द्वीपः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वीपः, पुं क्ली, (द्बिर्गता द्बयोर्दिशोर्वा गता आपो यत्र । काकाक्षिगोलकन्यायेन द्वयोरित्युक्तेऽपि चतुर्द्दिक्षु इति सिद्धिः । “ऋक्पूरब्धूरिति ।” ५ । ४ । ७४ । इति यत् । “द्व्यन्तरुपसर्गेभ्योऽप ईत् ।” ६ । ३ । ९७ । इति ईत् ।) वारिमध्यतटम् । जल- वेष्टितभूमिः । तत्पर्य्यायः । अन्तरीपम् २ । इत्य- मरः । १ । १० । ८ ॥ द्वीपोत्पत्तिर्यथा । सूर्य्यः सुमेरुं प्रदक्षिणीकुर्व्वन् अर्द्धां पृथ्वीं प्रकाशयति अर्द्धां तमसा आवृणोति । तदा भगवदुपासनोपचि- तातिक्रान्तपुरुषप्रभावः प्रियव्रतो राजा सूर्य्य- रथसमवेगेन ज्योतिर्मयरथेन रजनीमपि दिनं करिष्यामीति प्रतिज्ञां कृत्वा सप्तवारं द्वितीय- सूर्य्य इव सूर्य्यमनुपर्य्यक्रामत् । अस्य रथचरण- नेमिपरिखाताः सप्तसिन्धव आसन् । यैरेव सिन्धुभिः पृथिव्याः सा द्वीपाः कृताः । ते जम्बु १ प्लक्ष २ शाल्मलि ३ कुश ४ क्रौञ्च ५ शाक ६ पुष्कर ७ संज्ञकाः । तेषां पूर्ब्बस्य यद्विस्तार- मानं उत्तरतस्ततो द्बिगुणेन विस्तारमानेन परिमाणम् । ते सिन्धुभ्यो बहिःसमं रचिताः । यथा सिन्धुभ्यो बहिरेकैकशो द्बीपाः एवं द्वीपा- नामपि बहिःसिन्धवः । स प्रियव्रतः बर्हिष्मती- गर्भजाननुगतानात्मजान् आग्निध्रेध्मजिह्वयज्ञ- बाहुहिरण्यरेतोघृतपृष्टमेधातिथिवीतिहोत्रसं- ज्ञकान् यथासंख्येन एकैकस्मिन् द्वीपे एकैक- मधिपतिं विदधे । इति श्रीभागवतीयपञ्चम- स्कन्धात् संगृहीतम् ॥ * ॥ अपि च । “मनोः स्वायम्भुवस्यासन् दश पुत्त्रास्तु तत्समाः । यैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना ॥ ससमुद्राकरवती प्रतिवर्षं निवेशिता । सायम्भुवेऽन्तरे पूर्ब्बमाद्ये त्रेतायुगे तदा ॥ प्रियव्रतस्य पुत्त्रैस्तैः पौत्त्रैः स्वायम्भुवस्य तु । प्रियव्रतात् प्रजावन्तो वीरात् काम्याभ्यजायत ॥ कन्या सा तु महाभागा कर्द्दमस्य प्रजापतेः । कन्ये द्वे दशपुत्त्राश्च सम्राट् कुक्षिश्च ते उभे ॥ मेधाग्निबाहुमित्रास्तु त्रयो योगपरायणाः । जातिस्मरा महाभागा न राज्याय मनो दधुः ॥ प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् । द्वीपेषु तेषु धर्म्मेण द्बीपांस्तांश्च निबोध मे ॥ जम्बुद्वीपे तथाग्नीध्रं राजानं कृतवान् पिता । प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ शाल्मले तु वपुष्मन्तं ज्योतिष्मन्तं कुशाह्वये । क्रौश्चद्वीपे द्युतिमन्तं हव्यं शाकाह्वये सुतम् ॥ पुष्कराधिपतिञ्चैव सवनं कृतवान् सुतम् ॥” इति मार्कण्डेयपुराणम् ॥ “भूमेरर्द्धं क्षारसिन्धोरुदक्स्थं जम्बुद्वीपं प्राहुराचार्य्यवर्य्याः । अर्द्धेऽन्यस्मित् द्वीपषटक्स्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः ॥ शाकं ततः शाल्भलमत्र कौशं क्रौञ्चञ्च गोमेदकपुष्करे च । द्वयोर्द्बयोरन्तरमेकमेकं समुद्रयोर्द्वीपमुदाहरन्ति ॥” इति सिद्धान्तशिरोमणिः ॥
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वीपः [dvīpḥ] पम् [pam], पम् [द्विर्गता द्वयोर्दिशोर्वा गता आपो यत्र; द्वि-अप्, अप ईप्]
An island.
A place of refuge, shelter, protection.
A division of the terrestrial world; (the number of these divisions varies according to different authorities, being four, seven, nine or thirteen, all situated round the mountain Meru like the petals of a lotus flower, and each being separated from the other by a distinct ocean. [In N. 1.5 the Dvīpas are said to be eighteen; but seven appears to be the usual number: जम्बु, प्लक्ष, शाल्मलि, कुश, क्रौञ्च, शाक and पुष्कर; cf. Bhāg.5.1.32; R.1.65; and पुरा सप्तदीपां जयति वसुधामप्रतिरथः Ś.7.33. The central one is जम्बुद्वीप in which is included भरतखण्ड or India.] -पम् The skin of a tiger. -Comp. -कर्पूरः camphor from China. -वासिन् The bird खञ्जरीट.