द्वैध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैधम्, व्य, (द्वि + “संख्याया विधार्थे धा ।” ५ । ३ । ४२ । इति धा । “द्वित्र्योश्च धमुञ् ।” ५ । ३ । ४५ । इति धा इत्यस्य धमुञ् ।) द्विप्रकारम् । इति व्याकरणम् ॥ (यथा, हरिवंशे । १ । ३० । “तदण्डमकरोद्द्वैधं दिवं भुवमथापि च ॥” क्ली, “धमुञन्तात् स्वार्थे डदर्शनम् ।” इति वार्त्ति- कोक्त्या डः । राज्ञां षड्गुणानामन्यतमः । इत्य- मरः । २ । ८ । १८ ॥) एकेन सन्धिरपरेण विग्रहः इति द्वौ प्रकारौ द्वैधं निपातितम् । इत्यमरटीकायां भरतः ॥ (तच्च द्विविधम् । यथा, मनुः । ७ । १६७ । “बलस्य स्वामिनश्चैव स्थितिः कार्य्यार्थसिद्धये । द्विविधं कीर्त्तते द्वैधं षाड्गुण्यगुणवेदिभिः ॥”) विवादः । इति त्रिकाण्डशेषः ॥ (द्विप्रकारम् । यथा, मनुः । ८ । ७३ । “बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः । समेषु तु गुणोत्कृष्टान् गुणद्वैधे द्विजोत्तमान् ॥” त्रि । यथा, “पथि द्वेधानि तृणानि ।” इति सिद्धान्तकौमुदी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैध नपुं।

राज्यगुणः

समानार्थक:सन्धि,विग्रह,यान,आसन,द्वैध,आश्रय

2।8।18।2।5

राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च। सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः॥

वैशिष्ट्य : राजा

पदार्थ-विभागः : , गुणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैध¦ त्रि॰ धमुञन्तात् स्वार्थे बार्त्ति॰ स्वार्थे ड।

१ द्विप्रकारे।
“बहुलं परिगृह्णीयात् साक्षिद्वैधे नराधिपः” मनुः।
“ततः साक्षिबलं साधु द्वैधवादकृतं भवेत्” भा॰ शा॰

८५ अ॰। राज्ञां सन्ध्यादिषु षट्सु गुणेषु

२ गुणभेदे
“सन्घिर्नाविग्रहो यानमासनं द्वैधमाश्रयः” अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैध¦ mfn. (-धः-धी-धं) Two-fold, of two sorts. n. (-धं)
1. A double resource, a stratagem, a secondary arrangement or array, a reserve.
2. Contest, dispute, difference.
3. A two-fold form or state. E. द्वैधम् and ड added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैध [dvaidha], a. (-धी f.) Two-fold, double.

धम् Duality, two-fold nature or state.

Separation into two parts.

Double resource, secondary reserve; कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च Ms.7.161.

Diversity, difference, conflict, contest, variance; श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माबुभौ स्मृतौ Ms.2.14;9.32; Y.2.78.

Doubt, uncertainty; छिन्नद्वैधाः (ऋषयः) Bg.5.25; Ve.6.44.

Double-dealing, duplicity, one of the six modes of foreign policy; see द्वैधीभाव below and गुण.

Contradiction. -धम् ind.

In two parts.

In two ways, doubly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैध/ द्वै--ध See. द्वैध.

द्वैध mf( ई)n. (fr. द्वि-धा)twofold , double Pa1n2. 5-3 , 45 Va1rtt. 1 Pat. (See. अ-)

द्वैध n. a twofold form or state , duality , duplicity , division , separation into two parts , contest , dispute , doubt , uncertainty La1t2y. Mn. MBh. etc.

द्वैध n. double resource , secondary array or reserve Mn. vii , 161 , 167

"https://sa.wiktionary.org/w/index.php?title=द्वैध&oldid=323215" इत्यस्माद् प्रतिप्राप्तम्