द्वितीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितीयम्, त्रि, (द्वयोः पूरणम् । द्वि + “द्वेस्तीयः ।” ५ । २ । ५४ । इति तीयः ।) द्वयम् । इति हेमचन्द्रः । ३ । १७७ ॥ (यथा, रघुः । २ । ४९ । “तथा विदुर्मो मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥”)

द्वितीयः, पुं, (द्बयोः पूरणः । आत्मनो द्बितीयत्वादे- वास्य तथात्वम् ।) पुत्त्रः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितीय¦ त्रि॰ द्वयोः पूरणः तीय। द्वित्वसंख्यापूरणे तस्याःङित्सु वा सर्वनामकर्म।
“एकमेवाद्वितीयं ब्रह्म” श्रुतिः।
“द्वितीयगाभी न हि शब्द एष नः” रघुः
“मा-तुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धनात्” मनुः

२ पुत्रेपु॰ त्रिका॰।

३ भार्य्यायां स्त्री टाप् अमरः। चन्द्रस्यद्वितीयकलायाः सूर्यकिरणप्रवेशनिर्गमयोग्ये क्रियारूपेतदुपलक्षिते कालभेदे वा

५ तिथिभेदे स्त्री तस्याः व्रता-द्यङ्गकालनिर्णयः कालमा॰ दर्शितो यथा
“प्रथमद्वितीयादीनां पञ्चदशकलानां क्रमेण चन्द्रम-ण्डलप्रवेशनिर्गमनाभ्यां शुक्लकृष्णपक्षयोः प्रतिपद्-द्वितीयादिनामधेयास्तिथयो भवन्ति। तत्र प्रति-पदि योनिर्णयः पूर्वप्रकरणेऽभिहितः स एवोत्तरासुसर्वासु तिथिषु साम्येन सञ्चारयितव्यः। विशेषांस्तुतत्र तत्राभिधास्ये। प्रतिपदि दैवं पित्र्यं च व्यवस्था-पितम्। दैवं षड्विधम् उपवासैकभक्तनक्तायाचितदानव्रतभेदेन, तीर्थस्नानजपहोमादयस्तु व्रतशब्देनैवसंगृहीताः। पित्र्यं द्विविधम्। एकोदिष्टं पार्वणंचेति। तत्र सर्वत्र कर्मकालव्याप्तियुक्ताया एव तिथे-रनुष्ठानाङ्गत्वं स्मृतिष्वभिप्रेतम्। कर्मकालश्च द्विवि-धोमुख्यो गौणश्चेति। तद्यथा एकभक्ते मध्याह्नो-मुख्यः। आसायमवशिष्टो गौणः। तिथिव्याप्तिर्द्विविधास्वाभाविकतिथिव्याप्तिः साकल्यापादिततिथिव्याप्तिश्चेति। यदा सङ्गवपर्यन्तामावास्या तदानीमुपरितनो मध्या-ह्नोमुख्ययैव प्रतिपदा व्याप्ता भवति। यदा त्वपराह्णा-दिमारभ्य तिथिक्षयवशात्परेद्युः सङ्गवान्ता प्रतिप-द्ववति। तदा पूर्वेद्युर्गौणकालव्य प्तिमुपजीव्यैकक्तभानु-ष्ठानस्वीकारे सति मध्याह्ने तथैवानुष्ठेयत्वात्तत्रस्वाभाविकप्रतिपद्व्याप्त्यभावेऽपि साकल्यवचनापादितप्र-तिपद्व्याप्तिः स्वीकृता। एवं च सति कर्मकालव्याप्तौसर्वस्मृतीनामत्यन्तनिर्बन्धदर्शनात् कर्मकालव्याप्तिशास्त्र-मितरेभ्यः प्रबलमिति निश्चीयते। तदनुसारेण द्विती-याद्या अपि तिथय उपवासादौ दैवे, एकोद्दिष्टादौ[Page3815-b+ 38] पैत्र्ये च कर्मकालव्याप्तियुक्ताः स्वीकर्त्तव्याः। उप-वासस्तु सर्वतिथिषु नारदीये दर्शितः!
“शुक्लान वायदि वा कृष्णान् प्रतिपत्प्रभृतींस्तिथीन्। उपोष्यैववलिं दत्त्वा विधिनेत्यपरे दिने। ब्राह्मणान् भोजयित्वातु सर्वपापैः प्रमुच्यते” इति। उपवासस्याहीरात्रः कर्मकालः। तस्मात्तद्व्यापिनी तिथिर्ग्राह्या। तदसम्भवेखण्डतिथिर्ग्राह्येति निरूप्यते। तत्र च सूर्य्योदये-त्रिमुहूर्त्ता ततोऽधिका वा प्रतिपद्भवति। उत्तरदिने चा-स्तमयादर्वाक् त्रिमुहूर्त्ता ततोऽधिका वा तृतीया भवतिसेयमुमयविद्धा द्वितीया। तत्र वेधकतिथेरुदयेऽस्तमये वात्रिमुहूर्त्तत्वं वेधप्रयोजकं न तु ततोन्यूनत्वं तदेवपैठीनसिवाक्येन पूर्वमुदाहृतम्। वेध्यतिथेश्च त्रिमुहूर्त्तसद्भावोऽपेक्षित इति
“द्विमुहूर्त्तं त्रिरह्नश्चेत्यनेनसुमन्तुवचनेत दर्शितम्। उदयास्तमययोरेव वेधइत्ययमर्थः
“उदये सा तिथिर्ग्राह्या विपरीता तु पैतृके” इत्यादिभिः कात्यायनवचनैरवगन्तव्यः। एवञ्च सतियथोदाहृते पूर्वविद्धोत्तरविद्धे ये द्वितीये तयोरुत्तरविद्धा द्वितीयोपोष्या युग्माग्निवाक्येनान्वयव्यतिरेका-भ्यामुत्तरविद्धायाः प्राशस्त्याभिधानात्। यद्यप्युपाष्य-त्वं साक्षान्नाभिहितं तथापि कर्मान्तरविशेषस्याबुपा-दानात् उपवासविषयत्वं परिशिष्यते। तथाहि। न तावत्पित्र्यविषयत्वं सम्भवति व्यासेन युग्मादिशास्त्रस्य खर्वादिशास्त्रस्य च दैवपित्र्यविषयत्वेन व्यव-स्थापितत्वात्। नाप्येकभक्तनक्तविषयत्वं तयोर्मध्याह्नप्रद्रोषव्याप्त्यधीनत्वेन युग्मादिशास्त्रानधीनत्वात्। अया-चितस्य तूपवासवदनुष्ठेयत्वेन न पृथग्विषयत्वं नचदानादिविषयत्वम् दानादेः पौर्वाह्णिकतिथौ कर्त्तव्य-तया निर्णेयत्वात्। अत उपवासविषयत्वं परि-शिष्यते। कद्राचिदेकभक्तादितिथौ युग्मादिशास्त्रस्यसंवादो भवति। तदा तच्छास्त्रमुपोद्वालोकं भवतु। नवयं वारयामः। वचनान्तरे तु युग्मादितिथेरुपोष्यत्वंसाक्षात् प्रतीयते। तथा च प्रतिपत्प्रकरणे प्रति-पदमावास्यायुग्मस्योपोष्यत्ववचनमुदाहृतम्। तत्रापियुग्मामिप्रायेणैव द्वितीयायाः परविद्धायाः उपो-ष्यत्वं भृगुस्मृतिविष्णुधर्मोत्तराभ्यां दर्शितम्।
“एका-दश्यष्टमी षष्ठी द्वितीया च चतुर्दशी। त्रयोदशी चतुर्थीच उपोष्याः स्युः परान्विताः” इति। यदा पूर्वेद्युरुद-यमारभ्य परेद्युरुदयस्योपरि त्रिमुहूर्त्तं{??}र्धते। तद्रा[Page3816-a+ 38] पर्वेद्युरेवोपवासः। न चोदाहृतेन परान्विता इतिवचनेन विरोधः शङ्कनीयः परान्वितापूर्वान्वितयोः प्रस-क्तयोः सत्योरस्य वचनस्य नियामकत्वात्। नचात्र परा-न्वितत्वं प्रसक्तमस्ति। पूर्वस्य दिनस्य सम्पूर्णतिथि-त्वात् सम्पूर्णखण्डयोः सम्पूर्णस्यासन्देहत्वेनप्रबलत्वात्। असञ्जातविरोधित्वकृत्स्नकर्मकालव्याप्तिभ्यांपूर्वदिनस्यैव प्रावल्यम्। तस्मात्तत्रैवीपवासः। ननुपूर्वोपवामं प्रतिषेधति व्यासः
“तृतीयया युता कार्या द्वि-तीया न तु पूर्वयेति” मैवम् अस्य वचनस्य खण्डतिथिविषयत्वेन संपूर्णतिथाबप्रवृत्तेः। खण्डतिथिविषयत्वञ्चपूर्वया युता नैव कार्येत्यभिधानादवगम्यते। ननु खण्ड-तिथावपि द्वितीया पूर्वविद्धैवोपोष्या
“प्रतिपत्सद्वितीयास्याद्द्वितीया प्रतिपद्युता” इत्यापस्तम्बेन प्रतिपद्द्वितीय-योर्युग्मत्वाभिधानात्। एतदेव वचनमुपजीव्य कृष्णप्रतिपत्परविद्धैवोपोष्येति पूर्वं निर्णीत तर्हि द्वितीयापिक्वचित्पूर्वविद्धा भवतु तदुक्तं स्कन्दपुराणे
“प्रतिपत्सम्मुखीकार्या या भवेदापराह्णिकी। पूर्वाह्णिकी च कत्तव्याद्वितीया तादृशी विभो!” इति। तादृशी सम्मुखी पूर्व-युतेत्यर्थः। पूर्वेद्युरुदये मुहूर्तं परित्यज्यावशिष्टपूर्वा-ह्णसम्बन्धिनी यदा भवति तदा वेधकारिण्याः पूर्वतिथेःमुहूर्तत्रयाभावेन वेद्धुमसामर्थ्यात्खयंखण्डापि सतीसम्प्रूर्णवत्पूर्वत्रोपवासे युज्यते। अत्र द्वितीया नवधाभिद्यते पूर्वेद्युरुदयमारभ्य प्रवृत्ता

१ प्रातरुदयं परित्यज्यप्रवृत्ता

२ पूर्वाह्ण सर्वं परित्यज्य प्रवृत्तेति

३ त्रयोभेदास्ते-ष्वेकैकस्य परेद्युस्त्रिमुहूर्त्तत्वतन्न्यूनत्वशून्यत्वैस्त्रैविध्येसति मिलित्वा नवविधत्वं सम्पद्यते। अथ पूर्वेद्युरु-दयमारभ्य प्रवृत्तायाः सम्पूर्णत्वेन परेद्युर्मुहूर्त्तत्रयत्वतन्न्यूनत्वान्यूनत्वेषु त्रिष्वपि पक्षेषु विवादाविषयत्वात्पूर्वत्रैवोपवासोयुक्तः। उदयं परित्यज्य कियत्पूर्बाह्णभागं प्रक्रम्य प्रवृत्तायाः परेद्युस्त्रिमुहूर्त्ततायां सत्यपिपरयुतोपवाससम्भवे तां परित्यज्य पौर्वाह्णिकवचनेनपूर्वेद्युरेवोपवामो विधीयते। परेद्युस्त्रिमुहूर्त्तन्यूनत्वे तु वेधकारिण्यास्तृतीयायाः सत्यपि वेद्धुं सामर्थ्येवेध्याया द्वितीयायास्त्रिमुहूर्त्तत्वाभावेन वेधयोग्यत्वा-भावात् तत्रोपवासो न प्रसक्तः। अतः परिशेषात् पूर्वाह्णवाक्याच्च पूर्वत्रैवोपवासः। पूर्वेद्युः पूर्वाह्णं सर्वंपरित्यज्य प्रवृत्तायाः परेद्युस्त्रिमुहूर्त्ततयोभयत्रतिथिसत्त्वात् कुत्रोपवास इति सन्देहे सति व्यासेनोत्तर[Page3816-b+ 38] विधानात् पूर्वदिननिषेधाच्चोत्तरत्रोपबासः। न चात्रशुक्लकृष्णव्यवस्था शङ्कनीया। युग्मषाक्ये शुक्लकृष्णपत्तसाधारण्येन परदिनविधानात् कृष्णपक्षेऽपि तत्प्रवृत्तौ-वाधाभावाच्च। अन्ययोस्तु पक्षयोः पूर्ववद्वेधानर्हत्वेनपूर्वेद्युः पौर्वाह्णिकत्वाभावेऽपि परिशेषादापस्तम्बोक्तयुग्भवाक्याच्च पूर्वत्रोपवास इति स्थितम्। एकभक्ता-दिपार्वणश्राद्धान्तेषु कर्मसु द्वितीयापयुक्तस्य विशेषस्यक्वचिदप्यस्मरणात् पूर्वोक्तन्यायो योजनीयः”। सा च अश्विनीकुमारयोर्जन्मतिथिः। यथाह वराहपु॰( तयोर्जन्मोपमक्रमे
“एतत् सर्वं द्वितीयायामश्विभ्यांब्रह्मणा पुरा। दत्तं यस्मात्ततस्तेषां तिथीनामुत्तमातिथिः। एतस्यां रूपकामस्तु पुष्पाहारो भवेन्नरः। संवत्सरं शुचिर्नित्यं सुखरूपी भवेन्नरः। अश्विभ्यां येगुणाः प्रोक्तास्ते तस्यापि भवन्ति च”। मनोरथ-द्वितीया तु श्रावणशुक्लद्वितीया।
“मनोरथद्विती-यायां दिवा वासुदेवार्च्चनम् रात्रौ चन्द्रोदयेऽर्घ्यदानंनक्तं भाजनादिकमुक्तम् ति॰ त॰ विष्णुधर्मोत्तरे
“देवमभ्यर्च्य पुष्पैस्तु धूपदीपानुलेपनः। उद्गच्छतश्च बाले-न्दोर्दद्यादर्घ्यं समाहितः। नक्तं भुञ्जीत च नरोयावत्तिष्ठति चन्द्रमाः। अस्तं गते न भुञ्जीत व्रतभङ्गभयान्नरः”। स्कन्दपु॰
“आषाढस्य सिते पक्षे द्वितीयापुष्यसयुता। तस्यां रथे समारोप्य रासं मां भद्रयासह। यात्रोत्सवं प्रकुर्वीत प्रीणयेच्च द्विजाद्बहून्। ऋक्षाभावे तिथौ कार्या सदा सा प्रीतये मम” रथद्वितीया। ( भ्रातृद्वितीया लिङ्गपुराणे
“कार्त्तिके तुद्वितीयायां शुक्लायां भ्रावृपूजनम्। या न कुर्य्या-द्विनश्यन्ति भ्रातरः सप्तजन्मनि”। तस्या इति शेषः। महाभारते
“कार्त्तिके शुक्लपक्षे तु द्वितीयायांयुधिष्ठिर!। यमो यमुनया पूर्वं भोजितः स्वगृहेस्वयम्। तस्यां निजगृहे पार्थ! न भोक्तव्यमतोबुधैः। यत्नेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम्। दानानि च प्रदेयानि भमिनीभ्यो विशेषतेः”। तथा
“यमञ्च चित्रगुप्तञ्च यमदूताश्च पूजयेत्। अर्थश्चात्रप्रदातव्यो यमाय सहजद्वयैः”
“अत्र भोक्तव्यं पुष्टि-वर्द्धनमिति समभिव्याहृतफलश्रुत्या भोजननियमस्यप्राधान्यात् तस्य मुख्यकालोऽष्टधाविभक्तदिनस्य पञ्च-मांशोग्राह्यः
“पञ्चमे च तथा भागे संविभागोयथार्हतः पितृदेवसद्धष्याणामित्यादि” दक्षोक्तेः अत्र[Page3817-a+ 38] भोजनस्य रागप्राप्तत्वेऽपि तत्कालस्य
“अहनि च तथातमस्विन्यां सार्द्धप्रहरयामान्तः” इति कात्यायनीये ननियमितत्वात् वैधत्वेन शास्त्रीयत्वे न सामान्यशास्त्रप्रा-प्त्युपजीविपर्य्युदासासङ्गतिरिति। त॰ त॰ (तेन नाति-प्रगे नातिसायमित्यत्र नञर्थः पर्युदास)
“तथायमद्दितीयायां यात्रायां मरणं भवेत्”। अनध्याय-द्वितीया यथा
“प्रेकोचैचा द्वितीयास्ताः प्रेतपक्षे गतेतु या। या च कोजागरे जाते चैत्रावल्याः परेऽपिया। चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः। परास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितःति॰ त॰।
“मार्ग च फाल्गुने चैव आषाढे कार्तिकेतथा। पक्षयोर्माघमासस्य द्वितीयां परिवर्जयेत्” मल॰ त॰अयमुपनयनविषयः। पक्षयोरित्यस्योत्तरत्र श्रुतस्य सर्व-त्रान्वयः।
“द्वितीया मीनधनुषोः” ज्योति॰ त॰ उक्तेः र-विचन्द्रयोर्मीनधनुषोः स्थितयोस्तस्या दग्धत्वम्। चन्द्रमा-त्रस्थितत्वे चन्द्रदग्धत्वं केचिदिच्छन्ति
“द्वितीया द्वादशीयक्षे” ज्यो॰ त॰ उक्तेस्तस्यामुत्तरस्यां दिशि योगिनी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितीय¦ mfn. (-यः-या-यं)
1. Second.
2. Two. m. (-यः) A son, a second or successor. f. (-या)
1. A wife, according to the ritual, a woman wedded after the ceremony prescribed by the Vedas, a second self as it were.
2. The second day of the fortnight. E. द्वि two, and तीय affix, fem. affix टाप्; also with कन् added, द्वितीयक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितीय [dvitīya], a. Second; त्वं जीवितं त्वमसि मे हृदयं द्वितीयम् U. 3.26; Me.85; R.3.49.

यः the second in a family, a son.

A companion, partner, friend (usually at the end of comp.); प्रयतपरिग्रहद्वितीयः R.1.95; Ku.3.35; so छाया˚, दुःख˚ &c.

The second letter of a class.

The second person (in gram.).

या The second day of a lunar fortnight. ˚चन्द्र the young moon; द्वितीया- चन्द्र इवाधिकतरं शोभते प्रियवयस्यः Ratn.4.2/3.

A wife, companion, partner; द्वितीयां मदभीष्टाय भार्यार्थे स्वीकरिष्यसि Ks.98.33.

(In gram.) The accusative case. -यम् The half. -यम् ind. A second time, again. -Comp. आश्रमः the second stage or period of the religious life of a Brāhmaṇa; i. e. गार्हस्थ्य. -वयस् a. having arrived at the second stage of life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितीय mf( आ)n. (fr. द्विPa1n2. 5-2 , 54 ; decl. i , 1 , 36 Va1rtt. 3 Pat. See. vii , 3 , 115) second RV. etc.

द्वितीय m. companion , fellow (friend or foe) S3Br. MBh. etc.

द्वितीय m. ifc. doubled or accompanied by , furnished with(See. a- , छाया-, धनुर्-etc. )

द्वितीय m. the 2nd in a family( i.e. a son L. ; See. AitBr. vii , 29 )

द्वितीय m. the 2nd letter of a वर्गi.e. the surd aspirate Pra1t. Pa1n2. etc.

द्वितीय mfn. ( Pa1n2. 5-3 , 49 ) forming the 2nd part or half of anything , with भागm. half of( gen. ) Mn. iv , 1 etc.

द्वितीय n. the half (at the beginning or end of a comp. ) Pa1n2. ib. , ii , 2 , 3 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=द्वितीय&oldid=500432" इत्यस्माद् प्रतिप्राप्तम्