द्विज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विजः, पुं, (द्विर्जायते इति । जन + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।) संस्कृत- ब्राह्मणः । यथा, -- “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ।” इति स्मृतिः ॥ सद्वृत्तब्राह्मणः । तल्लक्षणं यथा, -- अम्बरीष उवाच । “कीदृशाय प्रदातव्यं महादानं द्विजातये । विदुषे वा निराधारे साचारेऽविदुषे मुने ! ॥ एतन्मे सर्व्वमाख्याहि यथातथ्यं द्विजोत्तम ! । उत्तारयति संगृह्य दातारं दानमेव हि ॥ वशिष्ठ उवाच । जात्या कुलेन वृत्तेन स्वाध्यायेन शुतेन च । एभिर्युक्तो हि यस्तिष्ठेत् नित्यं स द्विज उच्यते ॥ न जातिर्न कुलं राजन् ! न स्वाध्यायः श्रुतं न च । कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥” इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥ क्षत्त्रियः । वैश्यः । इति मेदिनी । जे, १० ॥ (यथा, याज्ञवल्क्ये । १ । ३९ । “मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्त्रियविशस्तस्मादेते द्विजाः स्मृताः ॥” दन्तः । (यथा, -- “न च्छित्वा द्विजैर्भक्षयेत् ॥” इति चरके सूत्र- स्थानेऽष्टमेऽध्याये ॥) अण्डजः । स पक्षिसर्पमत्- स्यादिः । इत्यमरः । ३ । ३ । ३० ॥ (यथा, रघुः । १२ । २२ । “ऐन्द्रिः किल नखैस्तस्या विददार स्तनौद्विजः ॥”) तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥ द्विर्जाते, त्रि ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विज पुं।
पक्षी
समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्
2।5।32।2।6
खगे विहङ्गविहगविहङ्गमविहायसः। शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॥
अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्
वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः
वृत्तिवान् : पक्षीणां_हन्ता
: गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी
द्विज पुं।
दन्तः
समानार्थक:रदन,दशन,दन्त,रद,द्विज,कुञ्ज
3।3।30।1।2
केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
पदार्थ-विभागः : अवयवः
द्विज पुं।
ब्राह्मणः
समानार्थक:द्विजाति,अग्रजन्मन्,भूदेव,वाडव,विप्र,ब्राह्मण,द्विज,ब्रह्मन्
3।3।30।1।2
केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
: यागादिषट्कर्मयुक्तविप्रः, यागे_यजमानः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
द्विज पुं।
पक्षिसर्पाद्याः
समानार्थक:अण्डज,द्विज
3।3।30।1।2
केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विज¦ पु॰ द्विर्जायते सुजर्थे वृत्तौ द्विशब्दः जन--ड।
१ संस्कृतब्राह्मणे
“जन्मना जायते शूद्रः संस्कारैर्द्विज उच्यते” स्मृतिः।
२ ब्राह्मणक्षत्रियवैश्येषु च
“मातुर्यदग्रे जा-यन्ते द्वितीयं मौञ्जीवन्धनात्। ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः” याज्ञ॰।
३ दन्ते तस्योत्पन्नस्य पतनेपुनर्जन्मनो लोकप्रसिद्धेः।
४ अण्डजे च अमरः। प्रसवा-नन्तरं पुनरण्डात् तस्य प्रकाशरूपोत्पत्तेर्द्विजत्वम्।
५ तु-म्बुरुवृक्षे राजनि॰।
६ द्विर्जातमात्रे त्रि॰। तत्र दन्ते
“द्विजाबलीबालनिशाकरांशुभिः शुचिस्मितां बाचमवोच-दच्युतः” माघः विप्रे अण्डजे च
“हिममुक्तचन्द्ररुचिरःसपद्मको मदयन् द्विजान् जनितमीनकेतनः” माघः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विज¦ mfn. (-जः-जा-जं)
1. Twice born.
2. Oviparous. m. (-जः)
1. A man of either of the three first classes, a Brahman, a Kshetriya or a Vaisya whose investiture with the characteristic string, at years of puberty, constitutes, religiously and metaphorically, their second birth.
2. Any oviparous animal, as a bird, a snake, a fish, &c. first born in the shell, and in the second instance produced from it.
3. A tooth.
4. Coriander seed. f. (-जा)
1. A sort of perfume also called Renuka
4.
2. A plant. (Siphonanthus Indicus.)
3. Kundur or gum olebanum. E. द्वि two, and ज born. द्विः जायते | जन ड |
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विज/ द्वि--ज See. द्विज.
द्विज/ द्वि-ज mfn. twice-born
द्विज/ द्वि-ज m. a man of any one of the first 3 classes , any Aryan , ( esp. ) a Brahman (re-born through investiture with the sacred thread See. उप-नयन) AV. Mn. MBh. etc.
द्विज/ द्वि-ज m. a bird or any oviparous animal (appearing first as an egg) Mn. MBh. etc.
द्विज/ द्वि-ज m. a tooth (as growing twice) Sus3r. Bhartr2. Var. ( n. BhP. ii , 1 , 31 )
द्विज/ द्वि-ज m. coriander seed or Xantboxylum Alatum L.
द्विज/ द्वि-ज m. Clerodendrum Siphonantus L.
द्विज/ द्वि-ज m. पालङ्कीL. (See. -जाand -जति).
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a son of Surasena. वा. ९९. ११२.