १५ । इति द्बिशब्दस्य द्बिर्व- चनं पूर्ब्बपदस्याम्भावोऽत्वञ्चोत्तरपदस्य नपुंस- कत्वञ्च निपात्यते ।) रहस्यम् । कलहः । (यथा, हितोपतेशे । ३ । ३२ । “शतं दद्यान्न विवदेदिति प्राज्ञस्य लक्षणम् । विना हेतुमपि द्बन्द्बमेतन्मूर्खस्य लक्षणम् ॥”) मिथुनम् । (यथा, रघुः । १ । ४० । “परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्बन्द्बेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥”) युग्मम् । इति मेदिनी । वे, १० ॥ (यथा, महा- भारते । १ । १३७ । १५ । “द्बन्द्बयुद्धञ्च पार्थेन कर्त्तुमिच्छान्यहं प्रभो ! ॥” शीतोष्णादि । यथा, माघे । ४ । ६४ । “सर्व्वर्त्तुनिर्वृतिकरे निवसन्नुपैति न द्बन्द्बदुःखमिह किञ्चिदकिञ्चनोऽपि ॥”) दुर्गम् । (अत्र पुंस्त्वमपि ।) अथ द्बन्द्बयुक्तिः । अथान्यत्रापि । “यावत् प्रमाणं नगरं हि राज्ञां ततो भवेदुत्तममध्यमान्त्यम् । त्रिंशत्तदर्द्धाष्टगुणोत्तरेण त्रिदेशजानां धरणीपतीनाम् ॥” गर्गस्तु । “यदन्यद्द्विविधं द्बन्द्बं प्रोच्यते धरणीभुजाम् । ताभ्यामेवातिरिच्येत मन्त्रद्बन्द्बं विशेषतः ॥ अन्येषु दैवाद् भिन्नेषु मन्त्रद्बन्द्बात् जयेन्नृपः । मन्त्रद्बन्द्बे हि भिन्ने हि न चान्यत् कार्य्यकार- कम् ॥” भोजस्तु । “यदैष वैरिदुर्लङ्घ्यं विस्तीर्णं विषमञ्च तत् । सप्रवेशापसरणं तद्द्वन्द्बमुत्तमं विदुः ॥” इति भोजराजकृतयुक्तिकल्पतरुः ॥

द्वन्द्वः, पुं, (द्वौ द्वौ सहाभिव्यक्तौ इति । निपा- तनात् साधुः । चार्थे द्बन्द्व इति निर्द्देशात् पुंस्त्वभ् ।) रोगविशेषः । समासभेदः । इति शब्दरत्नावली ॥ स तु भिन्नार्थानां पदानां समासः । वोपदेवेनास्य चसंज्ञा कृता । स इतरेतरयोगसमाहारभेदेन द्विधा भवति । इत- रेतरद्वन्द्वो यथा । हरिश्च हरश्च हरिहरौ । अत्र प्रत्येकपदप्राधान्यात् द्वित्वं बहुत्वं शेष- शब्दलिङ्गभाजित्वञ्च भवति । समाहारद्बन्द्बो यथा । वाक् च त्वक् च द्वयोः समाहारः वाक्- त्वचम् । अत्र संहतेरेकत्वादेकवचनं नित्य- क्लीवलिङ्गत्वञ्च भवति । इति मुग्धबोधम् ॥ (यदुक्तं, -- “द्बन्द्वो द्बिगुरपि चाहं मद्गृहे नित्यमव्ययीभावः ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वन्द्व नपुं।

स्त्रीपुरुषयुग्मम्

समानार्थक:स्त्रीपुंस,मिथुन,द्वन्द्व

2।5।38।2।3

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः। स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

द्वन्द्व नपुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

3।3।213।1।1

शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः। द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

द्वन्द्व नपुं।

युग्मम्

समानार्थक:युग्म,युगल,युग,द्वन्द्व

3।3।213।1।1

शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः। द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥

 : स्त्रीपुरुषयुग्मम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वन्द्व¦ न॰ द्वौ द्वौ सहाभिव्यक्तौ
“द्वन्द्वं रहस्यमर्य्यादावच-नव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु” पा॰ द्विशब्दस्यद्विर्वचनं पूर्वपदस्याम्भावोऽत्त्वञ्चोत्तरपदस्य नपुंसक-त्वञ्च निपात्यते एष्वेर्थेषु” सि॰ कौ॰ उक्ते

१ रहस्यादौ
“तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् इतरे विषयभूताः। द्वन्द्वम्मत्त्रयते रहस्यमित्यर्थः। मर्य्यादा स्थित्यनतिक्रमः। आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते माता पुत्रेणमिथुनं गच्छति पौत्रेण प्रपौत्रेणापीति मर्य्यादार्थः। व्युत्क्रमणं पृथगवस्थानम्। द्वन्द्वं व्युत्क्रान्ताः द्विवर्गसम्बन्धेन पृथगवस्थिताः। द्वन्द्वं यज्ञपात्राणि प्रयुनक्तिद्वन्द्वं संकर्षणवासुदेवौ। अभिव्यक्तौ साहचर्येणेत्यर्थः। योगविभागादन्यत्रापि द्वन्द्व इष्यते” सि॰ कौ
“अत्र अन्य-त्रापि तेन द्वन्द्वयुद्धान्यवर्त्तन्तेत्यादि सिद्धं द्वयोर्द्वयोर्यु-द्धान्यवर्तन्तेत्यर्थः वीप्सायां द्विर्वचनेऽप्यनेन तस्य रूपनिष्पत्तिः। द्वन्द्वसमाहारादौ तु द्वन्द्वशब्दप्रयोगः रूद्यावृत्त्या अवयवार्थराहित्येनाव्युत्पन्नत्वादिति बोध्यम्” शब्देन्दु॰। तत्र रहस्यं द्वाभ्यामेव ज्ञेयम्।

२ कलहे

३ मिथुने स्त्रीपुंसयोर्द्वये

४ युगले च मेदि॰

५ रोगभेदे

६ समा-सभेदे च पु॰ सच द्विधा समाहारेतरेतरयोगभेदात् तत्रसहतिप्राधान्ये समाहारद्वन्द्वः संहन्यमानप्राधान्ये इत-रेतरयोगः इति वैयाकरणाः इतरेतरयोगशब्दे

९२

३ पृ॰ दृश्यम् शब्दश॰ प्र॰ अन्यथा निरणायि यथा(
“यद्यदर्थकयन्नामव्यूहो यद्यत्प्रकारके। बोधे समर्थःस द्वन्द्वः समासस्तावदर्थकः। ”
“यद्यदर्थोपस्थापकस्यक्रमिकयादृशनामस्तोमस्य निश्चयस्तत्तदर्थप्रकारकान्वयबोधंप्रति तत्त्वेन समर्थस्तादृशनामनिवह एव तावदर्थकोद्वन्द्वससासः। पाणिपादं वादय धवखदिरौ छिन्धीत्यादौहि कर्मत्वाद्यंशे करचरणादिप्रकारकान्वयबोधं प्रत्यमादि-धर्मिकः करचरणाद्युपस्थापकस्य पाणिपादादिक्रमिक-नामस्तोमस्याव्यवहितोत्तरत्वसम्बन्धेन निश्चयः कारणम्अतः पाणिपादादिसमुदायः करचरणादितत्तदर्थे द्वन्द्वः। यत्तु पाणिपादमित्यादौ समाहारद्वन्द्वे सर्वत्रोत्तरपदेपाणिपादादिसाहित्ये लक्षणा अतएव नित्यं तत्रैक-वचनं ससाहारस्यैकत्वात् पदान्तरन्तु तादृशलक्षणाया-निरूढत्वसम्पादकं तथाविधसाहित्यस्य च स्वाश्रयनिष्ठ-त्वादिसम्बन्धेमैव द्वितीयाद्यर्थकर्मत्वादौ साकाङ्क्षत्वात्पाणिपादं वादयेग्वादेर्नायोग्यत्वमिति प्राच्यैरुक्तं तन्न[Page3792-b+ 38] युक्तं तुल्यवदेकक्रियान्वयित्वं बुद्धिविशेषविशेष्यत्वं वापाणिपादयोः साहित्यं तस्य च नानात्वसम्भवेन तद्गतद्वि-त्वादिबोधार्थं समाहारद्वन्द्वादपि द्विवचनाद्यापत्तेर्दुर्वा-रत्वात्। साहित्यस्य द्विबहुत्वेऽपि न समाहारद्वन्द्वस्यद्विवचनादिसाकाङ्क्षत्वं तादृशद्विगोरिवेति चेत् तर्हिपाणिपादप्रभृतीनां नानात्वेऽपि न तदर्थकस्य द्वन्द्वस्यद्विवचनाद्याकाङ्क्षत्वमित्येव वक्तुमुचितं कृतं साहित्य-भक्त्या हस्त्यश्वं धनमित्यादेरयोग्यताया दुर्वारतापाताच्चनामार्थयोर्भेदान्वयस्याव्युत्पन्नत्वेन हस्तिनामश्वानाञ्चसाहित्यस्य स्वाश्रयत्वादिसम्बन्धेन धनादावन्वयायोगात्तादृशसाहित्ये धनादेरभेदविरहाच्च। समाहारपरिभाषातु क्लीवलिङ्गत्वनित्यैकवचनत्वादिपदसंस्कारोपयोगितयै-वोपपन्ना न द्वन्द्वस्यार्थव्यवस्थापिका। एतेन धवखदि-रावित्यादावितरेतरद्वन्द्वेऽप्युत्तरपदे धवखदिरसाहित्या-श्रये लक्षणा अन्यथा द्विवचनादेः प्रकृत्यर्दतावच्छेदकवत्येवपर्य्याप्तिसम्बन्धेन स्वार्थद्वित्वाद्यनुभावकत्वव्युत्पत्तेर्धवखदि-रावित्यतो धवद्वयस्य खदिरद्वयस्य च प्रतीत्यापत्तेरिति-मीमांसकानाम्मतमप्यपास्तं तुल्यवदेकक्रियान्वयित्वं धव-खदिरविशेष्यकधीविशेष्यत्वं वा धवखदिरयोः साहित्यंतदाश्रयश्च धवद्वयादिरपीति तादृशसाहित्याश्रयलक्ष-कत्वपक्षेऽपि धवखदिरावित्यतो धबद्वयादिबोधस्य दुर्वार-तापत्तेः। न च त्रितयाविशेष्यकधवखदिरधर्मिकर्धाविशे-ष्यत्वमेव प्रकृते धवखदिरयोः साहित्यं तच्च न धवद्वया-देरिति वाच्यं तादृशसाहित्यान्वयस्यानुभवेनास्पर्शनात्तस्माद्यत्र नानाधर्माणां प्रकृत्यर्थतावच्छेदकत्वं तत्र तत्त-द्धर्मावच्छिन्ने समुदित एव पर्य्याप्तिसम्बन्धेन द्वित्वादिबो-धने द्विवचनादिकं साकाङ्क्षं न तु तादृशैकधर्मावच्छिन्नंपरित्यज्य तथाविधापरधर्मावच्छिन्ने, यतो धवखदिरा-वित्यादितो धवयोः खदिरयोश्च नाबोधप्रसङ्ग इति तत्त्वम्। घटघटेत्यादिकस्य घटकलसेत्यादिकस्य घटतद्घटेत्यादिकस्यच क्रमिकनामस्तोमस्य निश्चयत्वेन घटादेरन्वयबोधं प्रत्य-हेतुत्वमतो न तादृङ्नामनिवहो घटाद्यर्थे द्वन्द्बः। अतएवसमस्यमानपदार्थयोस्तत्त्वावच्छेदकयोर्वा यत्र मिथोभेदस्त-त्रैव द्वन्द्वस्य साधुत्वसूचनाय
“चार्थे द्वन्द्व” इति पाणिनिःप्राह। अतएव भेदगर्भसमुच्चयार्थकं चशब्दमन्तर्भाव्यं-धवश्च खदिरश्चेत्यादिकं विग्रहमस्य प्रयुञ्जते वृद्धाः, समु-पाददते च तत्र मिथोभेदप्राप्त्यर्थञ्चकारद्वयं, पीततत्पटयो-स्तादात्म्यमित्यादो तत्पदादेः पीताद्यभिन्नत्वेऽपि पीतत्व-[Page3793-a+ 38] तत्पटत्वाद्योः पदार्थतावच्छेदकयोरस्त्येव भेदः सुबर्थस्तुद्वित्वं न तत्र प्रकृत्यर्थेऽन्वेति पर्य्याप्तिसम्बन्धेन पीततत्पटेतस्य बाधात् सुबर्थद्वित्वादेस्तादृशसम्बन्धेनैव प्रकृत्यर्थसाका-ङ्क्षत्वात् परन्तु प्रकृत्यर्थतावच्छेदकयोः पीतत्वतत्पटत्वयो-रेव व्युत्पत्तिवैचित्र्यात्। अतएव द्व्यणुकारम्भकसंयोगनाशेभ्यः कार्य्यद्रव्यं नश्यतीति भाष्यस्य योग्यतासम्पत्तये-सुवर्थैकत्वस्य कार्यद्रव्यत्वेऽन्वयमभिधित्सुनाचार्येण जात्य-भिप्रायकमेकवचनमिति गुणकिरणावल्यामभिहितम्। अतएव च
“श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदे-वरौ” इत्यत्र च द्विवचनमहिम्ना स्वामिनो भ्राता देवृ-देवरोभयपदवाच्य इत्यर्थः सुभूत्यादिसिद्धः सङ्गच्छते। यदि च पटद्वयासत्त्वेऽपि भूतले पीतपटावित्यादिकःप्रयोगः स्यात् पीतत्वपटत्वोभयाश्रयस्य तत्र सत्त्वादेवंपीतपटयोरभेद इत्यादितः शुद्धपटत्वादेरबोधप्रसङ्गश्चतदंशे सुबर्थद्वित्वस्य प्रकारत्वादित्यादिसूक्ष्ममीक्ष्यते तदागोदौ ग्राम इत्यादाविव साधुत्वार्थमेव तत्र द्विवचनमितिवदन्ति। विद्यतविन्दतिविनत्तीनामनिट् इत्यत्र विद्यतइत्यादिशब्दो न विदधातुत्वेनोपस्थापकः किन्तु सत्ता-द्यर्थकतादृशधातुत्वेनैव। मृगपाण्डरयोः पदार्थयोर्भेदे-ऽपि हरिणहरिणावित्यप्रयोगात्। समानशब्दथोर्द्वन्द्व-प्रसक्तावेकशेषोव्युत्पत्तिसिद्धस्तेन हरिणावित्यत्र लुप्तश्रु-ताभ्यामेव हरिणपदाभ्यामुपस्थितयोर्मृगपाण्डरयोर्बोधःहरी नमस्यावित्यत्राप्युक्तरीत्यैव हरिपदाभ्यां विष्णुचन्द्रयोरवगतिः। अन्यथा हरिहरो नमस्यावित्यपिप्रयोगापत्तेः हरी च हरयश्चेति विग्रहस्थले यत्र हरयइत्यादितः समस्यमानपदार्थानामवान्तरमंख्यावगमस्तत्रतत्तत्संख्यावच्छिन्नस्वार्थलक्षकस्य लुप्तस्य हर्य्यादिपदस्यीत्तरत्वेन प्रतिसंहितमेव हर्य्यादिपदं तथाविधस्वार्थस्यलक्षणया बोधकं तदप्रतिसन्धाने तु श्रुतमेव हरिपदं-विष्णुद्वयोः सिंहत्रयस्य चैकया लक्षणया शक्तिभ्रान्त्यैववा। नच बिग्रहस्थ सुबंर्थस्य द्वित्वादेः समसाप्रतिपाद्यत्व-नियमात्तथाविधद्वित्वत्रित्वान्तर्भावेण द्वन्द्वस्यैवासाधुत्वा-दुक्तक्रमेणैकशेषो न युक्तः, शलाकापरि हस्त्यश्वमित्यादौव्यभिचारेणोक्तनियमस्यासत्त्वात् एकत्वे चैकत्वानि चेतिविग्रहे च एकत्वानीत्येकशेषस्य गुणकिरणावल्यामाचार्य्यै-रमिहितत्वाच्च। हंसश्च हंसी च इत्यर्थे हंसहंस्यावित्यप्र-योगात् तत्रापि
“पुंसा स्त्रियाः सारूप्ये” इत्यनुशिष्टेर्हं-वीपदस्य लोपे हंसाबित्यत्र लुप्तमेव हसीपदमनुसन्धाय[Page3793-b+ 38] स्त्रीपुंसयोर्बोधः तल्लोपमजानतस्तु हंसपदे स्त्रीहंसत्व-पुरुषहंसत्वाभ्यां विभिन्नरूपाभ्यामेकस्याः शक्तेर्लक्षणयावा ग्रहादेव। यत्तु तत्र हंसपदमेव लक्षणया हंसीत्वेनशक्त्या च हंसत्वेन बोधकं सुबर्थस्तु पुंस्त्वं हंस एवा-न्वेति न तु हंस्यामयोग्यत्वात् इति मतं तन्न तथासतिस्त्रीहंसत्वहंसत्वयोः पदार्थतावच्छेदकयोर्मिथोभेदविरहेणद्वन्द्वाप्रसक्तावेकशेषस्य हंसश्च हंसी च इत्यस्य दुष्करत्वापत्तेःअन्यथा घटतद्वटावित्यपि द्वन्द्वप्रसङ्गात् हंसौ च हंसा-श्चेति विग्रहेऽपि हंसा इत्यतो हंसद्वयहंसत्रययोः प्रागुक्तरीत्यावगमः। दुन्दुभी च दुन्दुभिश्चेति विग्रहे दुन्दुभीसुन्दरावित्यत्राक्षभेर्य्योर्बोधनस्थले पुंलिङ्गस्यैव दुन्दुभिश-ब्दस्य शिष्टतया तद्विशेषणत्वादेव सुन्दरादेः पुंस्त्वम्। युवा च युवतिश्च इत्यर्थे युवानावित्यत्राप्युक्तरीत्यैव युव-तीयौवनवतोर्बोधः वरटाहंसौ लक्षणासारसावित्यादौ तुस्त्रीपुंसयोर्द्धन्द्वेऽपि पदसारूप्यविरहान्नैकशेषः दम्पत्य-र्च्चनप्रकरणे ब्राह्मणावानयेदित्यत्रापि ब्राह्मणश्च ब्राह्मणीच इति विग्रहे प्रागुक्तदिशा ब्राह्मणभार्य्यापत्योरव-गमः। एकश्चैका चेत्यत्र एकौ, द्वौ च द्वे चेत्यत्रद्वौ, उभे चोभौ चेत्यत्र उभौ त्रयश्च तिस्रश्च इत्यत्रच विग्रहे त्रय इत्यादिरेकशेष इष्यत एव। ग्राम्या-नेकशफेष्वतरुणेषु स्त्रीपुंसयोर्बहुत्वमन्तर्भाव्य सारू-प्येण द्वन्द्वस्थले तु पुंस एव लुक् तेन मेष्यश्च मेषाश्चेद्त्यर्थेमेष्य इत्यत्रापि लुप्तं बहुमेषाणां लक्षकं मेषपदं प्रति-सन्दधत एव बहुमेषाणामनेकमेषीणाञ्चावगमः। एवं महिषाश्च महिष्यश्चेत्यर्थे महिष्य इत्यत्रापि महि-षपदं बहूनां महिषाणां, मृगाश्च मृग्यश्चेत्यर्थे मृगाइत्यत्र तु मृगादेरग्राम्यत्वान्न पुंसो लुक् परन्तु स्त्रियाः। तथा गर्द्दभाश्च गर्द्दभ्यश्चेत्यर्थे गर्द्दभा इत्यत्रापि खराणा-मेकशफत्वात् वर्कराश्च वर्कर्य्यश्च इत्यर्थे वर्करा इत्यत्रापि-तरुणार्थकत्वात्। स्वसा च भ्राता चेत्यर्थे भ्रातरावित्यत्रपुत्रश्च दुहिता चेत्यर्थे पुत्रावित्यत्र च विरूपैकशेषेऽपिस्वसृपदं दुहितृपदञ्च लुप्तं प्रतिसन्धायैव भ्रातृभगिन्योःपुत्रकन्ययोश्चावगमः।
“ज्येष्ठपुत्रदुहित्रीश्च ज्यैष्ठे मासिन कारयेत्” इत्यादिकस्तु प्रयोगः परिचिन्तनीयः। स चमैत्रश्चेति विग्रहे त्यदादिना तदन्यस्य द्वन्द्वे लुकितावित्यत्रापि लुप्तं मैत्रादिपदमनुसन्दधत एव मैत्राद्यवं-गमः स च त्वञ्चेत्यादि विग्रहेण किंपदान्यत्यदादिद्वय-गर्भद्वन्द्वे तु पूर्वस्यैव वा लुक् अन्त्यस्यैव वा त्यदादेर्लुति[Page3794-a+ 38] युवामित्यत्र त्यादावप्युक्तक्रमेणैव तदर्थयुष्मदर्थयोर्बोधः सच स चेत्यत्रापि विभिन्नार्थयोर्विग्रहे स्वपूर्वागणितोऽपितदादिः स्वोत्तरापठित एव
“तत्तन्मानुषतुल्योऽसौ यद्य-द्विद्यातिनिर्म्मलेत्यादौ तु न त्यदादिगणेन द्वन्द्वः परन्तुतदाद्यव्ययेन यथा
“तत्तत्तामसभूतभीतय” इत्यादौ यत्तदादिव्यतिरिक्तानामेवाव्ययानां सरूपैकशेषस्य व्युत्पन्नत्वात्प्रयोगानुरोधित्वात् कल्पनायाः। कश्च त्यञ्चेत्यादिविग्रहेणकिमा तादृशद्वन्द्वे तु तदन्यस्यैव त्यदादेर्लुकि कावित्या-दिक एव प्रयोगः चैत्रस्य पितराबित्यत्रापि विरूपैकशेषेलुप्तस्य मातृपदस्य स्मरणान्मातुरवगमः तदस्मरतस्तु पितृ-पदे जनकशरीरत्वेन लक्षणया मातापित्रोरवगतिरितिप्राञ्चः। कौमारास्तु मात्रा पितुर्द्वन्द्वे माता पितृभ्यांमातारपितराभ्यामिति प्रयोगद्वयीदर्शनाच्चैत्रस्य पितरा-वित्यत्र नैकशेषः परन्तु पुष्पवन्तादिपदवन्मातृत्वपितृत्वाभ्यांविभिन्नरूपाभ्यागेकशक्तिमदेव नियतद्विवचनाकाङ्खं पितृ-पदं प्रकृत्यन्तरम्। एवं श्वश्रूश्च श्वशुरश्चेत्यर्थे श्वशुरावित्यत्रश्वशुरपदमपि श्वश्र्वा श्वशुरस्य द्वन्द्वे श्वश्रूश्वशुरावित्येवप्रयोगादित्याहुः”। द्वन्द्वं विभजते।
“द्वौ भेदावस्यशास्त्रौक्तौ समाहारेतरेतरौ। एकान्यवचनाकाङ्क्षा-हीनोपादानतश्च तौ”।
“अस्य द्वन्द्वस्य द्वौ भेदौसमाहार इतरेतरश्च शास्त्रसिद्धौ तत्रैकवचनान्यसुबाकाङ्क्षा-विहीनः समाहारः तथाविधसुबाकाङ्क्षश्चेतरेतरः पाणि-पादं हस्त्यश्वमित्यादितो हि करचरणादीनां बहूनाम-प्यगतावेकवचनमेव प्रमाणं धवखदिरावित्यादौ द्विवच-नादेः पदिस्कन्दिखिदेर्दादित्यादौ तु पदिस्कन्दिभ्यांसहितः खिदिरिति विगृह्य मध्यपदलोपी कर्म्मधारयोयथा अव्याप्त्यतिव्याप्तेरिति मणिग्रन्थादौ”। केचित् पदभेदे द्वन्द्वमिच्छन्तः
“अप्येकदन्तहेरम्बलम्बोदरगजाननाः” इत्युदाजह्रुः तन्न समीचीनम् चो-ऽवधारणे इत्यादिवत् एकदन्तादिशब्दानामेवात्र पदार्थ-त्वात् तथाभूतशब्दानाञ्च विभिन्नानुपूर्वीकत्वेन भिन्नत्वात्एते शब्दा गणेशे वृत्तिमन्त इत्येवं कोषादायवन्वयबोधात्। वटकलसयोरभेद इत्यादौ तु घटपदकलसपदप्रतिपाद्यत्व-रूपपदार्थतावच्छेदकभेदात् न द्वन्द्वानुपत्तिरिति दिक्
“देवताद्वन्ट्ने”
“चार्थे द्वन्द्वः” पा॰
“द्वन्द्वः समासिकस्य च” गीता। तत्र युगले
“द्वन्द्वं ते मन्दचेता यदि जपति ज-नोवारमेकं कदाचित्” कर्पूरस्तवः।
“विरहविधुरकोकद्व-न्तशोकं विभिन्दन्” उद्भटः। मिथुनम् स्त्रीपुंसयोर्द्वित्वम्[Page3794-b+ 38] तत्र
“द्वन्द्वानि भावं क्रियया विव्रब्रुः” कुमा॰
“मृगद्वन्द्वेषुपश्यन्तौ स्यन्दनाबद्धदृष्टिषु” रघुः।
“क्षुत्पिपासे शोक-मोहौ रागद्वेषौ तथैव च। लाभालाभौ च शीतोष्णेतथा मानापमानकौ। कामक्रोधप्रभृतयोः द्वन्द्वशब्देनवर्णिता” इत्युक्ते परस्परविरुद्धस्वभावे शीतोष्णादौ
“न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि” माघः
“तितिक्षाशीतोष्णादिद्वन्द्वसहिष्णुता” वेदान्तसा॰
“द्वन्द्वातोतो विमत्सरः” गीता। आसनजये च द्वन्द्वदुःखैरनभिभवः योगसू॰ उक्तः
“ततो द्वन्द्वानभिघातः”
“शीतोष्णादिभिर्द्वन्द्वैरासन-जयान्नाभिभूयते” भा॰।

७ दुर्गे युक्तिकल्प॰ तद्विशेषादिकं तत्रोक्तं यथा
“राज्ञोबलं न हि बलं द्वन्द्वमेव बलं बलम्। अप्यल्प-बलवान् राजा स्थिरो द्वन्द्वबलाद्भवेत्” तथा च
“एकःशतं योधयति प्राकारस्थो धनुर्धरः। शतं दशसह-स्राणि तस्माद्दुर्गं विशिष्यते। अकृत्रिमं कृत्रिमञ्च तत्पुनर्द्विविधं भवेत्। यद्दैवसूचितं द्वन्द्वं गिरिनद्यादिसंश्रितम्। अकृत्रिममिदं ज्ञेयं दुर्लङ्घ्यमरिभूभुजाम्। प्राकारपरिखारण्यसंश्रयं यद्भवेदिह। कृत्रिमं नाम-विज्ञेयं लङ्घ्यालङ्घ्यन्तु वैरिणाम्” तत्राकृत्रिमद्वन्द्वमुक्तंतत्रैव यथा
“अत्युच्चविस्तीर्णशिरा दुरारोह सका-ननः। सजलाशयसम्भारभोज्यद्रव्यसमाश्रयः। सुखनिः-सरणो द्वन्द्वः पर्वताख्यो महीभुजाम्। नद्योगभीर-विस्तीर्णाश्चतुर्दिक्षु व्यवस्थिताः। तन्मध्ये भूप्रदेशो योनदीद्वन्द्वः स उच्यते। यदन्यच्चिरकालीनं दुर्लङ्घ्य वि-पिनादिकम्। तन्मध्यरचिता भूमिर्द्वन्द्वत्वेनोपतिष्ठते। वनद्वन्द्वमिति ख्यातं यथापूर्वं महत्तरम्” कृत्रिमद्वन्द्व-मुक्तं तत्रैव यथा
“यस्मिन् राज्ये गिरिर्नास्ति नद्यो वागहनोदकाः। तस्य मध्ये महीपालः कृत्रिमं द्वन्द्वमार-भेत्। गजैरलङ्घ्या विस्तीर्णा गम्भीराः पूर्णवारयः। द्वन्द्वत्वेन समादिष्टाः परिखा बहुयादसः। विशाल-शालं सुघनं वहुकण्टकिसङ्कटम्। द्वन्द्वत्वेन समा-दिष्टं विस्तीर्णं विषमं बलम्। अधोऽधोबध्यमानोऽपिकन्दरोऽल्पजलं स्रवन्। द्वन्द्वत्वेन समुद्दिष्टः दुर्लङ्घ्योहि स भूभुजा। सर्वतः परिखां कृत्वा निवन्धोपरिक-न्दरम्। तज्जलप्लुतदेशत्वात् जलद्वन्द्वं तदुच्यते। एषामभावे निम्नस्य भूप्रदेशस्य बन्धनात्। वर्षासु प्लवतेवारि जलद्वन्द्वं ततोभवेत्। एतयोरपि संमिश्रात् सं-मिश्रं द्वन्द्वमाचरेत्। आश्रित्य कृत्रिमं द्वन्द्वद्वं बलवद्-[Page3795-a+ 38] वैरिणो दिशि। अन्यत्र कृत्रिमं द्वन्द्वं कृत्वा मरपतिर्वसेत्। रघपतिर्यदा वैरी स्थलद्वन्द्वं तदाचरेत्।{??}जाश्चनाथश्चेद्वैरी{??}चद्वन्द्वं तदाचरेत्। गिरिद्वन्द्वंनृपः सेवेत् यस्य स्याद् द्विविधो रिपुः। सर्वो हि त्रिविधोयुद्धः समासादुपदिश्यते। प्रतिराजस्य राज्यान्ते प्रकटेगुप्त एव प। राज्यान्ते सैनिकान् रक्षेत् प्रकटे निव-सेत् स्वयम्। गुप्तेऽस्त्रकोषसम्भारं संरक्षेदिति नि-श्चयः”। तस्य सामान्यतो गुणा नीतिशास्त्रोक्ताः यथा
“सप्रवेशापसरणं द्वन्द्वसुत्तममुच्यते। अन्यत्र वन्दिशा-लेव न तादृग्वशमाश्रयेत्। धनुर्द्वन्द्वं महीद्वन्द्वं गिरि-द्वन्द्वं तथैव च। मनुष्यद्वन्द्वमित्याहुर्योद्धृद्वन्द्वं प्रकी-र्तितम्। योद्धृशून्यं हि यत् द्वन्द्वं मृतकायसमंहि तत्”। अन्यत्र च
“यावत् प्रमाणं नगर हिराज्ञां ततो भवेदुत्तममध्यमान्तम्। त्रिंशत्तदर्द्धाश्च गुणो-त्तरेण त्रिदेशजानां धरणीपतीनाम्” गर्गस्तु
“यदन्यद्द्विविधं द्वन्द्वं श्रयूते धरणीभुजाम्। ताभ्यामेवाति-रिच्येत मन्त्रद्वन्द्वं विशेषतः। अन्येषु दैवात् भिन्नेषुमन्त्रद्वन्द्वात् जनेन्नृपः। मन्त्रद्वन्द्वे हि भिन्ने हि नचान्यत् कार्यकारकम्”। भोजः
“तदैव वैरिदुर्लङ्घ्यं वि-स्तीर्णविषमञ्च तत्। सप्रवेशापसरणं तद्वन्द्वमुत्तमं विदुः”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वन्द्व¦ n. (-न्द्वं)
1. A pair, a brace.
2. A couple of animals, or male and female.
3. Union of the sexes or coupling.
4. Strife, dispute.
5. A secret. m. (-न्द्वः)
1. A form of grammatical combination uniting two or more words in the same case, properly separated by a conjunc- tion, as रामलक्ष्मणौ RA4MA and LAKSHMANA; पाणिपादं hand and foot.
2. A sign of the zodiac (Gemini.)
3. A species of disease, a [Page359-b+ 60] complication of two disorders, or compound affection of two humours. E. द्वि two, reduplicate, deriv. irr.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वन्द्वम् [dvandvam], [द्वौ द्वौ सहाभिव्यक्तौ; cf. P.VIII.1.15. Sk.]

pair, couple.

A couple of animals (including even men) of different sexes, i. e. male and female; द्वन्द्वानि भावं क्रियया बिवव्रुः Ku.3.35; Me.45; न चेदिदं द्वन्द्वम- योजयिष्यत् Ku.7.66; R.1.4; Ś.2.15;7.27; अल्पं तुल्य- शीलानि द्वन्द्वानि सृज्यन्ते Pratimā 1.

A couple of opposite conditions or qualities, (such as सुख and दुःख; शीत and उष्ण); बलवती हि द्वन्द्वानां प्रवृत्तिः K.135; द्वन्द्वैरयोजयच्चेमाः सुख- दुःखादिभिः प्रजाः Ms. 1.26;6.81; सर्वर्तुनिर्वृतिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किंचिदकिंचनो$पि Śi.4.64.

A strife, contention, quarrel, dispute, fight.

A duel; Rām.6. 43.15.

Doubt, uncertainty.

A fortress, stronghold.

A secret.

A secret, or lonely place; द्वन्द्वे ह्येतत् प्रवक्तव्यं हितं वै यद्यवेक्षसे Rām.7.13.11.

न्द्वः (In gram.) One of the four principal kinds of compounds, in which two or more words are joined together which, if not compounded, would stand in the same case and be connected by the copulative conjunction `and'; चार्थे द्वन्द्वः P.II.2.29; द्वन्द्वः सामासिकस्य च Bg.1.33; उभय- पदप्रधानो द्वन्द्वः Kāśikā 38.

A kind of disease.

(in music) A kind of measure.

The sign Gemini of the zodiac. -Comp. -आलापः a dialogue between two persons.-गर्भ a. (A बहुव्रीहि compound) having a द्वन्द्व compound within it. e. g. बृहद्रथन्तरे सामनी यस्य इति बृहद्रथन्तरसामा, where बृहद्रथन्तरे is a द्वन्द्व compound; ŚB. on MS.1.6.4. (opp. अनेकपदबहुव्रीहि). -चर, -चारिन् a. living in couples. (-m.) the ruddy goose; दयिता द्वन्द्वचरं पतत्त्रिणम् R.8.56;16.63. -ज, -दोषोत्थ a.

produced from morbid affection of two humours.

arising from a quarrel.

arising from a couple. -दुःखम् pain arising from opposite alternations (as heat and cold &c.); सर्वर्तु- निर्वृतिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किंचिदकिंचनो$पि Śi.4.64. -भावः antagonism, discord. -भिन्नम् separation of the sexes. -भूत a.

forming a couple.

doubtful, uncertain. -मोहः trouble caused by doubt. -युद्धम् a duel, a single combat.

"https://sa.wiktionary.org/w/index.php?title=द्वन्द्व&oldid=318386" इत्यस्माद् प्रतिप्राप्तम्