धटपरीक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटपरीक्षा, स्त्री, (धटस्य तुलायाः परीक्षा ।) तुलापरीक्षा । तत्र धटोत्पत्तिविधिर्यथा । “पितामहः । ‘छित्वा तु यज्ञियं वृक्षं यूपवन्मन्त्रपूर्ब्बकम् । प्रणम्य लोकपालेभ्यस्तुला कार्य्या मनीषिभिः ॥’ यूपवदिति यूपच्छेदनविहितसर्व्वेतिकर्त्तव्यताति- देशः । सा च ओ~ स्वधिते मैनं हिंसीरिति- च्छेदनमन्त्रविशेषादिरूपा इति व्यवहार- प्रदीपः ॥ ‘मन्त्रः सौम्यो वानस्पत्यच्छेदने जप्य एव च । चतुरस्रा तुला कार्य्या दृढा ऋज्वी तयैव च ॥ कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् ॥’ कटकानि बलयानि । ‘चतुर्हस्ता तुला कार्य्या पादौ चोपरि तत्समौ ॥’ अत्र साधारणत्वेन शारदातिलकोक्तो हस्तो ग्राह्यः । यथा, -- ‘चतुर्विंशत्यङ्गुलाढ्यं हस्तं तन्त्रविदो विदुः । यवानामष्टभिः कॢप्तं मानाङ्गुलमितीरितम् ॥’ यवानां तण्डुलीकृतानाम् । ‘यवानां तण्डुलैरेकमङ्गुलं चाष्टभिर्भवेत् । अदीर्घयोजितैर्हस्तश्चतुर्व्विंशतिरङ्गुलैः ॥’ इति कालिकापुराणात् ॥ प्रमाणन्तु पार्श्वेन यवानाम् । ‘षड्यवाः पार्श्व- सन्मिताः ।’ इति कात्यायनवचनात् ॥ * ॥ अनयोर्व्यवस्थामाह कापिलपञ्चरात्रम् । ‘अष्टभिस्तैर्भवेज्ज्येष्ठं मध्यमं सप्तभिर्यवैः । कन्यसं षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तम ! ॥’ कन्यसं कनिष्ठम् । पादौ स्तम्भौ । उपरि मृत्ति- कोपरि । तत्समौ चतुर्हस्तावित्यर्थः । वस्तुतस्तु उपरितत्समौ उपरि तत्समं काष्ठान्तरं ययोः पादयोस्तौ ॥ * ॥ स्तम्भप्रमाणमाह व्यासः । ‘हस्तद्वयं निखेयन्तु प्रोक्तं मुण्डकयोर्द्द्वयोः । षढस्तन्तु तयोः प्रोक्तं प्रमाणं परिमाणतः ॥’ मुण्डकयोः स्तम्भयोः । षढस्तं निखातहस्त- द्वयेन समं अर्थान्मृत्तिकोपरि हस्तचतुष्टय- मित्यर्थः । ‘अन्तरन्तु तयोर्हस्तौ भवेदध्यर्द्धमेव वा ।’ तयोः स्तम्भयोः । हस्तावन्तरं हस्तद्बयपरि- मितमध्यमित्यर्थः । अध्यर्द्धं सार्द्धहस्तद्बयम् । एतत्तु शालवृक्षोद्भवा कार्य्या पञ्चहस्तायता तुला । इति विष्णूक्तपञ्चहस्तायततुलाविषयम् । व्यवहारदीपिकाप्येवम् ॥ * ॥ अथ धटारोपणविधिः । पितामहः । तदयं सङ्क्षेपः । प्राड्विवाको लोकपालादिनम- स्कारपूर्ब्बकं यथोक्तलक्षणां तुलां कुर्य्यात् । ततः षढस्तौ सुदृढौ स्तम्भौ कृत्वा हस्तद्वय- व्यवधानेन दक्षिणोत्तरयोर्द्दिशोर्हस्तद्वयनिखननं कृत्वा पट्टधारकीलकाग्रस्तम्भयोरुपरि मध्ये पार्श्व- द्बये च विहितच्छिद्रं मध्यच्छिद्रनिवेशितलोहा- ङ्कुशपट्टकं निधाय उपरि कीलकस्य तत्पट्टकस्य मध्यस्थिताङ्कुशेन तुलामध्यवलयस्थलौहाङ्कुशं संयुञ्ज्यात् । एवञ्च मध्ये स्तम्भयोरन्तरा तिर्य्यक् तुलादण्डस्तिष्ठति तुलाग्रस्थिताभ्यामायसकील- काभ्यां शिक्यद्वयरज्जुबन्धनं कुर्य्यात् । तुलायाः पार्श्वयोः प्राक्प्रत्यक्दिशोस्तोरणस्तम्भौ तुलातो दशाङ्गुलोच्छ्रायौ कार्य्यौ तोरणयोरुपरि सूत्र- सम्बद्धौ मृण्मयावधोमुखौ धटमस्तकचुम्बितौ अवलम्बौ कार्य्यौ । यथावलम्बविश्लेषाभ्यां तुला- यामवनतिरुन्नतिश्च ज्ञेया तथा जलद्वारापि ।” इति दिव्यतत्त्वम् ॥ * ॥ अस्य प्रयोगस्तुलाशब्दे द्रष्टव्यः ॥

"https://sa.wiktionary.org/w/index.php?title=धटपरीक्षा&oldid=142202" इत्यस्माद् प्रतिप्राप्तम्