द्वेष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वेषः, पुं, (द्विष + भावे घञ् ।) शत्रुता । तत्- पर्य्यायः । वैरम् २ विरोधः ३ विद्वेषः ४ द्वेषणम् ५ । इति शब्दरत्नावली ॥ (यथा, मनुः । ४ । १६३ । “नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम् । द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्णञ्च वर्ज्जयेत् ॥”) अस्य कारणं द्विष्टसाधनताज्ञानम् । इति भाषापरिच्छेदः ॥ स च आत्मनो विशेषगुणः । इति सिद्धान्तमुक्तावली ॥ तद्वशवर्त्तित्वनिषेधो यथा, श्रीभगवद्गीतायाम् । ३ । ३४ । “इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्यितौ । तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ॥” “इन्द्रियस्येन्द्रिस्येति वीप्सया सर्व्वेषामिन्द्रियाणां प्रत्येकमित्युक्तम् । अर्थे स्वस्वविषये अनुकूले रागः प्रतिकूले द्वेषः इत्येवं रागद्वेषौ व्यवस्थितौ अवश्यम्भाविनौ ।” इति तट्टीकायां श्रीधर- स्वामी ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वेष¦ पु॰ द्विष--भावे घञ्। न्यायनये आत्मवृत्तौ
१ गुणभेदे स च
“इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्” गौ॰ सू॰दर्शितः
“यज्जातीयस्यार्थस्य सन्निकर्षात् दुःखमात्मोपलब्ध-वान् तज्जातीयमेवार्थं पश्यन् हातुमिच्छति सेयं हातु-मिच्छा द्वेषः। एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात्दुःखहेतौ द्वेषः इति भाष्यसम्मतोऽर्थः। तत्रदुःखं प्रतिकूलवेदनीयतया स्वतोद्वेषविषयः तत्साघ-नन्तु द्विष्टसाधनताज्ञानात्।
“अधर्म्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम्”। भाषा॰
“प्रतिकूलमिति दुःखत्व-ज्ञानादेव सर्वेषां स्वभावतो विषय इत्यर्थः” मुक्ता॰।
“द्विष्ट-साधनताबुद्धिर्भवेत् द्वेषस्य कारणम्” भाषा॰।
“द्वेषं प्रति द्विष्टसाधनताज्ञानं कारणम्। बलवदिष्ट-साधनताज्ञानञ्च प्रतिबन्धकं तेन नान्तरीयदुःखजनकेपाकादौ न द्वेषः” मुक्ता॰। द्वेषो द्विष्टसाधनज्ञानञ्च नि-वृत्तिकारणम्
“निवृत्तिस्तु भवेत् द्वेषात् द्विष्टसाधनता-धियः” तत्रोक्तेः
“अयमर्थः दुःखे निवृत्तिर्द्वेषात् तदु-पाये निवृत्तिस्तु द्विष्टसाधनत्वज्ञानात् द्विष्टसाधनताज्ञानस्यदुःखसाधनविषयकनिवृत्तिं प्रति जनकत्वमन्वयव्यति-रेकाभ्यां स्थितम्” इति मुक्तावली।
“ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः” गौ॰ सू॰।
“अयं खलु जानीते तावत् इदं मे सुखसाधनमिदं मेदुःखसाधनमिति ज्ञातं सुखसाधनमाप्तुमिच्छति दुःख-साधनं हातुमिच्छति। प्राप्तुमिच्छाप्रयुक्तस्यास्य सुखसा-धनावाप्तये समीहाविशेष आरम्भः। जिहासाप्रयुक्तस्यदुःखसाधनपरिवर्जनं निवृत्तिरेवं ज्ञानेच्छाप्रयुक्तसुखदुःखानामेकेनाभिसम्बन्धः एककर्त्तृकत्वं ज्ञानेच्छाप्रवृत्तीनां समानाश्रयत्वञ्च तस्माज्जस्येच्छा द्वेषप्रयत्नसुखदुः-खानि धर्माः नाचेतनस्येति आरम्भनिवृत्त्योश्च प्रत्यगात्मनिदृष्टत्वात् परत्रानुमानं वेदितव्यमिति” भा॰। सांख्यादिमते
२ बुद्धिधर्मभेदे। सांख्यादिमतसिद्धस्तु द्वेषः अष्टादशविधःतामिस्रशब्दे
३२
७२ पृ॰ दर्शितः स च बुद्धिधर्मः क्लेश-विशेषः अस्मिताजन्यश्च। तल्लक्षणादिकं पात॰ सू॰ भाष्या-दावुक्तम् यथा
“अविद्यास्मितारागद्वेषाभिवेशाः पञ्चक्लेशाः” इत्युद्दिश्य
“दुःखानुशयी द्वेषः” इति लक्षितम्।
“दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वाप्रतिघो मन्युर्जिघांसा क्रोधः स द्वेष इति” भाष्यम्। दुःखमनुशेते कश्चिदन्तःकरणवृत्तिभेदः तमोऽनुगत-परिणामः ईदृशं सर्वदा मे मा भूदित्येवं तदयं[Page3829-b+ 38] दुःखानुशयीति भाष्यार्थः।
“अनभिज्ञस्य स्मृतेरभावात्दुःखाभिज्ञस्येत्युक्तं स्मर्य्यमाणे दुःखे द्वेषः दुःखानुस्मृतिपूर्वकः, अनुभूयमाने तु दुःखे नानुस्मृतिमपेक्षते। तत्-साधने तु स्मर्यमाणे अनुभूयमाने वा दुःखानुस्मृति-पूर्तक एव द्वेषः अनुभूयमानं हि दुःखसाधनं तज्जाती-यस्य दुःखहेतुत्वं स्मृत्वा तज्जातीयतया चास्य दुःख-हेतुत्वमनुमाय द्वेष्टि। प्रतिहन्तीति प्रतिघः द्वेषस्यप्रवृत्तेः प्रतिहननात् प्रतिघत्वम्” विव॰। तच्च शत्रुव्या-घ्रादिषु सत्सु न निवारयितुं शक्यम्। न च सर्वे तेदुःखहेतवो हन्तुं शक्यन्ते अतः स द्वेषः सदा हृदयंदहति। यदा तु स्वस्येव परेषां सर्वेषामपि दुःखंना भूदिति करुणां दुःखिषु भावयेत् तदा वैर्यादिद्वेष-निवृत्तौ चित्तं प्रसीदति। यद्यसौ पुण्यपुरुषेषु मुदितांभावयेत् तदा तद्वासनाभावात् स्वयमेवाप्रमत्तोऽशुक्लाकृष्णे पुण्ये प्रवर्त्तते। तथा पापपुरुषेषूपेक्षां भाव-यन् स्वयमपि सद्वासनाभावात् पापान्निवर्त्तते। ततश्चपुण्याकरणपापकरणनिमित्तस्य पश्चात्तापस्याभावे चित्तंप्रसीदति। एवं सुखिषु मैत्रीं भावयतो न केबलं रागोनिवर्त्तते। किन्त्वसूयेर्ष्यादयोऽपि निवर्त्तन्ते। तथादुःखिषु करुणां भावयतः शत्रुबधादिकरो द्वेषो यदानिवर्त्तते तदा दुःखिप्रतियोगिकःसुखित्वप्रयुक्तोदर्पोऽपि निवर्त्तते। एवं दोषान्तरनिवृत्तिरप्यूहनीया। दुःखे तत्साधने च इदं मे मा भूदिति स्पृहाविरोधिनीचित्तवृत्तिः क्रोध इति ईर्ष्येति चोच्यते।
“इन्द्रिय-स्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ” गीता।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वेष¦ m. (-षः) Hate, enmity. E. द्विष to hate, affix घञ्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वेषः [dvēṣḥ], [द्विष्-भावे घञ्]
Hate, dislike, abhorrence, repugnance, distaste; &Sacute.5.18; इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ Bg.3.34;7.27; so अन्नद्वेषः, भक्तद्वेषः &c.
Enmity, hostility, malignity; अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः Ms.8.225. -Comp. -परिमोचनः a particular Samādhi. -स्थ a. betraying dislike.
द्वेषः [dvēṣḥ] द्वेषण [dvēṣaṇa] द्वेष्य [dvēṣya], द्वेषण द्वेष्य &c. See under द्विष्.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वेष m. hatred , dislike , repugnance , enmity to( comp. ) S3Br. Mn. MBh. etc. ( षं-कृ, to show enmity against ( dat. ) Pan5c. iii , 160 ).
द्वेष etc. See. above.