द्वेषः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषः, पुं, (द्विष + भावे घञ् ।) शत्रुता । तत्- पर्य्यायः । वैरम् २ विरोधः ३ विद्वेषः ४ द्वेषणम् ५ । इति शब्दरत्नावली ॥ (यथा, मनुः । ४ । १६३ । “नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम् । द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्णञ्च वर्ज्जयेत् ॥”) अस्य कारणं द्विष्टसाधनताज्ञानम् । इति भाषापरिच्छेदः ॥ स च आत्मनो विशेषगुणः । इति सिद्धान्तमुक्तावली ॥ तद्वशवर्त्तित्वनिषेधो यथा, श्रीभगवद्गीतायाम् । ३ । ३४ । “इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्यितौ । तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ॥” “इन्द्रियस्येन्द्रिस्येति वीप्सया सर्व्वेषामिन्द्रियाणां प्रत्येकमित्युक्तम् । अर्थे स्वस्वविषये अनुकूले रागः प्रतिकूले द्वेषः इत्येवं रागद्वेषौ व्यवस्थितौ अवश्यम्भाविनौ ।” इति तट्टीकायां श्रीधर- स्वामी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषः [dvēṣḥ], [द्विष्-भावे घञ्]

Hate, dislike, abhorrence, repugnance, distaste; &Sacute.5.18; इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ Bg.3.34;7.27; so अन्नद्वेषः, भक्तद्वेषः &c.

Enmity, hostility, malignity; अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः Ms.8.225. -Comp. -परिमोचनः a particular Samādhi. -स्थ a. betraying dislike.

द्वेषः [dvēṣḥ] द्वेषण [dvēṣaṇa] द्वेष्य [dvēṣya], द्वेषण द्वेष्य &c. See under द्विष्.

"https://sa.wiktionary.org/w/index.php?title=द्वेषः&oldid=322975" इत्यस्माद् प्रतिप्राप्तम्